From Wikipedia, the free encyclopedia
शची ( ( शृणु) /ˈʃəxiː/) (हिन्दी: शची,आङ्ग्ल: Shachi) देवराजस्य इन्द्रस्य पत्नी आसीत् । इयम् इन्द्राणी इति नाम्ना अपि ज्ञायते । मत्स्यपुराणानुसारं तस्याः पिता पुलोमा आसीत् । शची स्त्रीजागृतेः, स्त्रीमुक्तेः च प्रथमा प्रणेत्री आसीत् । तया स्त्रीणाम् अधिकाराय बहूनि कार्याणि कृतानि आसन् । अस्याः अंशादेव द्रौपद्याः उत्पत्तिर्जाता । जयन्तः शचेः पुत्रः आसीत् ।
पुलोमा शचेः पिता आसीत् । शचेः बहूनि नामानि सन्ति । यथा – ऐन्द्री, महेन्द्री, पुलोमजा, पौलोमी च । पुलोमा एकः राक्षसः आसीत् । इन्द्रेण एव पुलोमा हतः । षोडशमातृकासु शची अन्यतमा अस्ति । सा सुन्दरी अस्ति । तस्याः अक्षिणी अपि सुन्दरे स्तः । सा सिंहैः, गजैः च सह सम्बद्धा अस्ति ।
जयन्तः, जयन्ती, मिधुशा, निलाम्बरा, चित्रगुप्तः च शचेः पुत्राः आसन् । महाकाव्येषु शचेः बहूषु स्थानेषु वर्णनं दृश्यते । “अन्तहीना सुन्दरी” इति उपाधिना तस्याः वर्णनं शास्त्रेषु प्राप्यते ।
पुराणेषु उच्यते यत् – इन्द्रस्य वाहनं श्वेतगजः अस्ति । तथैव शच्याः वाहनमपि श्वेतगजः एव अस्ति । आषाढमासस्य नवरात्रिमहोत्सवे अपि शच्याः पूजा क्रियते । जीवने ईर्ष्यां नाशयितुं शचेः पूजा करणीया ।
अधिकतमाः देव्यः स्वपत्युः नाम्ना ज्ञायन्ते यत् – रुद्रस्य पत्नी रुद्राणी, वरुणस्य पत्नी वारुणी । किन्तु केवल इन्द्रः एकः एव स्वस्य पत्न्याः नाम्ना ज्ञायते । इन्द्रस्य अपरं नाम शचीपतिः अस्ति । शची अर्थात् शक्तिः । अतः शक्तेः स्वामी शचीपतिः इति कथ्यते । शक्, शच् वा धातोः शची शब्दस्य उत्पत्तिर्भवति ।
वैदिकसाहित्यानुसारं शची इन्द्रस्य महिलाच्छायारूपेण एव वर्णिता अस्ति । सा दानवस्य पुत्री अस्ति । अतः कदाचित् सा कोपदेवीत्वेन स्वरूपेण अपि ज्ञायते । साम्प्रतं दक्षिणभारते सा एका महत्त्वपूर्णा देवी मन्यते ।
ऋग्वेदानुसारं शची एका भाग्यशालिनी महिला अस्ति । यतः इन्द्रेण तस्यै अमरत्वं प्रदत्तम् आसीत् । शची स्वस्याः आकर्षणेन एव अन्यासु देवीषु विशिष्टा वर्तते । तथापि तस्याः पूजा कदाचित् एव क्रियते । केवलं षोडशमातृकासु एव तस्याः पूजा क्रियते ।
ऋग्वेदस्य दशममण्डलस्य षडाशीतितमे सूक्ते शचीवर्णनम् अस्ति । पुत्ररत्नप्राप्त्यर्थं सा गौरीव्रतं कृतवती आसीत् । तेन व्रतेन सा जयन्त-नामकं पुत्ररत्नं प्रापत्। शाक्तमते शची विश्वजननी अस्ति । सा दैवी अस्ति । शच्याः स्वरूपे तस्याः मानवीकरणं जातम् । शक्तेः अष्टस्वरूपेषु सा अन्यतमा वर्तते। अमरकोशे सप्तमातृकासु अपि तस्याः उल्लेखः प्राप्यते । शची इन्द्राय शक्तिं प्रददाति । सा स्वयमेव अनेकासाम् ऋचां दृष्ट्रीत्वेन अस्ति ।
स्वस्याः कार्यक्षेत्रे सा विजयिनी, सर्वस्वामिनी च अस्ति । स्वस्याः शक्तेः विषये तया ऋग्वेदस्य दशममण्डलस्य १५९ तमस्य अध्यायस्य २ मन्त्रे कथितं यत् - “अहं केतुरहं मूर्धा अहमुग्राविवाचिनी” । अर्थात् अहम् एव विजयिनीध्वजा अस्मि, अहमेव् औन्नत्यम् अस्मि, अहम् अनुल्लङ्घनीया शासिका अस्मि ।
ऋग्वेदस्य दशममण्डलस्य १५९ तमे अध्यायः शक्तिसूक्तम् अस्ति[1] । तस्मिन् सूक्ते सा कथयति यत् – अहं असपत्नी अस्मि, सपत्नीनां नाशकर्त्री अस्मि । तस्मिन् सूक्ते एव सा कथयति यत् – “मम पुत्राः शत्रुहणोऽथो मम दुहिता विराट्” अर्थात् मम पुत्राः शत्रुहन्तारः, पुत्री च विशाला वर्तते ।
