सूर्यमूलम् (Japan) पूर्वजम्बुद्वीपे विद्यमानः द्वीपदेशोऽस्ति। प्रशान्तमहासागरे विद्यमानः अयं देशः जपान्-सागरः, चीन, उत्तरकोरिया, दक्षिणकोरिया, रूसदेशानां पूर्वभागे विद्यते । जपान्देशे सूर्योदयः प्रथमवारं भवति इत्यतः अयं देशः सूर्योदयदेशः, सूर्यमूलम् इत्यपि उच्यते ।
सामान्यपरिचयः
अस्य राजधानी टोक्योवर्तते । जपान्-देश: ६८५२ लघूनां द्वीपानां समूह: । तत्र होन्शू, होक्काइडो, क्युशू, शिकोकू च मुख्या: चतुर्द्वीपा: । एतै: चतुर्द्वीपै: जपानदेशस्य ९७% भूभागः आक्रान्तः । अत्रत्या जनसङ्ख्या - १२७०००००० । जपान्-देश: लोकसंख्यया विश्वे दशमक्रमाङ्कस्य देश: । उच्च टोक्यो वर्ग: सह राजधानी टोक्यो इति विश्वे श्रेष्ठतम: महानगर: वर्तते । जपान्-देशस्य अर्थव्यवस्था विश्वे तृतीयक्रमाङ्कं प्राप्ता वर्तते । टोकियोप्रदेशः जगतः अत्याधुनिकप्रदेशेषु अन्यतमः यत्र ३००००००० जनाः वसन्ति ।
इतिहासः
जपानदेशं २००० वर्षाणाम् इतिहास: प्राप्त:। जपान्-देशस्य उल्लेख: ऐतिहासिकदृष्ट्या १४,००० वर्षपूर्वम् अस्ति । यायोई काले जपान्-देशं घटकला, ओदन-तृणानां कृषी, धातुक्रिया च विकसिता: । जपानीभाषा प्रथमं हानस्य पुस्तके(Book of Han) उल्लेखितम् । एतत् पुस्तकं चैनिकभाषायां विरचितम् । बाएक्जेइति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः । किन्तु बौद्धधर्मस्य प्रसार: असुकाकालस्य (५९२-७१० तमे) पूर्वार्धे अभवत् । नाराकाले(७१०-७८४ तमे) जपान्-देशस्य संरक्षणव्यवस्था अतीव बलवती अभवत् । एतत् कारणेन जपान्-देशे बौद्धधर्मस्य प्रसार: अभवत् । हिन्दुधर्मस्य प्रसार: कुकोई नाम्ना व्यक्तिना कृतम्।
चित्रवीथिका
- राजधानी टोक्यो
- टोक्यो राजप्रासादः
- महिलानां पारम्परिकवस्त्रम्
उल्लेखाः
बाह्यशृङ्खला
Wikiwand - on
Seamless Wikipedia browsing. On steroids.