इन्द्रपुरमित्येतद्() (हिन्दी: इंदौर, आङ्ग्ल: Indore) महानगरं मध्यप्रदेशराज्यस्येन्द्ररपुरविभागेऽन्तर्गतस्येन्द्मरपुरमण्डलस्य केन्द्रमस्ति । इन्द्रमहानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेष्वन्यतमं वर्तते । इदं नगरं मध्यप्रदेशस्य व्यावसायिकं केन्द्रमपि विद्यते । वास्तविकतयाऽस्य नगरस्य मुख्यसंस्थापकवंशजाः इदानीमपीन्द्रमहानगरे निवसन्ति । इदं नगरमेकस्मिन् शैलप्रस्थे स्थितमस्ति । इन्द्रपुरं मध्यभारतस्य सर्वाधिकं समृद्धं नगरमस्ति । नगरमिदं ’मिनि मुम्बै’ इत्यपि प्रसिद्धमस्ति ।

त्वरिततथ्यानि इन्द्रपुरम् इन्दोर्, देशः ...
इन्द्रपुरम्

इन्दोर्
'Mini Mumbai'
Thumb
इन्द्रमहानगरम्
Thumb
मध्यप्रदेश राजयस्य मानचित्रे इन्दौर
देशः भारतम्
राज्यम् मध्यप्रदेशराज्यम्
मण्डलम् इन्द्रपुरमण्डलम्
महानगरविस्तारः ५३० चतुरस्र कि. मी.
जनसङ्ख्या (२०११) १९, ६०, ६३१
Founded by मल्हारराव होलकर
Government
  Type महापौरपरिषद्-सर्वकारः (Mayor–council government)
  Body इन्दौर म्युनिसिपल् कोर्पोरेशन्
  महापौरः कृष्ण मुरारी मोघे
  म्युनिसिपल कमीशनर् राकेश सिंह
Demonym(s) इन्दौरी, इन्दौरीयन्स, इन्दौरीपन
Time zone UTC+५:३० (भारतीयमानकसमयः(IST))
पिन कोड
४५२ xxx
Area code(s) ०७३१
Vehicle registration एम पी-०९
साक्षरता ८७.३८%
भाषाः , हिन्दी, आङ्ग्लं, मराठी, पञ्जाबी
लिङ्गानुपातः पु.-५०%, स्त्री.-४६%
Website Indore Municipal Corporation
पिदधातु

जनसङ्ख्या

२०११ जनगणनानुगुणम् इन्द्रपुरस्य जनसङ्ख्या १९,६०,६३१ अस्ति । अत्र १०,२०,८८३ पुरुषाः, ९,३९,७४८ महिलाश्च सन्ति । भारतस्य प्रमुखनगरेषु इन्द्रपुरस्य पञ्चदशक्रमाङ्कोऽस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थादस्य नगरस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटः ४७१ जनाः । अत्र पुं-स्त्र्यनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ८७.३८% अस्ति ।

भौगोलिकी स्थितिः

इन्द्रनगं भारतस्य मध्यभागे स्थितमस्ति । अस्य निर्देशाङ्कः २२ º ७२ उ., ७५ º ८६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ५५३ मी. अस्ति । इदं नगरं मालवा-शैलप्रस्थस्य दक्षिणसीमायां स्थितम् अस्ति । नगरमिदं सरस्वतीनद्याः, खाननद्याः च तटे स्थितमस्ति । इमे नद्यौ क्षिप्रानद्याः उपनद्यौ स्तः । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं २ ºC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४५ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अत्र सामान्यतः ३०-३५ इन्च(inch) स्तरं यावत् वर्षा भवति ।