शाक्तमते सर्वप्रथमः मातृकाणां पूजा क्रियते । ताः मातरः विश्वजनन्यः सन्ति । तासां देवस्त्रीणां स्वरूपे मानवीकरणमभवत् । अतः शक्तीनां विविधस्वरूपाणि सन्ति इत्यस्याभिप्रायः वर्तते । ताः अष्टमातरः सन्ति । तासां विभिन्नदेवैः सह सम्बन्धः अस्ति । “वैष्णवी” अर्थात् लक्ष्म्याः विष्णुना सह, “ब्राह्मी” अर्थात् ब्रह्माण्याः ब्रह्मणा सह, कार्तिकेय्याः कार्तिकेयेन सह, इन्द्राण्याः इन्द्रेण सह, यम्याः यमेन सह, वाराह्याः वराहेण सह, रुद्राण्याः रुद्रेण सह च सम्बन्धः वर्तते ।
अनेन प्रकारेण इन्द्राणी अपि अष्टमातृकासु अन्यतमा वर्तते । अमरकोशे सप्तमातृकाणाम् उल्लेखः प्राप्यते यत् –
“ | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा सप्तमातरः ॥ |
” |
एकदा इन्द्रः ब्रह्महत्यायाः भयात् जलगर्भे निवसन् आसीत् । तदा इन्द्रस्याभावे देवताभिः नहुषाय इन्द्रपदं प्रदत्तम् आसीत् । नहुषः शचीं कुदृष्ट्या पश्यति स्म । तदा बृहस्पतेः आज्ञया शच्या भुवनेश्वरीदेव्याः आराधना कृता । तस्या आराधनायाः कारणेन सा अभयं प्रापत् । तदनन्तरं मानससरोवरे यत्र इन्द्रः आच्छादितः आसीत्, तत्र गत्वा शच्या इन्द्राय स्वस्याः सम्पूर्णा व्यथा कथिता ।
इन्द्रं मिलित्वा शची प्रसन्ना जाता । इन्द्रेण शच्यै एकः उपायः प्रदत्तः । शची पुनः नहुषं प्रति गत्वा उक्तवती यत् – “यदि भवान् सप्तर्षीणां स्कन्धयोः उपविश्य आगच्छेत्, तर्हि अहं भवता सह गच्छामि । अतः नहुषेण तादृशम् एव कृतम् ।
ऋषयः शनैः शनैः प्रचलन्तः आसन् । अतः नहुषेण उक्तं यत् – “शीघ्रं प्रचलन्तु” । तेन कारणेन अन्ते ऋषिभिः नहुषाय शापः प्रदत्तः आसीत् ।
विवाहपूर्वं शची शङ्करस्य प्रार्थनां चकार । सा बृहस्पतेः सुन्दरपतिं, रूपं, सुखं च अयाचत् । ऋग्वेदे शचीरचितानि कानिचित् सूक्तानि अपि सन्ति ।
एकदा श्रीकृष्णः सत्यभामा च इन्द्रं मेलितुं स्वर्गं गतवन्तौ आस्ताम् । यदा तौ इन्द्रस्य स्वर्णभवनं प्राप्तवन्तौ आस्ताम्, तदा तयोः स्वागतार्थं सशचीन्द्रः उपस्थितः आसीत् । शच्या उत्तमः शृङ्गारः कृतः आसीत् । तदा शचीं दृष्ट्वा सत्याभामा ईर्ष्यां चकार । यतः शचेः केशराशिः पारिजातपुष्पैः शोभायमानः आसीत् । पारिजातपुष्पाणि दृष्ट्वा सत्यभामायाः मनसि आघातः जातः ।
सत्यभामा व्यचारयत् – “किमर्थं शची एव पारिजातस्य स्वामिनी” इति । किन्तु तस्मिन् समये सत्यभामा किमपि न उवाच ।
तदनन्तरं इन्द्रेण श्रीकृष्णस्य उत्तमः सत्कारः कृतः । पुनः यदा द्वारकागमनसमयः अभवत्, तदा इन्द्रेण सत्यभामाकृष्णाभ्याम् बहवः पुरस्काराः प्रदत्ताः । किन्तु शची गर्वयुक्ता आसीत् । पारिजातानि देवतानां पुष्पाणि सन्ति इति विचार्य शच्या सत्यभामायै पारिजातपुष्पाणि न प्रदत्तानि । यतः सत्यभामा मानुषी आसीत् । तेन कारणेन सत्यभामा क्रुद्धा अभवत् ।
शची गर्वस्य कारणेन “कृष्णः, सत्यभामा च विष्णोः लक्ष्म्याः च स्वरूपे स्तः” इति विस्मृतवती आसीत् । अतः सत्यभामा शचेः अभिमानं नाशयितुम् ऐच्छत् ।
यदा द्वारकां प्रति गमनस्य समयः जातः, तदा सत्यभामा श्रीकृष्णं प्रति उवाच – “अयं पारिजातवृक्षः आवाभ्यां सह नयतु” इति । तदा श्रीकृष्णेन उक्तं यत् – “इन्द्रः मम मित्रम् अस्ति । पारिजातवृक्षः शचेः नेजीसम्पत्तिः अस्ति । अतः कथमहं इमं वृक्षं नेतुं शक्नोमि” ?
