From Wikipedia, the free encyclopedia
भारतीय धर्मगुरुः।
रामानन्दाचार्य:गुरुशिष्य परम्परा:
परधाम्नि स्थितो रामःपुण्डरीकायतेक्षणः । सेवया परया जुष्टो जानक्यै तारकं ददौ ॥ १॥
श्रियः श्रीरपि लोकानां दुखोद्धरणहेतवे । हनूमते ददौ मन्त्रं सदा रामाङ्घ्रिसेविने ॥ २॥
ततस्तु ब्रह्मणा प्राप्तो मुह्यमानेन मायया । कल्पान्तरे तु रामो वै ब्रह्मणे दत्तवानिमम् ॥ ३॥
मन्त्रराजजपं कृत्वा धाता निर्मातृतां गतः । त्रयीसारमिमं धातुर्वसिष्ठो लब्धवान् परम् ॥ ४॥
पराशरो वसिष्ठाच्च सर्वसंस्कारसंयुतम् । मन्त्रराजं परं लब्ध्वा कृतकृत्यो बभूव ह ॥ ५॥
पराशरस्य सत्पुत्रो व्यासः सत्यवतीसुतः । पितुः षडक्षरं लब्ध्वा चक्रे वेदोपबृंहणम् ॥ ६॥
व्यासोऽपि बहुशिष्येषु मन्वानः शुभयोग्यताम् । परमहंसवर्य्याय शुकदेवाय दत्तवान् ॥ ७॥
शुकदेवकृपापात्रो बह्मचर्यव्रतेस्थितः । नरोत्तमस्तु तच्छिष्यो निर्वाणपदवीं गतः ॥ ८॥
स चापि परमाचार्यो गङ्गाधराय सूरये । मन्त्राणां परमं तत्त्वं राममन्त्रं प्रदत्तवान् ॥ ९॥
गङ्गाधरात् सदाचार्यस्ततो रामेश्वरो यतिः । द्वारानन्दस्ततो लब्ध्वा परब्रह्मरतोऽभवत् ॥ १०॥
देवानन्दस्तु तच्छिष्यः श्यामानन्दस्ततोऽग्रहीत् । तत्सेवया श्रुतानन्दश्चिदानन्दस्ततोऽभवत् ॥ ११॥
पूर्णानन्दस्ततो लब्ध्वा श्रियानन्दाय दत्तवान् । हर्यानन्दो महायोगी श्रियानन्दाङ्घ्रिसेवकः ॥ १२॥
हर्यानन्दस्य शिष्यो हि राघवानन्ददेशिकः । यस्य वै शिष्यतां प्राप्तो रामानन्दः स्वयं हरि ॥ १३॥
तस्माद् गुरुवारल्लब्ध्वा देवानामपि दुर्लभम् । प्रादात्तुभ्यमहन्तात गुह्यं तारकसंज्ञकम् ॥ १४॥
एवं परम्परा सौम्य प्रोक्ता श्रीसम्प्रदायिनाम् । मन्त्रराजस्य चाख्यातिर्भूम्यामेवमवातरत् ॥ १५॥
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.