दतियामण्डलम् ( ( शृणु) /ˈdətɪjɑːməndələm/) (हिन्दी: दतिया जिला, आङ्ग्ल: Datia district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दतिया इति नगरम् ।
दतियामण्डलम् Datia District | |
---|---|
दतिया जिला | |
दतियामण्डलस्य नयनाभिरामदृश्यम् | |
मध्यरदेश राज्यस्य मानचित्रे दतियामण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | दतिया, सेवन्धा, इन्दरगढ, भण्डेर |
विस्तारः | २,९०२ च. कि. मी. |
जनसङ्ख्या (२०११) | ७,८६,७५४ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७२.६३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४३.७% |
Website | http://datia.nic.in/ |
भौगोलिकम्
दतियामण्डलस्य विस्तारः २,९०२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे ग्वालियरमण्डलम्, उत्तरे भिण्डमण्डलं, दक्षिणे उत्तरप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले सिन्धनदी प्रवहति ।
जनसङ्ख्या
२०११ जनगणनानुगुणं दतियामण्डलस्य जनसङ्ख्या ७,८६,७५४ अस्ति । अत्र ४,२०,१५७ पुरुषाः, ३,६६,५९७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७३ अस्ति । अत्र साक्षरता ७२.६३% अस्ति ।
उपमण्डलानि
अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- दतिया, सेवन्धा, इन्दरगढ, भण्डेर ।
वीक्षणीयस्थलानि
पीताम्बरा-पीठम्
पीताम्बरा-पीठम् भारतदेशस्य एकं प्रसिद्धं शक्तिपीठम् अस्ति । तस्मिन् पीठे श्री गोलोकवासी स्वामीजी महाराज इत्यनेन बगलामुखीदेव्याः, धूमावतीदेव्याः च प्रतिष्ठापना कृता । तत्र एकं शिवमन्दिरम् अस्ति यत् एकमात्रं महाभारतकालीनं शिवमन्दिरम् अस्ति । पीताम्बरा-पीठे अन्यान्यपि बहूनि मन्दिराणि सन्ति ।
सोनगिरि
सोनगिरि जैनेषु अन्यतराणां दिगम्बराणां पवित्रतीर्थस्थलम् अस्ति । तत्स्थलं परितः श्वेतशैलेभ्यः निर्मितानि बहूनि जैनमन्दिराणि सन्ति ।
बीरसिंहदेव-भवनम्
बीरसिंहदेव-भवनं सप्तभूमम् अस्ति । इदं भवनं राज्ञा बीरसिंहदेवेन ई. १६१४ तमे वर्षे निर्मापितम् । इदं भवनं केवलं पाषाणैः निर्मितमस्ति । बडोनी, बोटानिकल गार्डन, राजगढ पैलेस एवं सङ्ग्रहालयः इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
विकिमीडिया कॉमन्स् मध्ये दतियामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://datia.nic.in/
http://www.census2011.co.in/census/district/289-datia.html
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.