औरङ्गजेब
From Wikipedia, the free encyclopedia
Remove ads
अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः (आलमगीर) (४ नवम्बर १६१८ – ३ मार्च १७०७) इति नाम्ना प्रसिद्धः आसीत्। अयं मोघल साम्राज्यस्य ६ राजा आसीत्। अस्य शासनकालः १६५८ तः १७०७ पर्यन्तम् आसीत्। अस्य मरणपर्यन्तं सः शासनं कृतवान्। भारतीय उपखण्डेषु अर्धशतकापेक्षया अधिकः कालः औरङ्गजेबः शासितवान् आसीत्। अकबरस्यानन्तरम् अयमेव अधिककालं यावत् शासनं कृतवान्। स्व जीवितकाले दक्षिणभारतपर्यन्तं साम्रज्यस्य विस्तारकरणे अस्य महान् प्रयासः आसीत्। किन्तु अस्य मरणानन्तरम् मोघलसाम्राज्यस्य उत्तमस्थितिः नासीत्। अस्य शासनकाले मोघलसाम्राज्यस्य उत्तमास्थितिः आसीत्। ऐतिहासिकानं वर्णनम् एवमासीत् अस्य साम्राज्यम् अस्य शासनकाले धनधान्येन पूर्णम् आसीत्। औरङ्गजेबः स्वसाम्राज्ये इस्लाम् आधारितनियमान् स्थापितवान्। आदौ यवनजनानाम् उपरि करम् अधिकं स्थापितवान् आसीत्। स्वजानानाङ्कृते अपि अधिककरस्थापितः प्रथमः राजा आसीत्। औरङ्गजेबः हिन्दूदेवालयान् नाशितवान् आसीत्। एवं गुरुतेज् बहद्दूरम् मारितवान् आसीत्।
Remove ads
Remove ads
जीवनम्
औरङ्गजेबः ४ नवम्बरमासे १६१८ तमे संवत्सरे अजायत्। पितरौ शाहजान्, मुमताज् भवतः। तृतीयः पुत्रः भवति अयम्। आगरानगरे अयं अरबी तथा फारसी भाषयोः अध्ययनं कृतवान्। औरङ्गजेबः पवित्रं जीवनं व्यापितवान् आसीत्। स्व व्यक्तिगतजीवने सः एकः आदर्शः व्यक्तिः आसीत्। अयं दुर्गुणमुक्तः आसीत्। अहारव्यवहारादिशु नियमपालनम् करोतिस्म। प्रशासनचतुरः आसीत् औरङ्गजेबः। प्रशासनं कुर्वन् स्वधर्मकार्येषु अपि प्रवृत्तिः आसीत्।
धर्मनिष्ठा
पवित्रखुरानग्रन्थः स्वसाम्राज्यस्य शासनाय आधारग्रन्थः आसीत्। धनक्रिडा, नौरोज उत्सवाचरणम्, मादकद्रव्यकृषिः (गाञ्जा) गीतभजनादीनि अस्य प्रदेशे निशेधितानि आसन्। १६६८ तमे संवत्सरे स्वस्य देशे हिन्दूनाम् उत्सवादिकं नाचरणीयानि इति आदेशं कृतवान् आसीत्। १६६९ तमे संवत्सरे हिन्दूदेवालयानां नाशः करणीयः इति आदेशं कृतवान् आसीत्। नगरेषु “मुहतसिबस्य” (सार्वजनिकसदाचारनिरीक्षकः) नियुक्तिं कृतवान् आसीत्। तेन धर्मरक्षणं सुलभतया कर्तुं शक्यते इति अस्य आशयः आसीत्। १६६९ तमे संवत्सरे काशीविश्वनाथमन्दिरम्, एवं "मथुराकेश्वव राय् मन्दिरं" नाशितवान् आसीत्।
Remove ads
मुख्यांशाः
- औरङ्गजेबः १६६७ तमे संवत्सरे बादशाहीमस्जीदस्य निर्माणं कृतवान् आसीत्।
- औरङ्गजेबः १६६८ तमे संवत्सरे रबियादुर्रानी स्मरणार्थं मृतस्मारकस्य निर्माणं कृतवान् आसीत्।
- औरङ्गजेबः रक्तदुर्गे मौक्तिकमस्जिदस्य निर्माणम् कृतवान् आसीत्।
पूर्णराजकीयः उपाधि
अल-सुल्तान अल-आजम व अल खकान अल-मुकर्रम हजरत अबूल मुजफ्फर मुही अल-दीन मुहम्मद औरंगजेब बहादुर आलमगीर प्रथम, बादशाह गाजी, शाहिनशाह इ सल्तनत अल-हिन्दीया व अल-मगूलिया[१]
बाह्यसम्पर्कतन्तुः
- Aurangzeb, as he was according to Mughal Records
- Article on Aurganzeb from MANAS group page, UCLA
- The Tragedy of Aureng-zebe Archived २००५-०८-२९ at the Wayback Machine Text of John Dryden's drama, based loosely on Aurangzeb and the Mughal court, 1675
- Coins of Aurangzeb
सन्दर्भानि
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads