From Wikipedia, the free encyclopedia
भगवतः भुवन-भास्करस्य भास्वतां रश्मीनाम् अरूणारुणं प्रकाशं प्राप्य पुरा प्रत्यहं प्रातः परमया निष्ठया मन्त्रद्रष्टारः महर्षयः प्रार्थयन्ते स्म- आप्यायन्तु ममाङ्गानि वाक् प्राणं चक्षुः श्रोत्रमथो बलम् इन्द्रियाणि च सर्वाणि । इति । श्रुतिषु समुपदिष्टं सर्वप्राणिसुखावहं वचोऽमृतमिदं प्रतिमानवं बोधयति यद् – नायमात्मा बलहीनेन लभ्यः तस्मात् बलमुपासस्व । सांसारिक-समग्र-सौविध्य-सौलभ्याय दुर्बलः क्षीणोत्साहः स्वान्त-प्रसत्ति-विरहितः मानवः क्षितौ किमपि कर्तुं साधयितुं च न क्षमते । यतो हि –
अतः एव जन्मनः नैरर्थ्यनिरासाय स्वात्मशक्तीनां विकासाय च मानवेन सजोषं बलप्राप्तिप्रयासाः सर्वथा समादर्तव्याः भवन्ति । यथा शरीरे बलमापाद्येत, नीरोगता पराक्रियेत, स्फूर्तिः उत्साहः च चिरं विराजेतां तदर्थं सर्वतः सरलाः उपायाः सङ्ख्यावद्भिः गवेषिताः ते हि सन्ति ’क्रीडा-विनोद-व्यायामादयः’ । यद्यपि शारीरस्वास्थ्यसिद्धये रोगाणां निवृत्तये च विद्यन्ते अन्ये अपि उपायाः औषधसेवनप्रभृतयः तथापि वपुषि तेषाम् उपायानां सार्थक्यार्थम् अपि अस्ति एव आवश्यकता शरीरबलस्य । बलं नाम द्विविधम् १. आभ्यन्तरम् २. बाह्यञ्च । आभ्यन्तरेण आत्मबलेन तत्तद्बलसम्पाद्यकर्मणां सम्पादनबलं भावनाभिः पुष्टं भवति बाह्येन बलेन बलवता स्वयम् आसाद्यते च स्वेप्सितम् आसादनीयम् । अतः एव एवम् अभिलष्यते सर्वेण अपि मानवेन –
मानसिक-शारीरिकोत्साह-स्फूर्तिभ्यामेव सर्वदा कर्मणां संसिद्धिः सम्भाव्यते । उत्साहसम्पन्नेन अदीर्घसूत्रेण स्वस्थशरीरेण सरलस्वभावेन धीरभावेन एव साहसः श्रीयते श्रियो वरणायेति निश्चप्रचम् । इन्द्रियाणां कर्माणि समानया गत्या सम्पद्येरन् इति सर्वस्य अपि अभीप्सितं भवति । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च पृथक् पृथक् विकासाय सर्वेषाम् अङ्गानां पुष्टिः आवश्यकी । एकस्य अपि अङ्गस्य अथवा तस्य सूक्ष्मात् सूक्ष्मतमस्य अपि अंशस्य वैकल्ये सति क्रियासिद्धिः न भवति सौकर्याय । ’हीनाङ्गं को नु शंसति ?’ इत्यस्य तात्पर्यं नास्ति वैकल्यम्, अपि तु न्यूनता वा अस्ति अभिप्रायः । अङ्गानि एव किं प्रत्यङ्गानि अपि तादृशि स्वस्थानि सुपुष्टानि न भवेयुः तर्हि तथाविधं साफल्यं नाभ्युपैति मानवः । सत्याम् एवम् अङ्गप्रत्यङ्गपूर्णतायां समुदेति सदुत्साहः परिपोषम् उपयाति परिश्रमनिष्ठा प्रथते च प्रायोगिके कर्मणि मनीषा । ’स्वस्थे चित्ते बुद्धयः संस्फुरन्ति’ इति भणित्यनुसारं बुद्धीनां संस्फुरणाय चित्तस्य स्वास्थ्यम् अत्यावश्यकं मन्यते । चित्तस्य स्वास्थ्याय मनोरञ्जनम् उपयोगि भवति । सहजेन भावेन मनोरञ्जनं विदधानाः क्रीडामपि आत्मसात् कुर्वन्ति । अतः एव ’क्रीडां’ श्लाघयन्तो विद्वांसः कथयन्ति यत् –