तदा सत्यभामा श्रीकृष्णं स्वस्य भगवत्स्वरूपं स्मारम्य शचीन्द्रयोः अभिमानं नाशयितुम् अकथयत् । पारिजातवृक्षः समुद्रमन्थनेन प्राप्तः । अतः अयं वृक्षः सार्वजनिकः वर्तते । कथमयं शचेः वैयक्तिकः वृक्षः ? सत्यभामायाः विचाराणि श्रुत्वा गमनसमये श्रीकृष्णेन सः वृक्षः नन्दनवनात् स्वीकृतः । वृक्षं नीत्वा तौ द्वारकानगरीं गतवन्तौ ।
पारिजातवृक्षस्य सन्देशं प्राप्य शची कुपिता जाता । अतः सा कोपभवनं प्राप्तवती आसीत् । तया अन्नजलयोः अपि त्यागः कृतः । “यावत् पारिजातवृक्षः नन्दनवने पुनः नागच्छेत्, तावत् पर्यन्तम् अहं किमपि न खादिष्यामि” इति शचेः सङ्कल्पः आसीत् ।
प्रियतमायाः तादृशीं स्थितिं दृष्ट्वा इन्द्रः त्वरितमेव स्ववाहनेन ऐरावतेन हस्तिना पारिजातवृक्षम् आनेतुं प्रस्थितवान् । इन्द्रं दृष्ट्वा श्रीकृष्णेन शराणां वर्षा कृता । सम्पूर्णं गगनं शरमयमभवत् । इन्द्रेण अपि वज्रम् प्रक्षेपितम् । किन्तु श्रीकृष्णः हस्तेन एव वज्रम् अवरोधितवान् ।
यदा इन्द्रः भीतः सन् इन्द्रलोकं प्रति गच्छन् आसीत्, तदा सत्यभामया सः आवाहितः । सत्यभामया इन्द्रः उक्तः यत् – “इत्थं प्रकारेण युद्धं त्यक्त्वा भवान् यदि पलायनं करिष्यति, तर्हि इन्द्रलोके भवतः शासनस्य महत्त्वं न्यूनं भविष्यति । अतः भवान् इमं पारिजातवृक्षं नीत्वा गच्छतु । पारिजातवृक्षं दृष्ट्वा शची अपि प्रसन्ना भविष्यति ।
तथापि इन्द्रेण पारिजातवृक्षः न स्वीकृतः । अनन्तरं सः स्वर्गलोकं गतः । यदा इन्द्रः स्वर्गलोकं प्रापत्, तदा नन्दनवने पारिजातवृक्षं प्राप्तवान् । अन्ते शचीन्द्रयोः सौन्दर्यस्य, पारिजातवृक्षस्य च अभिमानः नष्टः जातः आसीत् [2]।
भविष्यपुराणानुसारम् एका कथा अस्ति यत् – “एकदा देवतानाम् असुराणां च मध्ये युद्धम् अभवत् । तद्युद्धं द्वादशवर्षं यावत् प्राचलत् । तस्मिन् युद्धे देवताः भयभीताः अभवन् । इन्द्रः अपि भयभीतः सन् देवगुरोः बृहस्पतेः समीपं गतः ।
यतः तस्मिन् युद्धे असुराः बलवन्तः आसन् । तेन कारणेन इन्द्रः पराजयस्य भयेन चिन्तितः आसीत् । बृहस्पतिना एका युक्तिः प्रदत्ता । अतः शच्या श्रावणमासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ विधिपूर्वकं उपवासः कृतः । तदनन्तरं ब्राह्मणानाम् उपस्थितौ स्वस्तिवाचनेन शच्या इन्द्रस्य दक्षिणहस्तस्य मणिबन्धे रक्षासूत्रं वेष्टितम् । तेन देवताः विजयिनः अभवन् [3]।
रक्षासूत्रस्य वेष्टनसमये निम्नलिखितश्लोकस्य उच्चारणं कृतम् आसीत् । तद्यथा –
“ | येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥ |
” |