इतिहासः

पुरा इन्दौर-महानगरस्य नाम ’इन्द्र’ आसीत् । अत्र १७४१ तमे वर्षे इन्द्रेश्वर-मन्दिरस्य निर्माणम् अभवत्, तदनन्तरम् अस्य नगरस्य नाम ’इन्दौर’ अभवत् । इदं नगरं मराठा-शासनस्य केन्द्रमासीत् । १७१५ तमे वर्षे इदं नगरं मराठा-वंशजानां होलकर-शासनस्य आधिपत्ये आसीत् । ततः परं १७२४ तमस्य वर्षस्य मई-मासस्य १८ दिनाङ्के पेशवा बाजीराव इत्याख्यस्य आधिपत्ये आगतम् । १७३३ तमे वर्षे पेशवा बाजीराव इत्ययं मल्हारराव होलकर इत्यस्मै इन्दौर-नगरस्य आधिपत्यं पुरस्काररुपेण दत्तवान् । मल्हारराव होलकर इत्यस्य मृत्योः परं द्वौ अयोग्यशासकौ आगतवन्तौ । ताभ्यां शासकाभ्यां किमपि कार्यं न कृतम् । तत्पश्चात् तृतीया शासिका अहिल्याबाई आगतवती । तया शासनकार्यं सफलतापूर्वकं कृतम् । १८१८ तमे वर्षे इदं नगरं ब्रिटिश-शासनस्य आधिपत्ये आगतम् । इदं नगरं ब्रिटिश-मध्यभारतसंस्थायाः मुख्यालयः आसीत् । मध्यभारतस्य ग्रीष्मकालीनं केन्द्रम् अपि आसीत् ।

कृषिः वाणिज्यं च

इन्द्रनगरमौद्योगिकं नगरमस्ति । तत्र ५००० अधिकाः लघु-बृहदुद्योगाः सन्ति । इन्द्रपुरस्य समीपे पीथमपुर-नगरमप्येकमौद्योगिकं नगरमस्ति । इदं नगरमिन्द्रनगरात् २७ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरेऽपि चतुश्शताधिकाः उद्योगाः, शताधिकाः अन्ताराष्ट्रिय-उद्योगाः सन्ति । अत्राधिकतया वाहनयन्त्रागाराः सन्ति । इन्द्रपुरं मध्यप्रदेशराज्यस्य मुख्यं व्यापारिकं केन्द्रमस्ति । कृषकाः स्वस्येत्पादनानां विक्रयणार्थं तत्र गच्छन्ति । इन्दौर-महानगरं मध्यप्रदेशस्य प्रमुखम् उत्पादनवितरणकेन्द्रमस्ति । अस्य नगरस्य समीपस्था भूमिः उत्पादनाय उत्तमा अस्ति । इन्दौर-महानगरं वैज्ञानिक-तकनीकी-अनुसन्धानस्य, शिक्षाक्षेत्रस्य च एकं मुख्यं नगरम् अस्ति । अस्मिन् नगरे स्थितं राजा रामन्ना प्रौद्योगिकी केन्द्र (RRCAT), भारतीय प्रबन्धन संस्थान (IIM) च भारतस्य महत्वपूर्णं संस्थानं वर्तते । नगरेऽस्मिन् ३० ’एञ्जिनियरिङ्ग्’ महाविद्यालयाः सन्ति । महात्मा गान्धी मेडिकल कॉलेज, दन्त चिकित्सा महाविद्यालय, कृषि महाविद्यालय, होलकर विज्ञान महाविद्यालय च अस्मिन्नगरे विद्यमानाः अन्याः शिक्षणसंस्थाः सन्ति ।

वीक्षणीयस्थलानि

लाल बाग महल

इदं भवनं होलकर-राजवंशजानां वास्तुकलायाः उत्कृष्टतमं प्रतिरूपमस्ति । पुरा इदं भवनं साम्राज्यस्य विशिष्टजनानां मिलनस्थानमासीत् । अस्मिन् भवने एव साम्राज्यस्य मुख्याधिकारिणः गोष्ठीः कुर्वन्ति स्म । अस्य भवनस्य निर्माणकार्यस्य आरम्भः १८८६ तमे वर्षे महाराजा तुकोजी राव होलकर द्वितीय इत्याख्यस्य शासने अभवत् । महाराजा तुकोजी राव होलकर तृतीय इत्याख्यस्य शासनकाले निर्माणकार्यं समाप्तं जातम् ।

राजवाडा महल

राजवाडा महल इन्दौर-महानगरस्य मध्ये स्थितमस्ति । होलकर-शासनकाले अस्य निर्माणम् अभवत् । इदं भवनं सुन्दरमस्ति । इदं भवनं सप्तभूमम् अस्ति । इदम् एकम् ऐतिहासिकं भवनम् अस्ति ।

