थाईलेण्ड्
श्यामदेशः उत राजनाज्ञाचक्रदैय जम्बुद्वीपे विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सियाम् अस्ति । अस्य राजधानी क्रुङ देवमहानगरम् (बेङ्काक्) अथवा पूर्णं नाम क्रुङ देवमहानगर अमररत्नकोसिन्द्र महिन्द्रायुध्या महातिलकभव नवरत्नराजधानीपुरीरम्य उत्तमराजनिवेशनमहास्थान अमरविमानअवतारस्थित शक्रदत्तियविष्णुकर्मप्रसिद्धि । एषः राष्ट्रः विश्वे क्षेत्रफलदृष्ट्या ५१ तमे स्थाने विद्यते । एतस्य राष्ट्रस्य धर्मः बौद्धधर्मः । अस्य उत्तरदिशि म्यान्मार (बर्मा)-लाओस-देशौ, पूर्वदिशि लाओस-कम्बोडिया-देशौ, दक्षिणदिशि दैयप्रदेश-खातं मलेशियादेशः च, पश्चिमदिशि अण्डमानसागरः, म्यान्मारदेशः च सन्ति । दैयप्रदेश-देशस्य दक्षिणपूर्वदिशि चम्पादेशेन (वियतनाम)-सह, दक्षिणपश्चिमदिशि इण्डोनेशिया-भारत-देशेन सह समुद्रीयसीमाः अपि सन्ति ।
Read article