From Wikipedia, the free encyclopedia
डा. कत्तस्सेरि जोसेफ् येशुदासः (जननम् - क्रि.श. १९४०तमवर्षस्य जनवरिमासस्य दशमं दिनम्) भारतस्य अग्रमान्येषु सङ्गीतविद्वत्सु अन्यतमः । अपि च अनेकासु भारतीयभाषासु चलच्चित्रगीतानि गीतवान् । अयं कर्णाटकसङ्गीतस्य मधुरकण्ठः गायकः । केरळराज्यस्य कोच्चिमण्डले अस्य जननम् अभवत् । प्रसिद्धगायकस्य चेम्बै वैद्यनाथ भागवतस्य शिष्याग्रेसरः अभवत् । भारतीयचलच्चित्रस्य नेपथ्यगायकत्वेनापि अस्य ख्यातिः अस्ति । अयं मलयाळंभाषा,तमिळुभाषा, हिन्दीभाषा, कन्नडभाषा, इत्यादिषु भारतीयभाषासु चित्रगीतानि सहस्रशः गीतवान् । अस्य कण्ठश्रिया भारतम्।भारतस्य अग्रश्रेण्याः गायकेषु अन्यतमः अस्ति ।
के.जे.येशुदासः കെ.ജെ. യേശുദാസ് | |
---|---|
Padmabhushan Dr. K.J. Yesudas D.Litt | |
व्यैक्तिकतथ्यानि | |
जन्मनाम | काट्टश्शेरि जोसफ़ येशुदास |
ख्यातनाम | गानगन्धर्वः |
मूलतः | वाराणसी, मध्यप्रदेशराज्यम्, भारतम् |
सङ्गीतविद्या | भारतीयशास्त्रीयसङ्गीतम्, भारतीयचलच्चित्रस्य नेपथ्यगायकः, |
वृत्तिः | गायकः |
सक्रियवर्षाणि | क्रि.श.१९५५ तः... अनुवर्तते । |
येशुदासः केरळराज्यस्य पोर्टकोच्चिप्रदेशे क्रि.श. १९४०तमे वर्षे जनवरिमासस्य दशमे दिने अजायत । अस्य पिता अगस्टैन् जोसेफ् माता अलिजबेत् जोसेफ् इति । अस्य प्रथमः सङ्गीतगुरुः कर्णाटकशास्त्रीयसङ्गीतज्ञः मलयाळं नाटकरङ्गस्य कलावित् अस्य पिता एव । तत्पश्चात् केरळस्य तिरुपुनितुर इति ग्रामे सङ्गीताकादेमीं प्रविश्य स्वस्य सप्तमे वयसि प्रचलिते सङ्गीतप्रतियोगितायां जयाशाली भूत्वा स्वर्णपदकं प्राप्तवान् । सङ्गीतस्य उन्नताध्ययनार्थं चेम्बै वैद्यनाथ भागवतः इति तत्कालीनप्रसिद्धं गुरुम् उपगतवान् । क्रि.श. १९७४तमे वर्षे गुरोः अकालमरणात् अस्य सङ्गीताध्ययनम् अवरुद्धम् ।
नेपथ्यगायकत्वेन अस्य प्रथमगीतं क्रि.श. १९६१तमे वर्षे लोकार्पितस्य ' काल्पादुवुकल् ' इति मलयाळभाषायाः चलच्चित्रे अस्ति । एतावत् अनेन ५०सहस्राधिकगानानि अनेन गीतानि । एतेषु अस्य मातृभाषया मलयाळभाषया अधिकानि गीतवान् । एतदतिरिच्य कन्नडभाषया, हिन्दीभाषया, तमिळुभाषया, तेलुगुभाषया, बङ्गालीभाषया, गुजरातीभाषया, ओडिशाभाषया, मराठीभाषया, संस्कृतभाषया, तुळुभाषया, पञ्जाबीभाषया, अपि च रष्यन्, अरेबिक्, ल्याटिन्, इङ्ग्लिष् इत्यादिभिः वैदेशिकभाषाभिः गीतानि गीतवान् । अस्य सङ्गीतवृत्तेः सुवर्णमहोत्सवे सङ्गीतस्य विषये एवम् उक्तवान् । सङ्गीते विज्ञानम् अस्ति । तज्ज्ञात्वा युवानः अत्र अध्ययननिरताः भवेयुः । प्रत्येकं रागे विज्ञानस्य पृष्ठभूमिः अस्ति । तदविज्ञाय अभ्यासं करोति चेत् प्रयोजनं नास्ति । अस्य सांस्कृतिकपामुख्यं ज्ञातव्यम् । संस्कृतभाषा सर्वभाषाणां जननी अतः मलयाळभाषविदः मया अन्यभाषासु अपि गातुं शक्तवान् । कर्णाटकसङ्गीतं तु समुद्रस्य तरङ्गः इव अहम् अत्र प्रथमतरङ्गे अस्मि । सङ्गीतस्य पूर्णपरिभाषां ज्ञातुम् एकं जन्म पर्याप्तं न भवति । नाहं विद्वान् अहं विद्यार्थी एव इति अवदत् ।
येसुदासस्य पत्न्याः नाम प्रभा । एतयोः दम्पत्योः विनोदः विजयः विशालः इति त्रयः पुत्रा सन्ति । तमिळुनाडुराज्यस्य राजधान्यां चेन्नैनगरे अस्य वासः भवति ।
कालः | चलच्चित्रनाम | अभिनेता | नेदेशकः | भूमिका |
---|---|---|---|---|
क्रि.श.१९६५ | अनार्कली | प्रेम नाज़िर् | कुञ्चक्को | तानसेनः |
क्रि.श. २००२ | नन्दनम् | पृथ्वीराज सुकुमरन् | रणजीतः | स्वभूमिका |
क्रि.श. २००५ | बाय् फ्रेण्ड् | मनिकुट्टन् | विनयन् | स्वभूमिका |
क्रि.श. १९७३ | अचानि | प्रेम नाज़िर् | पि.भास्करन् | स्वभूमिका |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.