बिळिगिरिरङ्गनबेट्ट
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
बिळिगिरिरङ्गपर्वतश्रेणिः (Biligiriranga Hills) कर्णाटकराज्यस्य चामराजनगरमण्डले विद्यमानः रमणीया पर्वतश्रेणी । एषः पर्वतः समुद्रस्तरतः ५०९१ पादपरिमितोन्नतः । एतं बिळिगिरिः श्वेताद्रिः दक्षिणतिरुपतिः इत्यपि कथयन्ति । एषः पर्वतः दक्षिणोत्तरदिशि २६ कि.मी मितः अस्ति । निबिडारण्येन आवृतः अस्ति ।
बिळिगिरिरङ्गाद्रिः | |
---|---|
बिळिगिरिरङ्गस्वामि मन्दिरम्,अभयारण्यम् | |
यळन्दूरुसमीपे विद्यमानात् कृष्णय्यनकट्टेतः दृश्यमानः बिळिगिरिरङ्गपर्वतः | |
स्थानम् | चामराजनगरमण्डलम्, भारतम् |
निर्देशाङ्काः | ११°५९′३८″ उत्तरदिक् ७७°८′२६″ पूर्वदिक् |
प्रदेशः | फलकम्:Convinfobox/2५४० km2 (२१० sq mi) |
निर्वाहकसंस्था | [http://karnatakaforest.gov.in/English/wild_life_eco_tour/wildlife_eco_tour.htm#natpark अरण्यविभागः, कर्णाटकम् |
अत्र विद्यमानः बिळिगिरिरङ्गस्वामिदेवालयः अत्युन्नतशिलायाम् अस्ति । द्राविडशैल्या निर्मितः अस्ति । देवस्य विग्रहः ४.५ पादपरिमितोन्नतः चतुर्भुजमूर्तिः च अस्ति । देवः मेखलया-खड्गालङ्कारेण च युक्तः अस्ति । अत्र अलवेलु मङ्ग्गै इति नामिकायाः देव्याः मन्दिरम् अस्ति । एषः देवः पर्वतप्रदेशे स्थितानां सोलिगजनजातीयानाम् आराध्यः कुलदेवः अस्ति । होय्सलराजेन विष्णुवर्धनेन मैसूरुसंस्थानस्य मन्त्रिणा पूर्णय्यमहोदयेन च एतस्य देवालयस्य जीर्णोद्धारः कृतः इति ज्ञायते ।
अस्य देवस्थानस्य समीपे (२६ कि.मी) पर्वतप्रदेशे दोड्डसम्पिगे इति स्थलमस्ति । भार्गवीनदी अत्र प्रवहति । एतत् पवित्रस्थानम् अस्ति । अत्र बृहत् चम्पकवृक्षः अस्ति । अस्य शाखाः ब्रह्माविष्णुमहेश्वराः इति भावना अस्ति । एतत् स्थानं दुर्गादेवी-महेश्वरयोः अपि आवसस्थानमस्ति । भगवान् परशुराममहर्षिः ब्रह्महत्यादोषपरिहारार्थम् अत्र आगत्य तपः कृत्वा भगवतः पादौ भार्गवीनदीजलेन प्रक्षालितवान् ।
विहारार्थं वनानुभवलाभाय वनमृगाणां दर्शनाय च बी.आर.टि अभयारण्यम् अस्ति । अत्र प्रवेशः निवासः च अधिकमूल्येन लभ्यते ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.