From Wikipedia, the free encyclopedia
आर्द्रकम्, शुण्ठी वा भारते वर्धमानः कश्चन कन्दविशेषः । शुण्ठी सस्यजन्यः आहारपदार्थः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उच्यते। अस्याः शुण्ठ्याः सस्यशास्त्रीयं नाम अस्ति Coriandrum satirum इति । संस्कृते अशुष्कां शुण्ठीम् आर्द्रकम् इति वदन्ति, शुष्कां च शुण्ठी इति । अस्याः शुण्ठ्याः महौषधं, विश्वं, नागरं, विश्वभेषजं, शृङ्गवेरं, विश्वौषधं, कटुभद्रम् इत्यादीनि अन्यानि अपि नामानि सन्ति ।
चरकः स्वस्य चरकसंहितायाम् अर्द्रकं विश्वभेषजम् इति स्तौति । एषा शुण्ठी कटुरसयुक्ता, उष्णवीर्या च । एषा स्निग्धगुणयुक्ता अपि । अयं अत्युत्तमः पाचकः इति कारणेन शरीरे स्थितेन अजीर्णेन अहारेण जायमानान् अनेकान् रोगान् निवारयति । तेन सह स्वस्य तीक्ष्णमुणेन शरीरे स्रोतसाम् अवरोधमपि निवारयति । एताभ्यां द्वाभ्यां गुणाभ्यां आर्द्रकं सामान्यतः सर्वान् रोगान् उपशमयितुं शक्नोति । शुष्कम् आर्द्रकं शुण्ठिः इति कथ्यते ।
अस्य शुण्ठीकषायस्य निर्माणम् अपि अत्यन्तं सुलभम् । शुण्ठीं प्रक्षाल्य सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, जीरिकाचूर्णं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।
अस्य शुण्ठीरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् शुण्ठीं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । अत्र शुण्ठीखण्डानां प्रमाणम् अत्यन्तं न्यूनं भवेत् अन्यथा शाकरसः अत्यन्तं कटुः भवति । अन्यशाकानां रसस्य निर्माणे एवं नास्ति ।
आर्द्रके ८०% आर्द्रता, २.३% प्रोटीन्, २.४% (फैबर्) सूत्रम्, १२.३% कार्बोहैड्रेट्, खनिजांशाः –क्याल्सियं फास्परस्, अयः, अयोडिन् च, विटमिन् ऎ, बि,सि च भवन्ति । शुण्ठीतैले Zingiberene, Zingiberol च भवति
बुभुक्षायाः उत्पादने, वर्धने च अर्द्रकम् अग्रस्थानं भजते । तक्रेण सह निर्मितम् आद्रकस्य ताक्रम्, उपसेचनं वा खादिवम् आहारं जिर्णीकरोति । तेन शरीरे आमसंग्रहः न भवति । उदरवेदनायां, अजीर्णतायां च आर्द्रकरससेवनं हितकरम् । प्रतिदिनं भोजनात् पूर्वं लघुना अर्द्रकखण्डेन किञ्चित् लवणं योजयित्वा खाद्यते चेत् भुक्तः आहारः सम्यक् जीर्णः भवति ।
आमवातः ग्रन्थिवेदना इत्यादिषु आर्द्रकस्य कलकः किञ्चित् उष्णीकृत्य लेपनीयः । शीतत्वम् अवसादत्वं च इदं दूरीकरोति । शुण्ठेः (शुष्कम् आर्दकम् )चूर्णं तिलतैलेन मिश्रीकृत्य अभ्यङ्गः क्रियते चेदपि पूर्वम् उक्ताः दोषाः निवारिताः भवन्ति । शुण्ठेः चूर्णं शरीरे लेपयन्ति चेत् शोथः अपगच्छति । शीरपिते, शिलीपदे (elephentiasis) च अर्द्रकस्य प्रयोगः उत्तमं परिणामं जनयति
पीनसः कासः, श्वाससमस्या, हिक्कः इत्येतेषु अर्द्रकरसः प्रयोजनकारी भवति । अयं रसः कफहरः । कण्ठे सञ्चितं सर्वं कफं द्रवीकरोति । अयं रसः नराणाम् उत्तेजकः । समान्यज्वरेषु औषधस्य आर्द्रकरसेन सह सेवनस्य पद्धतिः अपि रूदौ अस्ति । विषमज्वरे शुण्ठेः चूर्णं हितकरम् ।
उर्द्रकम् उत्तमम् उत्तेजकम् इति कारणेन पुरुषस्य सन्तानशक्तिं वर्धयति । वाजीर्करणस्य औषधिषु आर्द्रकम् अपि अन्यतमम् । प्रसवोत्तर-दौर्बल्यनिवारणाय शुण्ठीपाकः सेवनीयः ।
रोगस्य तीव्रतायाः कारणेन यूदा हस्तपादं शीतलं भवति तदा आर्दकरसेन लशुनरसं समप्रमाणेन मिश्रीकृत्य हस्तपादस्य लेपयित्वा सम्यक् मर्दनीयम् । तदा उष्णता उत्पद्यते, दौर्बल्यमपि न्यूनं भवति । नेग्गिलमुळ्ळु – कषायेन सह आर्दकरसं मिश्रीकृत्य प्रतिदिनं प्रातः पिबन्ति चेत् आमवातः कटिवेदना च अपगच्छति इति वृन्दमाधरग्रन्थे उक्तमस्ति कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।
कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.