Remove ads
From Wikipedia, the free encyclopedia
भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः । सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति । अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत् । सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत् । सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपूर्णं योगदानम् आसीत् । भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम् । स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति । एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत् । भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रामे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत् । कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः । भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति । वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनापतिः वायुसेनायाः नेता भवति । भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति । अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति । सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति । इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत् । [४]
भारतीयवायुसेना Indian Air Force | |
---|---|
निर्माणम् | 8 October 1932 |
देशः | भारतम् |
भूमिका | Air superiority, reconnaissance, close air support |
सैन्यबलम् | 127,000 personnel Approx. 1,622 aircraft |
विभागीयांशः | Ministry of Defence Indian Armed Forces |
Headquarters | New Delhi, Delhi, India |
ध्येयवाक्यम् | "नभःस्पृशं दीप्तम्" ("Nabhaḥ spr̥śaṁ dīptam") "Touch the Sky with Glory" [१] |
वर्णः | |
वार्षिकोत्सवः | Air Force Day: 8 October[२] |
युद्धानि | Notable Operations
World War II
Indo-Pakistani War of 1947 Congo Crisis Operation Vijay Sino-Indian War Indo-Pakistani War of 1965 Operation Poomalai Operation Pawan Operation Cactus Kargil War |
जालस्थानम् | indianairforce.nic.in |
सेनानायकाः | |
Chief of Air Staff | Air Chief Marshal Arup Raha |
Vice Chief of Air Staff | Air Marshal RK Sharma[३] |
विशिष्टाः सेनानायकाः | Marshal of the Indian Air Force Arjan Singh Air Chief Marshal Pratap Chandra Lal Air Marshal Subroto Mukherjee |
चिह्नम् | |
Air Force Ensign | |
Roundel | |
Fin flash | |
आश्रये विद्यमानानि वायुयानानि | |
आक्रमणम् | Jaguar, MiG-27, Harpy |
वैद्युतिकविमानानि | A-50E/I, DRDO AEW&CS, Ilyushin A-50 |
युद्धविमानानि | Su-30MKI, Mirage 2000, MiG-29, HAL Tejas, MiG-21 |
हेलिकाप्टर् | Dhruv, Chetak, Cheetah, Mi-8, Mi-17, Mi-26, Mi-25/35 |
सर्वेक्षकविमानम् | Searcher II, Heron |
प्रशिक्षकविमानम् | Hawk Mk 132, HPT-32 Deepak, HJT-16 Kiran, Pilatus C-7 Mk II |
कार्गो-विमानम् | C-17 Globemaster III, Il-76, An-32, HS 748, Do 228, Boeing 737, ERJ 135, Il-78 MKI, C-130J |
