From Wikipedia, the free encyclopedia
वेदभाष्यकाराः वेदानां, वेदसूक्तीनां च अर्थान् विपुलतया भाष्यमाध्यमेन वेदार्थजिज्ञासूनां कृते उपस्थापयन्ति। वेदभाष्यकृत्सु स्कन्दस्वामि –नारायण्-उद्गीथ-माधव –वेङ्किटमाधव-धानुष्कयज्वा –आनन्दतीर्थभट्ट –आत्मानन्द-सायणप्रभृतयः भाष्यकाराः सुविदिताः सन्ति । स्कन्दस्वामी ऋग्वेदे नितरां विशालं भाष्यं चकार । सः निरुक्ते अपि टीकां कृतवान् । नारायणः ऋग्भाष्ये स्कन्दस्वामिनं प्रति साहाय्यं चकार इत्येतदस्ति । माधवनामधेयश्चत्वारो भाष्यकाराः उल्लिख्यन्ते । तेष्वेकः सामवेदसंहितायाम् इतरे त्रयः ऋग्वेदे भाष्यं लिखितवन्तश्च । एतेषु सर्वेष्वपि भाष्यकारेषु सायणः प्रमुखो भाष्यकारः । सः अनेकसंहितासु बहुषु च ब्राह्मणेषु भाष्याणि विधाय वैदिकसाहित्यं वर्धयामास । सायणात् प्रग्वर्तिषु वेदज्ञेषु ब्राह्मणः सर्वस्वनामकः वेदभाष्यकर्तुः हलायुधस्यापि नाम उल्लेखायोग्यं वर्तते ॥
वैदिकभाषा अत्यन्तोत्कृष्टा वर्तते । वेदेषु निहितानां तत्त्वानां ज्ञानार्थं तद्गतमन्त्राणां व्याख्यानं कर्त्तुं निरुक्तादिशास्त्राणां रचना निघण्ट्वादिभिः कृता । गुप्तकालिकभारतवर्षे वैदिकधर्मस्य महान् अभ्युदयोऽभवत् ।[१] गुप्तसम्राट् 'परमभागवतः' इत्युपाधिना स्वात्मानमलंचकार ।[२] [३] एवं कर्तुम् असौ आत्मानम् गौरवास्पदममन्यत । अयमेव वैदिकधर्मस्य पुनरुद्धारं कृतवान् । सप्तमे शतके आचार्यकुमारिलेन मीमांसाशास्त्रस्य भूयसी प्रतिष्ठा कृता । अस्य व्यापकप्रभावात् वेदाध्ययनं प्रति पण्डितानां प्रवृत्तिः जागरूकाऽभवत् । बौद्धकालिकभारते वेदाध्ययनं प्रति जनानाम् उपेक्षादृष्टिः अजायत । किञ्च कुमारिलेन सयुक्त्या बौद्धमतस्य सप्रमाणं खण्डनं कृत्वा वेदानां प्रामाणिकता पुनः स्थापिता। कुमारिल-शङ्करयोः समये वेदार्थावबोधनं प्रति जनानां प्रवृत्तिः पुनर्जागरूकाऽभवत् । वैदिकभाष्यकारेषु प्राचीनः भाष्यकारः स्कन्दस्वामिनः प्रादुर्भावस्य अयमेव काल इति सम्भाव्यते।
वेदभाष्यकृत्सु स्कन्दस्वामि-नारायण-उद्गीथ-माधवभट्ट-वेङ्कटमाधव-धानुष्कयज्व-अानन्दतीर्थ-अात्मानन्द-सायणप्रभृतयो भाष्यकाराः सुविदिताः सन्ति।
