Remove ads
From Wikipedia, the free encyclopedia
भीमबेट्का (भीमबैठका) भारतस्य मध्यप्रदेराज्यस्य रायसेनमण्डले स्थितः पुरातनकास्य आवासः । अयम् आदिमानवैः निर्मितचित्रैः शैलाश्रयैः च प्रसिद्धः । एतानि चित्राणि शिलायुगतः मध्ययुगपर्यन्तकालस्य इति इतिहासकाराणां विश्वासः । प्राचीनकालस्य भित्तयः, लघुस्तूपानि, पाशाणनिर्मितगृहाणि, शुङ्गराजवंशस्य, गुप्तवंशस्य कालीनाः आभिलेखाः, परमारराजवंशीयकालस्य मन्दिरावशेषाः च अस्मिन् शिलाश्रये सन्ति । भीमबेट्काक्षेत्रं भोपालमण्डलस्य भारतीयपुरातत्त्वसर्वेक्षणविभागेन सामान्यशकस्य१९९०तमवर्षे एतत् राष्ट्रियमहत्स्थानम् इति उद्घुष्टम् । तत् पश्चात् सा.श. २००३तमवर्षे युनेस्कोद्वारा एतत् स्थानं विश्वपरम्परास्थानम् इति उद्घुष्टम् । महाभारतस्य भीमेन सह सम्बद्धं स्थानम् आसीत् अतः तस्य नाम्नि आह्वयन्ति । एताः गुहाः मध्यभारतस्य पठारस्य दक्षिणकोणे स्थिते विन्ध्याचलस्य शिखरसीमान्ते सन्ति ।[१];अस्य दक्षिणे सतपुडायाः पर्वताश्रेण्याः आरम्भः ।[२]अस्य संशोधनवर्षम् सा.श.१९५७-१९५८वर्षयोः डा. विष्णु श्रीधर वाकणकर्]] कृतवान् ।
भीमबेट्कायाः शिलाश्रयाः | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम्, |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | |
अनुबन्धाः | ९२५ |
क्षेत्रम् | एषियापेसिफिक् |
निर्देशाङ्कः | iii, v |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.२००३ (२७तमं सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
भीमभेट्कायाः शिलाश्रये ७५० गुहगृहाणि सन्ति । तेषां भित्तयः विचित्रचित्रैः सज्जिताः । पूर्वशिलायुगात् मध्यैतिहासिककालपर्यन्तः एताः गुहाः मानवानां गतिविधीनां केन्द्रः आसीत् । । बहूमूल्या ऐतिहासिकसम्पत्तिः भारतसर्वकारस्य पुरातत्त्वसर्वेक्षणविभागस्य सम्पालने अस्ति । भिमबेट्काक्षेत्रस्य प्रवेशे एव शिलोच्चये लिखिताः कश्चन अंशाः दृग्गोचराः भवन्ति । अत्र विद्यमानानि चित्राणि समूहिकनृत्यस्य, मृगयायाः, पशुपक्षीणां, युद्धस्य, रेखाङ्कितमानवाकृतीनां, प्राचीनकालस्य मानवजीवनस्य च विषये बोधयन्ति । चित्राणि खनिजमूलस्य पाटलवर्णेन, रक्तवर्णेन, श्वेतवर्णेन, पीतवर्णेण, हरिद्वर्णेन च चित्राणि रचितानि । शिलाश्रयाणाम् अन्तः चालस्य सानुप्रदेशः उत्कीर्णम् अञ्जलिचिह्नम् एकलक्षवर्षप्राचीनम् । एतासु कृतिषु मानवजीवनस्य घटनाः चित्रितानि सन्ति । एतत् सहस्राधिकवर्षाणां जीवनदर्शनम् । अत्र रचितानि चित्राणि मुख्यतया नृत्यानां, साङ्गीतानां, मृगयायनाम्, अश्वारोहणस्य, गजारोहणस्य, आभूषणानां, मधुसङ्ग्रहस्य, च सन्ति । एतदतिरिच्य व्याघ्राः, सिंहाः, वराहाः, हस्तिनः, श्वानाः,मकराः च अत्र वर्णवैविध्येन चित्रिताः । अत्र भित्तषु धार्मिकसङ्केताः चित्रिताः ये पूर्वैतिहासिककाले प्रसिद्धाः आसन् । एव भीमबेट्कायाः प्राचीनमानवस्य संज्ञात्मकः विकासः विश्वस्य अन्यस्थलानाम् अपेक्षया सहस्राधिकवर्षेभ्यः पूर्वमेव अभवत् । अनेन एतत् स्थानं मानवजीवनविकासस्य आरम्भिकं स्थानम् इति विश्वासः ।
भिमभेटकायाः शिलाश्रयसदृशः शैलचित्रं रायगाढमण्डलस्य सिङ्घनपुरस्य समिपे कबरा इति पर्वतप्रदेशस्य गुहासु अपि सन्ति । [३], होशङ्गाबादप्रदेशस्य समीपम् आदमगढ् इति स्थाने छतरपुरमण्डलस्य बिजावरस्य समीपस्थेषु पर्वतेषु च रायसेनमण्डलस्य बरेली उपमण्डलस्य पाटनी इति ग्रामे मृगेन्द्रनाथस्य गुहाशिलाचित्राणि, च भोपालतः रायसेनगमनस्य मार्गपर्श्वे पर्वतेषु अपि लब्धानि । सद्यः एव होशङ्गाबादस्य समीपे कस्मिंश्चित् महाशिलाखनौ अपि शिलाचित्राणि अन्विष्टानि । भिमबेट्कायाः ५कि.मी.दूरे पेङ्गावन इति स्थाने ३५शिलाश्रयाः अन्विष्टाः । अत्र रचितानि शिलाचित्राणि अतिविरलशैल्याः सन्ति । एतेषां सर्वेषां चित्राणां प्राचीनता प्रायः १००००तः ३५००० वर्षप्राचीनानि ।[४]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.