Remove ads
गुजरातराष्ट्रस्य राजधानी From Wikipedia, the free encyclopedia
गान्धीनगरम् (गुजराती: ગાંધીનગર, आङ्ग्ल: Gandhinagar) गुजरातराज्ये स्थितस्य गान्धीनगरमण्डलस्य केन्द्रम् अस्ति | इदं नगरं गुजरातराज्यस्य राजधानी अपि । प्राक् गान्धीनगरमण्डलम् अहमदाबादमण्डले एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे इदं मण्डलम् अहमदाबादमण्डलात् पृथक् कृतम्, अपि च गुजरातराज्यस्य प्रशासनकेन्द्रत्वेन संस्थापितम् ।
गान्धीनगरम् ગાંધીનગર | |
---|---|
राजधानी | |
गुजरातराज्यस्य सचिवालयः | |
देशः | भारतम् |
राज्यम् | गुजरातराज्यम् |
मण्डलम् | गान्धीनगरम् |
Government | |
• महानगरपालकः | आर् सि खार्सन् |
Area | |
• Total | १७७ km२ |
Elevation | ८१ m |
Population (२००१) | |
• Total | १,९५,८९१ |
• Density | १,१००/km२ |
भाषाः | |
• अधिकृतभाषाः | गुजराती,हिन्दी |
Time zone | UTC+५ : ३० (IST) |
पिन् |
३८२ ०१० |
दूरवाणीसङ्केतः | ०७९ |
Vehicle registration | GJ-18 |
अस्य मण्डलस्य विस्तीर्णं ६४९ चतुरस्रकिलोमीटर्परिमितम् अस्ति । जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना) । मण्डलेऽस्मिन् गान्धिनगरम् इत्येतन्नगरं, चान्दखेडा, मोटेरा, अडालज् इत्येतानि त्रीणि उपनगराणि, २१६ ग्रामाः च अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये साबरकाठामण्डलम्, आग्नेये खेडामण्डलम्, नैऋत्ये अहमदाबादमण्डलम्, वायव्ये मेहसाणामण्डलम् अस्ति । साबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति । एतानि मण्डलानि न केवलं गुजरातराज्यस्य, अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।
गान्धीनगरम् इत्येतन्नगरं चण्डीगढसदृशं सुकल्पितं, योजनाबद्धं च नगरम् अस्ति । अस्मिन् नगरे ३० विभागाः सन्ति । प्रत्येकस्यापि विभागस्य दैर्घ्यता, विस्तृतिश्च १ किलोमीटर्-परिमितम् । प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयाः, आपणाः, अनुरक्षणकार्यालयाः (maintenance offices) च सन्ति ।
सुप्रसिद्धः, रमणीयः अक्षरधामदेवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति ।
गान्धीनगरे बह्व्यः शिक्षणसंस्थाः सन्ति । ताः -धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी, इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्, गुजरातन्यायविश्वविद्यालयः । गुजरातराज्ये शिक्षणक्षेत्रे गान्धीनगरस्य सर्वोच्चस्थानं वर्तते । अतः गान्धीनगरं गुजरातराज्यस्य 'हृदयभागः' इति प्रसिद्धम् ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.