From Wikipedia, the free encyclopedia
सम्भाजीनगरमण्डलं (मराठी: सम्भाजीनगर जिल्हा, आङ्ग्ल: Sambhajinagara District), आधिकारिकरूपेण छत्रपतिसम्भाजीमहाराजनगरमण्डलम् (मराठी: छत्रपती संभाजी महाराज नगर जिल्हा); पुरातनं नाम औरङ्गाबाद्-मण्डलम् (Aurangabad district), महाराष्ट्रराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् सम्भाजीनगरम् (औरङ्गाबाद्) इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।
सम्भाजीनगरमण्डलम् संभाजीनगर जिल्हा औरङ्गाबाद्-मण्डलम् | |
---|---|
छत्रपतिसम्भाजीमहाराजनगरमण्डलम् | |
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम् | |
देशः | भारतम् |
राज्यम् | महाराष्ट्रम् |
विभागः | मराठवाडा (औरङ्गाबाद्) |
मख्यालयः | सम्भाजीनगरम् (औरङ्गाबाद्) |
उपमण्डलानि | कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, सम्भाजीनगरम् (औरङ्गाबाद्), खुलताबाद्, वैजापुरं, गङ्गापुरं, पैठण |
Government | |
• Body | औरङ्गाबाद्-मण्डलपरिषद् |
• मण्डलसङ्गाहकः | श्री सुनिलचवणः |
Area | |
• मण्डलम् | १०,१०० km२ |
Population (२०११) | |
• मण्डलम् | ३७,०१,२८२ |
• Density | ३७०/km२ |
• Urban | ३७.५३% |
जनसङ्ख्याशास्त्रम् | |
• साक्षरता | ६१.१५% |
• लिङ्गानुपातः | ९२४ |
Time zone | UTC+५:३० (भा॰मा॰स॰) |
Website | http://aurangabad.nic.in/ |
सम्भाजीनगरमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि जालनामण्डलं, पश्चिमदिशि नाशिकमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्तः । ते गोदावरी नदी, तापी च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयः पर्वतावल्यः सन्ति ।
अत्रस्थाः प्रायः ७०% जनाः कृषिकार्यं कुर्वन्ति । यवनालः(ज्वारी), कार्पासः, बाजरी, तण्डुलः, गोधूमः, इक्षुः, तमाखुः, पलाण्डुः, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पासः इत्येताभ्यां सम्बद्धाः उद्यमाः, वनस्पतीजन्यतैलोत्पादनोद्यमाः च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमाः सन्ति अत्र । 'पैठणी' नामकः शाटिकाप्रकारः आमहारष्ट्रं प्रसिद्धः । 'पैठणी'निर्माणोद्यमाः सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमाः, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमाः अत्र प्रचलन्ति ।
सम्भाजीनगरमण्डलस्य जनसङ्ख्या (२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जनाः ग्रामेषु निवसन्ति ।
एवं हि कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहासः तु पुरातनः । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
१. कन्नड
२. सोयगाव
३. सिल्लोड
४. फुलम्ब्री
५. सम्भाजीनगरम् (औरङ्गाबाद्)
६. खुलताबाद
७. वैजापुर
८. गङ्गापुर
९. पैठण
सम्भाजीनगरमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अतः बहवः पर्यटकाः आकर्षिताः भवन्ति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.