एतत्कथनानुसारं मानव-प्रकृतेः स्वरूपस्य व्यक्तित्वस्य च पूर्तयेऽपि क्रीडा परमोपयोगिनी सिद्ध्यति मानवस्य मनोदशास्त्रिधा भवन्ति – १ भावनावादिनी २ भौतिकवादिनी ३ आदर्शवादिनी चेति । क्रीडानां माध्यमेन एताः तिस्रः अपि मनोदशाः समाधानं कुर्वन्ति मानवस्य । व्यक्तित्वस्य विकासाय शारीरिक्यः विशेषताः तथा मानसिक्यः शक्तयः पूर्णं साहाय्यं कुर्वन्ति क्रीडा च एतासां पूरयित्री । परं क्रीडा शरीरस्य तदङ्गप्रत्यङ्गानां च स्वस्थतां विना कथं सम्पद्येत ? इति विज्ञाय एव प्राञ्चो महर्षयः प्रार्थयन् – ’आप्यायन्तु समाङ्गानि’ इति ।
क्रीडाः समग्रस्य मानवजीवनस्य सङ्गिन्यः सन्ति । बाल्ये यौवने वार्धक्ये च क्रीडानां स्वरूपाणि परिवर्तन्ते परं प्रवृत्तयो नैव । तटस्यभावेन क्रीडानां विलासम् अवलोकयितुं वयं प्रातः प्रस्थास्यामः तदा बालाः समूहशः एकाकिनो वा क्रिडन्त एव दृक्पथातिथयो भविष्यन्ति । शीतं ग्रीष्मं वर्षा वा ते न गणयन्ति तेषां तु प्रारम्भिकः कालः क्रिडार्थमेव भवति । ये बाला न क्रीडन्ति ते रुग्णा एव मन्यन्ते ।
प्रारम्भे विद्यालयाद् बाला भीता भवन्ति स्म । तत्र पठन-बन्धनं गुरोर्दण्डश्चेतिद्वे अपि कारणे अभूताम् । परं साम्प्रतं भयमिदमपास्तम । तत्र तत्र विविधानां क्रीडानां यथाकालं प्रवर्तनात् तेषां मनांसि प्रफुल्लानि भवन्ति सोत्साहं ते क्रीडन्ति स्वास्थ्यं लभन्ते पठने चानुरज्यन्ति महाविद्यालयेषु अपि युवानो युवत्यश्च प्रत्यहं क्रीडापरायणाः प्रतीयन्ते तत्रापि क्रीडाप्रोत्साहनमेव कारणम् । प्रौढाः सायं कार्यालयेभ्यो निर्वर्त्य क्रिडन्ति दिवसश्रमं च पराकुर्वन्ति । वृद्धा रात्रेरारम्भे क्रीडन्ति समययापनाय, मनसो रञ्जनाय च । इत्थं सर्वत्र सर्वदा क्रीडा विजयते अत एव वयमपि कामयेमहि -
आस्कन्द:
बेसबाल
लानम्
अपातकन्दुक:
विश्वस्मिन् भूमण्डले जागर्तिततिमनुभवन्तः स्फूर्ती-प्रतीतिं प्रकटायन्तः क्रीडाकौशलं दर्शयन्तश्च साम्प्रतिकाः शासकाः शिष्टाः प्राचार्याः प्राध्यापका विद्यार्थिन्यो विद्यार्थिन्यश्च नानाविधासु क्रीडासुप्रशस्ता भवन्तः सन्ति च । तत्र एषां प्रेरणाया यानि तत्त्वानि कारणानि साधनानि वा सन्ति तेषु स्पर्धासमायोजयत्रीणां संस्थानां महत्त्वपूर्णां योगदानं विद्यते । अतः कासाञ्चित् प्रतियोगितायोजिकानां संस्थानां पुरस्काराणां च परिचयोऽप्यत्र मनाक प्रस्तूयते ।
भिन्न-भिन्नानां स्पर्धानां भिन्न-भिन्नानि उद्देश्यानि भवन्ति । तेषु मुख्यमुद्देश्यं -तस्यां क्रीडायां क्रीडकानां प्रोत्साहनं भवति । एतेन सहैव क्रीडकविशेषस्य सम्मानः, क्रीडाविशेषं प्रति रुचेः वर्धनं, तेन निरन्तरं विहितस्य श्रमस्यार्हणा, तदीयोदाहरणेन परेषां क्रिडकानां तां प्रति समाकर्षणं च सहायकानि उद्देश्यानि सन्ति ।
इमाः स्पर्धाः चतुर्षु वर्गेषु विभक्तुं शक्यन्ते । तत्र
देहल्यां (१) डि.सी.एम प्रतियोगिता, (२) नेहरु हाकी प्रतियोगिताऽऽदयो यथा यथा प्रवर्तन्ते तथैव स्व स्व-देशेषु नगरेषु च भूयस्यः प्रतियोगिता भवन्ति । इत्यमेव वैयक्तिकरुपेणापि स्पर्धाः नैका आयोज्यन्ते ।
