From Wikipedia, the free encyclopedia
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति रायबाग-उपमण्डलम् ।
रायबाग-उपमण्डलस्य निर्देशाङ्कौ १६.४८°उत्तरे, ७४.७८° पूर्वे.[1] । सामान्यतः औन्नत्यं ५९०मीटरमितम् (१९३५फीट्)। अस्य उपमण्डलस्य अभिवृद्धिः तावती न जाता । कदलीफलस्य, इक्षुदण्डस्य च कृषिः विपुलतया अस्ति । अत्र अतिप्राचीनं ब्रिटिषकालीनं किञ्चन रेलनिस्थानकम् अस्ति ।
२००१ तमवर्षस्य जनगणनानुसारम् अस्य उपमण्डलस्य जनसंख्या १८,९८४ मिता । एतेषु पुरुषाः ५२%, महिलाः ४८% । साक्षरताप्रमाणं ६८%, तन्नाम भारतस्य साक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । पुरुषाणां साक्षरता प्रमाणं ७५%, महिलानां ६०% । १४% साक्षराः ऊनषड्वर्षियाः ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.