बडा गणपति

इदं मन्दिरम् इन्दौर-महानगरस्य सर्वेषु मन्दिरेषु मुख्यमस्ति । अस्य मन्दिरस्य निर्माणं १८५७ तमे वर्षे अभवत् । अस्मिन् मन्दिरे भगवतः गणपतेः विशालप्रतिमा अस्ति । अस्याः प्रतिमायाः औन्नत्यं २५ फीट् अस्ति ।

खजराना मन्दिरम्

इदं मन्दिरं खजराना-क्षेत्रे स्थितमस्ति । अस्मिन् मन्दिरे भगवतः गणपतेः प्रतिमा अस्ति । अस्य मन्दिरस्य निर्माणं होलकर-वंशस्य महाराज्ञ्या अहिल्याबाई इत्यनया कारितम् ।

गान्धी हॉल्

गान्धी हॉल् इन्दौर-महानगरे महात्मा गान्धी-मार्गे स्थितमस्ति । एकस्मिन् काले इदम् इन्दौर-महानगरस्य सुन्दर-भवनमासीत् ।

केन्द्रीय सङ्ग्रहालय

अयम् इन्दौर-महानगरस्य मुख्यः सङ्ग्रहालयः अस्ति । सङ्ग्रहालयेऽस्मिन् बहूनि शस्त्राणि सङ्गृहीतानि सन्ति ।

अन्यानि वीक्षणीयस्थलानि

  • गीता भवन
  • छतरीयाँ
  • अन्नपूर्णा मन्दिर
  • हरसिद्धि मन्दिर
  • बीजासन माता मन्दिर
  • एरोड्रम रोड
  • गेन्देश्वर महादेव मन्दिर
  • गोपेश्वर महादेव मन्दिर
  • जबरेश्वर महादेव मन्दिर
  • राजवाडा गोपाल मन्दिर
  • राजवाडा शनि मन्दिर
  • नेहरू पार्क

रोचकतथ्यानि

  • १९७१ तमे वर्षे भारत-’वेस्ट् इण्डीज़्’ इत्येतयोः देशयोः मध्ये क्रिकेट्-क्रीडायाः आयोजनम् अभवत् । तस्यां क्रीडायां भारतदेशः विजयी अभवत् । तेन कारणेन इन्दौर-महानगरे एकस्य बल्ल(Bat)स्मारकस्य स्थापना कृता । तस्य औन्नत्यं ३० फीट् अस्ति । तस्योपरि सर्वेषां क्रीडालूनां हस्ताक्षराणि अङ्कितानि सन्ति ।
  • इन्दौर-महानगरे भगवतः गणपतेः विश्वस्य उच्चतमा प्रतिमा अस्ति ।
  • सलमान खान, जॉनी वॉकर, विजेन्द्र घाटगे (गायकः), आमीर खान, किशोर कुमार (गायकः) इत्यादीनाम् इन्दौर-महानगरेण सह सम्बन्धः अस्ति ।
  • भारतस्य प्रसिद्धायाः गायिकाय़ाः लता मङ्गेशकर, क्रिकेट-क्रीडालोः राहुल द्रविड इत्यस्य च जन्मस्थलमपि इन्दौर-महानगरम् अस्ति ।

मार्गाः

वायुमार्गः

इन्दौर-महानगरे देवी अहिल्याबाई होलकर विमानस्थानकम् अस्ति । देहली, मुम्बई, भोपाल, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, कोलकाता, रायपुर इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-महानगरं प्रति विमानयानानि सन्ति ।

धूमशकटमार्गः

मुम्बई, आगरा, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरं प्रति रेलयानानि सन्ति ।

भूमार्गः

इन्दौर-महानगरस्य मार्ग-परिवहन-निगमः बहुविकसितः अस्ति । मध्यप्रदेशस्य सर्वेभ्यः नगरेभ्यः, ग्रामेभ्यः, अन्यराज्येभ्यः च नियमितरूपेण इन्दौर-नगराय बस्-यानानि प्राप्यन्ते ।


बाह्यसम्पर्कतन्तुः

http://hi.bharatdiscovery.org/india/%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8C%E0%A4%B0
http://www.census2011.co.in/census/city/299-indore.html
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html Archived २०१४-०६-०९ at the Wayback Machine
Bharat discovery indore Archived २०१४-०७-१३ at the Wayback Machine

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.