From Wikipedia, the free encyclopedia
सदाचारस्मृतिग्रन्थस्य रचयिता मध्वाचार्यः भवति। सदाचारस्मृतिग्रन्थः निष्काम्यकर्मणः महत्वं तथा नित्यविधिञ्च स्पष्टतया निरूपयति। प्रतिनित्यं हरिस्मरणपूर्वकं सकाले उत्थानं भवेत्। नित्यविधिं सम्पूर्णतया स्पष्टं निरूपितवान् अस्ति। गायत्रीमन्त्रजपविषये अस्मिन् ग्रन्थे विशिष्टतया निरूपितवान् अस्ति। गायत्रिमन्त्रजपत्रिगुणितं नारायणाष्टाक्षरमन्त्रजपं कर्तव्यमिति निरूपितवान् अस्ति। वर्णाश्रमधर्मान् अपि निरूपितवान् अस्ति। वैश्वदेवं तथा बलिहरणम् अवश्यं करणीयम् इति निरूपितवान् अस्ति। देवं समर्पितं अन्नमेव प्रसादरूपेण स्वीकरणीयम् इति च निरूपितवान् अस्ति।
Seamless Wikipedia browsing. On steroids.