From Wikipedia, the free encyclopedia
मन्ना डे प्रसिद्धः गायकः । क्रि.श.१९६०-७०तमकालस्य हिन्दीभाषायाः चलच्चित्राणां गीतानि श्रुणुमः चेत् अवश्यं 'मन्ना डे' वर्यस्य स्मरणं भवति । तस्मिन् काले मुकेशस्य गानस्य शैली भिन्ना मोहम्मदरफिमहोदयस्य गानस्य शैली भिन्ना आसीत् । मन्ना डे वर्यः तु हिन्दुस्तानीसङ्गीतस्य मार्गम् अनुसरन् गायति । "हे भाय् झ्रर देख् के चलो " राजकपूरस्य कालस्य प्रसिद्धं गीतम् । एतत् गीतं मन्ना डे विशिष्टशैल्या गीतवान् । भावपूर्णं गीत्वा राजकपूरस्य पात्रस्य पोषणं समर्थरीत्या अकरोत् । प्रायः अन्यः कोऽपि गायति चेत् एतादृशरीत्या नाभविष्यत् इति जनाभिप्रायः । "पडोसन् चलच्चित्रस्य " 'एक चतुर नार्', आशीर्वाद् चलच्चित्रस्य "पूछो न कैसे", हे मेरे प्यारे वतन, "ये दोस्ती हम नही छोडेङ्गे " इत्यादिभिः मधुरनित्यनूतनगीतैः हिन्दिचित्रगीतरसिकानां मनः सन्तर्पितवान् । अस्य सङ्गीते तीव्रा आसक्तिः अपि च प्रेम । बाल्यदिनेषु मित्रैः सह उत्पीठिकाः विविधलयैः कुट्टयन् नानं कुर्वन् मित्राणि रञ्जयति स्म । स्नाताकाध्ययनावसरे अन्तर्महाविद्यालयस्पर्धासु सततं वर्षत्रयाणि प्रथमपारितोषिकं प्राप्तवान् । मुम्बैनगरस्य बालिवुड् (हिन्दीचलच्चित्रलोकः) मध्ये प्रभावयुताः नटाः, निदेशकाः, सङ्गीतनिदेशाकः च आसन् । तेषु प्रमुखः श्री कृष्णचन्द्र डे, सः मन्ना डे वर्यस्य परिचयं तत्कालीनमेरुसङ्गीतमेरुभ्यः कारितवान् । अनेन 'उस्ताद् दबीर् खन्' 'उस्ताद् अमन् अलि खान्' उस्ताद् अब्दुल् रहमन् खान् ' इत्यादीनां सम्पर्के आगताः । एतैः प्रसिद्धैः गुरुभिः शिक्षितः मन्ना डे स्वस्य कण्ठमाधुर्येन गीतरसिकानां मनांसि जितवान् ।
मन्ना डे | |
---|---|
मन्ना डे डि.लिट् पदवीप्राप्तिरनन्तरं रवीन्द्र-भारती विश्वविद्यालयः (मै २००४) | |
व्यैक्तिकतथ्यानि | |
जन्मनाम | प्रबोध चन्द्र डे |
ख्यातनाम | मन्ना डे |
जन्म |
[१] कोलकाता, भारतम् | १ १९१९
मरणम् |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। बेङ्गळूरु, भारतम् |
सङ्गीतविद्या | नेपथ्यगीतम् |
वृत्तिः | गायकः |
सक्रियवर्षाणि | १९४२-२०१३ |
जालस्थानम् | http://www.mannadey.in |
क्रि.श.१९४२तमे वर्षे मन्ना डे मुम्बैचित्ररङ्गं प्रविष्टवान् । तमन्ना इति चलच्चित्रस्य सङ्गीतसंयोजकः के.सी.डे आसीत् । अस्मिन् चलच्चित्रार्थं गानमेरुः इति प्रसिद्धया सुरैय्या महाभागया सह गीतवान् । तत गीतम् अतीव प्रसिद्धम् अभवत् । मोहाम्मद रफी, किशोरकुमारः इत्यादिभिः प्रसिद्धैः सह गायामि चेत् रोमाञ्चकतया न गायति इति लोकाक्षेपः आसीत् । अहत्य सामान्यतः ३५००गीतानि गीतवान् । बङ्गाळी, मराठी, मलयाळम्, कन्नडम् इत्यादिभाषासु अपि चित्रगीतानि गीतवान् ।
क्रि.श.१९५६तमे वर्षे डिसेम्बर् मासस्य १८दिनाङ्के केरळमूलस्य सुलोचना इति कन्यां परिणीतवान् । सुखदाम्पत्यस्य फलरूपेण शुरोमा(क्रि.श.१९५६), सुमिता (क्रि.श.१९५८) इति द्वे पुत्र्यौ अभवताम् । प्रहार् इति चलच्चित्रस्य गानं तस्य अन्तिमं कार्यम् । तदा तस्य वयः ९०वर्षाणि । अस्य पश्चिमे वयसि बेङ्गळूरुनगरे वसन् सङ्गीतगोष्ठिषु विरलतया गायन् अस्ति ।
प्रबोधाचन्द्र डे महोदयाय क्रि.श.२००७तमवर्षस्य बाबासाहेब फाल्के प्रशस्तिः प्रदत्ता । बहुपूर्वमेव दातव्या प्रशस्तिः तस्य ९०तमे वयसि दत्ता । पद्मश्रीप्रशस्तिः, पद्मभूषणप्रशस्तिः अन्यपुरस्काराः च अनेन पूर्वमेव प्राप्ताः । ५५तमे राष्ट्रियप्रशस्तिप्रदानसमारोहे राष्ट्राध्यक्षा श्रीमती प्रतिभा देविसिङ्ग् पाटील् महाभागा अस्मैः फालके प्रशस्तिम् दत्तवती । अनेन सह बालिवुड् यश् चोपडा इत्यादिभ्यः भारतीयचलच्चित्ररङ्गस्य यशोवद्भ्यः इयं प्रशस्तिः दत्ता ।
मन्ना डे बहुषु भाषासु स्वजीवनगाथां लिखितवान् ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.