अस्य भावार्थः अस्ति यत् – “दानवानां महाबली राजा बली येन रक्षासूत्रेण निबद्धः आसीत् । तेन रक्षासूत्रेण अहं त्वां बध्नामि । हे रक्षे ! चलायमाना मा भव ।
अतः साम्प्रतमपि श्रावणमासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ रक्षाबन्धनं पर्व आचर्यते ।
पुरुषाणाम् अपेक्षया स्त्रीणां मानसिकबलं, बुद्धिचातुर्यं च अधिकं विद्यते । केवलं शारीरिकबलं न्यूनं भवति । साम्प्रते काले स्त्रियः अबलाः इति मन्यन्ते । अतः स्त्रीणां जागृतेः आवश्यकता वर्तते । किन्तु वैदिककाले शची (इन्द्राणी) स्त्रीजागृतेः प्रथमा प्रणेत्री जाता ।
विवाहस्य समये अपि ब्राह्मणानां समक्षं पुरुषः स्त्रियै कथयति यत् – “गृह्णामि सौभगत्वाय ते हस्तम्” अर्थात् मह्यं सौभाग्यस्य प्राप्तिर्भवेत् अतः भवत्याः हस्तं गृह्णामि । अतः अस्य सूत्रस्य अनुसारं पतिः एव सौभाग्यवान् स्यात्, न तु पत्नी । तथापि स्त्रियः एव सौभाग्यवत्यः कथ्यन्ते । अतः पत्न्याः मृत्योः अनन्तरं पतिः एव विधवा वक्तव्यः । स्त्रीणां वैधव्यं धर्मोक्तं नास्ति । किन्तु पत्न्यः पत्युः भीताः भवन्ति । अतः समाजे किमपि वक्तुम् असमर्थाः भवन्ति ।
वैदिककाले शची भयेन विना कार्याणि कृतवती आसीत् । तया स्त्रीणां हृदयात् पत्युः अनुचितभयं निष्कासितम् । स्त्रीणां दुःखं, असाहाय्यं, लज्जास्पदं जीवनं च चिन्तायाः विषयः अस्ति । स्त्रीभ्यः पुरुषैः सह समानतायाः अधिकारः दातव्यः ।
ऋग्वेदे शच्या एकः प्रश्नः कृतः यत् – “सहोत्रं स्म पुरा नारी समनं वावगच्छति” (ऋग्वेद १०-८६-१०) । तथापि साम्प्रतं स्त्रीभिः सह समानतायाः व्यवहारः न क्रियते ।
शची कथयति स्म यत् – “उदसौ सूर्यो अगादुदयं मामको भगः” अर्थात् सूर्योदयः जातः । हे स्त्रियः ! स्वाधिकारान् स्मरन्तु । यथा भवतीनां पितामह्यः, प्रपितामह्यश्च स्वाधिकारान् स्वपराक्रमेण रक्षन्ति स्म, तथैव भवतीभिः कर्त्तव्यम् ।
शच्या उक्तं यत् – “हे स्त्रियः ! वदन्तु यत् "अहं तद्विद्वला पतिम् अभ्यसाक्षि विषासहिः” (ऋग्वेद १०-१५९-१) अर्थात् अहं तेजस्विनी, प्रखरा, पराक्रमिणी अस्मि ।
अनेन प्रकारेण शच्या स्त्रिभ्यः स्फूर्तिः प्रेरणा च प्रदता । शच्या चालितस्याभियानस्य श्रेष्ठपरिणामाः प्राप्ताः । वैदिककालीनाः स्त्रियः शच्याः शिक्षां, प्रेरणां च प्राप्य स्वाधिकारान् प्राप्तवत्यः ।
शच्या एतानि कार्याणि कृतानि आसन् । तैः कार्यैः शच्याः प्रतिष्ठा वर्धिता । सम्पूर्णे जगति तस्याः कीर्तिः विस्तृता [4]।
विकिमीडिया कॉमन्स् मध्ये शची सम्बन्धिताः सञ्चिकाः सन्ति। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.