स्कन्दस्वामी ऋग्वेदे विशदं भाष्यञ्चकार। स निरुक्तेऽपि टीकां कृतवान्। ऋग्वेदसंहितायाः सर्वप्रथमभाष्यमस्यैव सम्प्रति समुपलभ्यते। ग्रन्थकारस्य पुरातनत्वेन सह ग्रन्थस्य अप्यन्तरङ्गगुणेन इदं भाष्यं जनेषु श्लाघ्यं समादरणीयञ्च अस्ति। स्कन्दस्वामिनः जन्म गुर्जरप्रदेशस्य विद्यापीठतया राजधानीभावेन च पुरा प्रथिते 'बलभी' इत्याख्यनगरे अभवत्। अस्य पितुर्नाम भर्त्तृध्रुवः अासीत्। ऋग्वेदभाष्यस्य प्रथमाष्टकस्य अन्ते भाष्यकारेण एतस्य चर्चा स्वयं कृताऽस्ति।
'माधव'-नामधेयाश्चत्वारो भाष्यकाराः उल्लिख्यन्ते इतिहासकारैः। तेष्वेकः सामवेदसंहितायां किञ्चेतरे त्रय ऋग्वेदे भाष्यं लिलिखुः। केषाञ्चनमतेन माधवो नाम न कोऽपि भाष्यकारः सायणः किंवा वेङ्कट एव ‘माधव' इत्येतेन नाम्नः ख्यात आसीत्। अन्ये चाहुः माघवः सायणात् वेङ्कटाच्च भिन्न अासीदतः माधवस्य व्यक्तित्वं स्वतन्त्रमेव। माधव ऋग्वेदे विलक्षणं पाण्डित्यं निदधौ। सायणो वेङ्कटश्चोभौ माधवस्य भाष्यमनुसस्रतुः। अन्योऽप्येकः माधवोऽस्ति। यस्य ऋग्वेदप्रथमाष्टकस्य टीका मद्रासविश्वविद्यालयतः प्रकाशिताऽभवत्। सारगर्भिता इयं टीकाऽस्ति। अल्पाक्षरे सत्यपि मन्त्राणामर्थावबोधने नितान्तमहत्त्वपूर्णाऽस्तीयं टीकेति। द्वादशशततमेशवीयाब्दे वेङ्कटमाधवः अभूदिति पण्डितसाम्बशिवशास्त्री मन्यते। वेङ्कटस्य भाष्यमतिसंक्षिप्तमस्ति। पर्यायवाचिपदान्युपस्थाप्य समन्त्रार्थम् आकलयितुं श्लाघ्यं यत्नं कृतवान्। धानुष्कयज्वा त्रिषु वेदेषु भाष्यं प्रणिनायेत्येष उल्लेखो वेदाचार्यस्य सुदर्शनमीमांसायां दृश्यते। अानन्दतीर्थ एव ‘मध्व' इत्येतेन नाम्ना ख्यातिं ययौ। अयं मध्वः स एव यो द्वैतवादं प्रवर्तयामास। एष बहून् ग्रन्थान् अजग्रन्थत्। आत्मानन्दः ऋग्वेदस्य ‘अस्यवामीयं' सूक्तं व्याख्यातवान्। आचार्यसायणो वैदिकसम्प्रदायस्य वेत्ताऽऽसीत्। निजज्येष्ठभ्रात्रा माधवाचार्येण प्रेरितो भूत्वा व्याख्याकार्येऽस्मिन् असौ प्रवृत्तोऽभूत् तेन भाष्यमिदं माधवीय-नाम्ना विश्वविश्रुतम् अभवत्।
सामसंहितायाः सायणभाष्यात्प्राक् द्वित्रा एव भाष्यकाराः अासन्। माधवः सामसंहितायाः प्रथमभाष्यकारः प्रतीतो भवति। ततः भरतस्वामी सामसंहितोपरि भाष्यमलिखत्। गुणविष्णुः साममन्त्रेषु व्याख्याम् अलखित्। तस्य साममन्त्रव्याख्यानस्य नाम मिथिलायां बङ्गप्रदेशे च प्रसिद्धमस्ति। तत्र सामवेदिनां नित्यनैमित्तिकविधीनाम् उपयोगिनः साममन्त्राणां व्याख्याकृता।