उपर्युक्तानां स्पर्धानामायोजका एव विजेतृभ्यो द्विविधान् पुरस्कारान् वितरन्ति १- संस्थागतो दलगतो वा, २-वैयक्तिकश्च । एतदर्थं बहुत्र पुरस्कारणां नामान्यपि निर्धारितानि सन्ति । यथा अर्जुनपुरस्कारादयः । क्वापि वैजयन्तीरुपेण कप-शील्ड्-ट्राफी कलश-वस्तुविशेषाश्छ संस्थां दलं वा विजितं कियतेचित् कालाय चलरुपेणाथवा स्थिररुपेणार्पयन्ति । क्रीडकविशेषास्य कौशलं सभाजयितुं पारितोषिकाणि पदकानि वोपह्रियन्ते तेषु नास्ति वस्तुविशेषे समाग्रहः । सम्मानाः किल राष्ट्रियाः प्रान्तीयाः सार्वजनिकाः संस्थाधिकृता वैयक्तिकाश्च भवन्ति । येषु भारतशासनेन ‘पदमभूषण-पदमश्री’- प्रभृतयः विदेशेषु क्रिकेटक्रीडकेभ्यो ‘विस्डन’ सम्मानाश्च सर्वोत्तमाः सन्ति । अत एवेयमभ्यर्थना-
मानवजीवने क्रीडाविनोदयोः अथवा खेलनकूर्दनयोः महत्त्वम् अतीव विशिष्टम् तथा तयोः स्थानं सर्वव्यापि विद्यते । आनन्द-ज्ञान-शक्तीनां त्रिवेण्यां स्नपयन्ती क्रीडा मानवमात्रं परिपोषयति । क्रीडया क्रीडकः शारीरिकं मानसिकं सामाजिकं च विकासं संसाधयितुं शक्नोति । धरणीपटले यदाप्रभृति मानवः स्वीयम् अस्तित्वम् उपयाति । तदाप्रभृति एव सः क्रीडायाः साहचर्यं समारभते । इत्थं खेलनप्रवृत्तेः शुभारम्भो जन्मनः पुरा एव भवतीति स्पष्टमेव । यतो हि –
जन्मनः कियत्कालानन्तरं बालः संज्ञां लभते । दृष्टेः श्रुतेश्च सत्तायां प्रवर्तितायां सत्यां तस्य पूर्वतनाः संस्काराः पुनर्नवतां दधाना मुखरीभवन्ति । खेला एव तदानीं तस्य सर्वस्वं भवति । यथा यथा शिशोः वयः वर्धते तथा तथा तदीयस्य वपुषो विकासोऽपि खेलनप्रवृत्त्या एव जायते । इयमेव विकासपरम्पराक्रमेण तस्मिन् सुतरां फलति । तत्र च –
किञ्च मानवः सांसारिकीषु चिन्तासु क्लान्तिम् अनुभवन् यदा आत्मानं खिन्नखिन्नमिव पश्यति तदा कियते चित् कालाय ततः मोक्तुं क्रीडायाः शरणं वृणुते । तदीयं मनः खेलने रतं सद् विश्रान्तिम् अनुभवति, शान्तिं श्रयति विस्मरति च विषमा विपत्तीः । मनोविश्रान्त्या स भूयोऽपि सोत्साहं स्वकर्मसु प्रवर्तते । अत एवोच्यते –
आरोग्यरक्षार्थमतो हि खेला, नित्यं मनुष्यैः समुपासनीया । व्यायामवृत्त्या च वपुर्विशद्य, स्थिरं दृढत्वं तरसाऽर्जनीयम् ॥७॥
मन्ये अस्मादेव कारणात् अस्माकं पूर्वजाः समाजस्य सांस्कृतिकीम् अभिरुचिं परिचाययन्तः सकलस्य मानववर्गस्य मनोरञ्जनसाधनं साधयन्तः पारिवारिकं जीवनं जीवयितुं शिक्षयन्तः शारीरकं मानसिकं बौद्धिकं सामाजिकं विकासं च बोधयन्तः क्रीडाविनोदप्रवृत्तिपरम्परां प्रावाहयन् ।
इयं परम्परा पूर्वं कलायाः अङ्गत्वेन स्वीकृता । कला च कलयति स्वस्वरूपावेशेन तत्तद्वस्तु परिच्छिनत्तीति१ व्युत्पत्त्या स्वीयं स्वरूपं स्वयमेव आविष्कुर्वती व्यराजत् । किञ्च व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथिता सा२ – एतावता परमेश्वरस्य कर्तृत्वशक्तेः आविष्कर्त्री कला इति व्याख्याता । ज्ञान-शिल्प-विद्या-सत्यानुकरण-स्थापत्य-चित्र-नाट्य-सङ्गीतादि – विविधार्थेषु प्रयुज्यमानः कलाशब्दः
अभिनवक्रीडातरङ्गिणी
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.