भारतीयवायुसेनायाह् मिशन् सशस्त्रबलस्य सा.शा.१९४७तमस्य अधिनियमानुसारं परिभाषितम् अस्ति । भारतीयसंविधानस्य सेनायाः च सा.श.१९५०तमस्य अधिनियमानुसारं वायुयुद्धक्षेत्रे- सर्वस्थानैः सहितं भारतस्य संरक्षणम् । देशरक्षणे सदा अन्नद्दा स्यात् । एवं सर्वापायेभ्यः भारतीयवैमानिकक्षेत्रस्य संरक्षणम् अपि अस्याः दायित्वम् । सशस्त्रबलानाम् अन्यविभागनामपि साहाय्याचरणं प्राथमिकोद्देशेषु अन्यतमः । भारतीयवायुसेन युद्धरङ्गे भारतीयसेनायः सैनिकानां वैमानिक कौशलस्य रणनैतिक् एर्लिफ्ट् क्षमताप्रदानं च करोति । भारतीयवायुसेन एकीकृतान्तरिक्षप्रकोष्टैः सह अन्यशाखाः भारतीयसशस्त्रबलम्, भारतीयान्तरिक्षानुसन्धानसङ्घटनम्, (इसरो) इत्यदिभिः सह अन्तरिक्षाधारितसम्पत्तीनाम् उपयोगं प्रभावरूपेण कर्तुं सैनिकदृष्ट्या साहाय्यम् आचरति । भारतीयवायुसेना भारतीयसशस्त्रबलानाम् अन्यशाखाभिः सहयोगं यच्छन्ती एव अन्यविधकार्याणि करोति । आपत्सु जनान् सम्पदः च रक्षितुं रक्षणसामग्रीणां वितरणं कर्तुं च यतते । दुर्घटनेषु सञ्जातेषु अन्वेषणसरक्षणाभियने सहायतां ददाति । सा.श. २००४तमवर्षे भारतीयवायुसेना सुनामी महाजञ्झावातेन सा.श. १९९८तमवर्षे गुजरातराज्यस्य चण्डमारुतेन प्राकृर्तिकापदि जनाः दुरवस्थाङ्गताः । तस्मादपायात् रक्षितुं वायुसेना आपरेशन् रूपेण व्यापक साहाय्यं समाचरत् । भारतीयवायुसेना अन्यदेशियेषु प्राकृर्तिकापायेषु साहाय्यं यच्छति यथा अपरेशन् इन्द्रचाप इति नाम्ना श्रीलङ्कायां साहाय्यम् आचरितम् ।
भारतीयवायुसेना (Air Force) स्कीन् कमिटि (Skeen Committee) द्वारा सा.श. १९२६तमवर्षे कृतसूचनानुसारं सा.श. १९३३तमवर्षस्य एप्रिल् प्रथमदिने भारतीयवायुसेनायाः उद्घाटनम् अभवत् । केचन वापिटिविमानानि (Wapiti) क्रानवेल्विमानानि च (Cranwel) प्रशिक्षितवैमानिकान् वायुसैनिकान् (airmen) च मेलयित्वा लघुसेना रचिता । ७८वर्षेषु भारतीयवायुसेना विशेषं विस्तारं प्रतिष्ठां च अवाप्नोत् । अद्य भारते देशे वायुसेन न केवलं सशस्त्रसेनासमूहः प्रत्युत देशस्य अनिवार्यं पृथक् अङ्गम् अस्ति । अपि आधुनिकवायुयानैः सुसज्जितानां वैमानिकानां साम्राज्यम् अस्ति ।
भारतीयवायुसेनायाः घटनम् आङ्ग्लकालीनभारतस्य रायल् एर्फोर्स् कश्चित् सहायकः विमानदलरूपेण कृतम् ।[६] भारतीयवायुसेनाधिनिगमः सा.श. १९३२तमवर्षस्य अक्टोबर्मासस्य अष्टमे दिने आरब्धः ।[७] यस्य अधीनतायां रायल् एर्फोर्स् विभागस्य समवस्त्रं पदकं प्रतीकं चिह्नं स्वीकृतम् ।[८] सा.श. १९३३तमवर्षस्य एप्रिल् मासस्य प्रथमदिने वायुसेनायाः प्रथमं स्कवॉड्रन, स्कवॉड्रन क्र.-१ इत्यस्य चत्वारि वेस्ट्लैण्ड् वापिटी विमानेन सह पञ्चवैमानिकैः सह सङ्घटनं कृतम् । भारतीयवैमानिकानां नेतृत्वं फ्लैट् लेफ्तिनेण्ट् सेसिल् ब्रौशर् अन्तर्गतं कृतम् । [९] सा.श. १९४१तमवर्षपर्यन्तं स्कवॉड्रन क्र. १ भारतीयवायुसेना स्वयमेव स्कवॉड्रन आसीत् यस्मिन् विमानद्वयम् आगतम् ।[९] आरम्भे वायुसेनायां भूसेवा रसदशाखा इति केवलं शाखाद्वयम् आसीत् । द्वितीय महायुद्धस्य पश्चात् भारतीयवायुसेनायाः लाञ्छनात् रक्तगोलचिह्नम् अपनीतम् । जपानीयानां हिनोमारु(उदयसूर्यस्य) चिह्नेन सह सादृश्यं भवति इति कारणेन एवं कृतम् । [८] सा.श. १९४३तमवर्षे वायुसेना संवर्धिता सप्त स्कवाड्रनस् अग्रे सा.श.१९४५तमवर्षे नव स्कवाड्रनस् युक्ता अभवत् । [९] भारतीयवायुसेनया अग्रे आगतां जपानीयसेनां विरुद्ध्य योद्धुं बङ्गालस्य साहाय्यम् आचरितम् । तत्र भारतीयवायुसेनया प्रथमवारं वैमानिकाकत्रमणम् अराकन इति स्थाने जपानीयसैन्यशिबिरे अकरोत् । अपि च भारतीयवायुसेनया मायी हङ्ग् सन्, उत्तरी थायलेण्डस्य चैङ्ग् मायी राये इत्यदिषु स्थानेषु अपि आक्रमणम् अकरोत् । अस्याः योगदानार्थं सा.श. १९४५तमवर्षे राजा षष्ठ जार्ज् इत्येषः सेनायै रायल् इति उपधिं दत्तवान् ।[१०]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.