From Wikipedia, the free encyclopedia
उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस्य' इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । उपमालङ्कारस्य (Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –
उपमालङ्कारः |
---|
यत्र उपमानोपमेययोः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्र उपमालङ्कारः । इयं च पूर्णौपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिव शब्दश्चेत्ये तेषामुपमानोपमेयसाधारणधर्मोपवाचकानां चतुर्णामप्युपादानात् ।
यत्र यस्मिन् काव्ये द्वयोर्व्स्तुनोरुपमानोपमेयत्वेन प्रसिध्दयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः, उल्लसति उद्भूततया भाति (व्यङ्गयमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालङ्कारः ।
उपमायाः सन्तिचत्वारोऽवयवाः । उपमानम्, उपमेयम्, साधारणधर्मः, उपमावाचकश्चेति । तत्राधिकगुणवत्वेन प्रसिध्दमुपमानं चन्द्रादि । प्रकृते वर्ण्यमानं मुखाद्युपमेयं न्यूनगुणम् । आह्लादकत्वादिकं साधारणो धर्मः । इवादि शब्दाः सादृश्यवाचकाः । सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् ।
संक्षेपतः उपमा द्विविधा – पूर्णा, लुप्ताचेति । यत्र चतुर्णामप्युपमावयवानामुपादानं तत्र पूर्णोपमा, यथा हंसीवेत्यादिपूर्वोदाहृते हंसी उपमानम्,कीर्तिरुपमेयम्, स्वर्गङ्गावगाहनं साधारणो धर्मः, इवशब्दः उपमावाचक इति चतुर्णामप्युपादानात्पूर्णोपमा ।
अत्र बुधः उपमेयम्, ईश्वरः उपमानम्, इव शब्दो वाचकः, साधारणधर्मस्तूपमानोपमेययोर्नैकः, किन्तु उपमानगतयोश्चन्द्रगरलयोः उपमेयगतयोर्गुणदोषयोश्च बिम्बप्रतिबिम्ब्बभावेनाभेदाध्यवसायात्, तथा उपादानज्ञानयोः गृह्णन्नित्येकपदोपादानेनाभेदाध्यवसायाच्च साधारणधर्मता परिकल्प्यते । तस्मादत्र पूर्णोपमैव ।
वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्न तयाध्यवसितयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः ।
उपमानोपमेयसाधारण्धर्मवाचकानां चतुर्णां मध्ये एकस्य, द्वयोस्त्रयाणां वा अनुपादानादप्रयोगात् लुप्तोपमा भवति । अवयवलोपाद् लुप्तेत्यन्वर्थसंज्ञा । वर्णं उपमेयम्, अवर्ण्यमुपमानम् ।
लुप्तापमाष्टधा भिन्ना –तद्यथा- (१) वाचकमात्रलोपाद्वाचकलुप्ता (२) धर्ममात्रलोपाध्दर्मलुप्ता (३) धर्मवाचकयोर्लोपाध्दर्मवाचकलुप्ता (४) वाचकोपमेययोर्लोपाद्वाचकोपमेयलुप्ता (५) उपमानमात्रलोपादुपमानलुप्ता (६) वाचकोपमानयोर्लोपाद्वाचकोपमनलुप्ता (७) धर्मोपमानयोर्लोपाध्दर्मोपमानलुप्ता (८) धर्मोपमानवाचकानां लोपाध्दर्मोपमानवाचकलुप्ता इति ।
अत्र तन्वीसुरतलाभः उपमेयम्, अवितर्कितसम्भवत्वं साधारणो धर्मः, छप्रत्ययश्च सादृश्यवाचक इति त्रयाणामुपादानमस्ति । काककृततालोपभोगरुपमुपमानं नोपात्तमित्युपमानलुप्ता। अत्र समासविषये काकतालशब्दौ लक्षणया तत्समवेतक्रियाबोधकौ ।
उपमायां द्विधा विभागं कल्पयामः । पूर्णोपमा लुप्तोपमा चेति । पूर्णोपमायां तावत् चत्वारः अपि अंशाः भवन्ति । यथा उपमेयम्, उपमानम्, साधारणधर्मः, उपमावाचकशब्दः चेति । लुप्तोपमायां तावत् विद्यमानेशु चतुर्षु अंशेषु एकस्य द्वयोः अथवा त्रयणामभावः दृश्यते ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.