उव्वटेन यजुर्वेदसंहितायाम् स्वनाम्ना भाष्यं रचितम्। उव्वटस्य अनुसरणं कुर्वन् आचार्यमहीधरः अपि स्वभाष्यम् अरचयत्। एतयोः भाष्यम् माध्यन्दिनसंहितायै प्रसिद्धम्।
हलायुधः ब्राह्मणसर्वस्वम् इति भाष्यम् अलिखत्। सायणाचार्येण सम्पूर्णकाण्वसंहितायामुपरि स्वभाष्यमलेखि। अनन्ताचार्येण काण्वसंहितायारुत्तरार्द्धोपरि (एकविंशत्यध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तम् ) स्वभाष्यं रचितम्। आनन्दबोधभट्टोपाध्यायेन काण्वसंहितायाः चतुर्थदशकस्य उपरि (एकत्रिंशदध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तम् ) स्वभाष्यं रचितम्।
कुण्डिनः तैत्तिरीयसंहितायाः वृत्तिमरचयत्। [४] पदपाठकारेण आत्रेयेण सह अयं वृत्तिकारोऽस्ति सम्बद्धः। तेनायमपि कोऽपि प्राचीनः अाचार्य एवेति प्रमाणितो भवति। एतदतिरिक्तं किमप्यन्यद् ज्ञातमेव अस्ति कुण्डिनस्य विषये। सम्भाव्यते यदयं वृत्तिकारः गुप्तकाले एव स्ववृत्तिं प्रणीतवान् इति। भवस्वामी नाम कोऽप्याचार्यः ‘तैत्तिरीयसंहितायाः भाष्यग्रन्थं प्रणीतवान्' इत्यपि सम्भाव्यते। यतो ह्यस्य भवस्वामिनः परिचयादिबोधमतस्योल्लेखः स्वकृतबौधायन-प्रयोगसार-नामकग्रन्थस्य आरम्भिकभागे केशवस्वामिना कृतः। तद्यथा - ‘भवस्वामिमतानुसारिणा मया तु उभयमप्यङ्गीकृत्य प्रयोगसारः क्रियते।।' अनेनास्य भाष्यकारत्वं समर्थ्यते। गुहदेवो नाम कोऽपि विद्वान् तैत्तिरीयसंहितायाः भाष्यं प्रणीतवान्। आचार्यक्षुरोऽपि तैत्तिरीयसंहितायामुपरि किमपि भाष्यं प्रणीतवान्। अस्याचार्यस्य विषये सायणाचार्यस्य माधवीयधातुवृत्तौ प्रदत्तेन निर्देशेन ज्ञातो भवति। अस्मिन् निर्देशे क्षुरस्य नाम भट्टभास्करस्य नाम्ना पूर्वमेवोल्लिखितोऽस्ति- ‘यथा त्रय एनां महिमानः सचन्ते (तै० सं० ४-३-११ ) इत्यत्र क्षुरभट्टभास्करीययोः सचन्ते समन्ते इति ॥' अतोऽयं क्षुरः भास्करभट्टस्य पूर्ववत्तीं इति सम्भाव्यते। भट्टभास्करस्य समयनिर्धारणं वैदिकभाष्यकाराणाम् इतिहासार्थं नितान्तम् आवश्यकम अस्ति। सायणाचार्यः स्वभाष्ये भट्टभास्करमिश्रं स्मरति।
सायणात् पूर्ववत्तीं अथर्वसंहितायाः न कोऽपि भाष्यकारोऽभवत्। सायणस्तु सम्पूर्णायाम् अथर्वसंहितायामुपरि भाष्यं लिलेख, किश्च प्रकाशितग्रन्थेषु द्वादश काण्डानाम् ( १-४, ६-८, ११, १७-२० ) एव भाष्यमुपलब्धं भवति। अनेन प्रकारेणास्य वेदस्य सायणभाष्यमप्यपूर्णमेवाऽस्ति।
Seamless Wikipedia browsing. On steroids.