प्रियङ्गुः

From Wiktionary, the free dictionary

Remove ads

यन्त्रोपारोपितकोशांशः

कल्पद्रुमः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रियङ्गुः, स्त्री, (प्रियं गच्छतीति । प्रिय + गम् + मृगय्वादित्वात् कुप्रत्ययेन साधुः ।) स्वनाम- ख्यातसुगन्धिवृक्षविशेषः । (यथा, महागणपति- स्तोत्रे । १० । “वामे चक्रगदाधरः स भगवान् क्रोडो प्रियङ्गो- स्तले हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥”) तत्पर्य्यायः । श्यामा २ महिलाह्वया ३ लता ४ गोवन्दनी ५ गुन्द्रा ६ फलिनी ७ फली ८ विष्व- क्सेना ९ गन्धफली १० कारम्भा ११ प्रियकः १२ । इत्यमरः । २ । ४ । ५५ ॥ प्रियवल्ली १३ फलप्रिया १४ गौरी १५ वृत्ता १६ कङ्गुः १७ कङ्गुनी १८ भङ्गुरा १९ गौरवल्ली २० शुभगा २१ पर्णभेदिनी २२ शुभा २३ पीता २४ मङ्गल्या २५ श्रेयसी २६ । अस्या गुणाः । शीतलत्वम् । तिक्तत्वम् । दाहपित्तास्रदोषभ्रमवान्तिज्वरवक्त्रजाड्यनाशि- त्वम् । इति राजनिर्घण्टः ॥ तुवरत्वम् । अनि- लनाशित्वम् । रक्तातियोगदौर्गन्ध्यस्वेदगुल्मतृड्- विषमोहनाशित्वञ्च । इति भावप्रकाशः ॥ * ॥ राजिका । पिप्पली । कङ्गुः । इति मेदिनी ॥ कटुकी । इति धरणिः ॥

Apte

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रियङ्गुः [priyaṅguḥ], 1 N. of a creeper (said to put forth blossoms at the touch of women); प्रियङ्गुश्यामाङ्गप्रकृतिरपि Māl.3.9. (For some of the conventions of poets about the blossoming of trees, see the quotation under अशोक.)

Long pepper.

A plant and its perfume (Mar. गव्हला); Mb.13.14.87.

A kind of millet (राजिका; Mar. राळा); दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च खल्वाश्च खलकुलाश्च Bṛi. Up.6.3.13.-गु n.

Saffron.

mustard seed. -Comp. -द्वीपम् N. of a country; Buddh.

Remove ads

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads