From Wikipedia, the free encyclopedia
आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति ।[१] (हिन्दी: आशा भोसले) अस्याः जन्म क्रि.श.१९३३ तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत । एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति । मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति ।[२][३][४] अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत् । सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती । अपि च अनेकानि गीतगुच्छार्थं गीतवती । भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन् ।[५][६] आशा भोंस्ले अन्यायाः भारतीयनेपथ्यगयिकायाः लता मङ्गेश्कर इत्यस्याः सहोदरी अस्तु । इयम् अस्याः सुमधुरकण्ठस्य कारणेन प्रसिद्धा अभवत् ।[२][७][८] लतायाः गानेषु चलच्चित्रसङीतम्, गाज़ल्, भजनानि, साम्प्रदायिकभारतीयशास्त्रीयसङ्गीतम्, जानपादगीतानि, कव्वाली, रवीन्द्रगीतानि, नझ्रल्गीतानि, पाप्गीतानि, च गानं भवति । एषा अस्सामीभाषा, हिन्दीभाषा उर्दूभाषा, तेलुगुभाषा, मराठीभाषा, बङ्गालीभाषा, गुजरातीभाषा, पञ्जाबीभाषा, तमिळुभाषा, आङ्ग्लभाषा, रष्यन्भाषा, छेक्भाषा, नेपाळीभाषा, मलैभाषा, मलयाळंभाषा, इत्यादिषु १८भाषासु गीतानि गीतवती ।[९]
क्रि.श.२००६तमे वर्षे आशा भोंसले अहं सामान्यतः १२०००गीतानि गीतवती इति स्वयम् अवदत् ।[१०] नैकानि अन्यमूलानि अपि एतत् वचनम् एव प्रमाणीकुर्वन्ति ।[९][११] प्रपञ्चस्य उन्नताभिलेखप्रमाणितम् अन्ताराष्ट्रियसंस्था वर्ड्स् रेकार्ड् अक्यादमी । क्रि.श.२००९तमवर्षः सेप्टेम्बर् मासे आशा भोंसले एव प्रपञ्चे एव अत्यधिकगीतानां गायिका (गानमुद्रणम्) इति उदघोषयत् ।[१२]
आशा भोंसले मुम्बैप्रान्तस्य नाम अद्यतनस्य महाराष्ट्रराज्यस्य साङ्ग्लीनगरात् बहिः गोर् इति लघुग्रामः अजायत । एषा दीननाथ मङ्गेश्कर् इति सङ्गीतविदुषः पुत्री । एषः रङ्गभूमेः कलावित् । तत्र शास्त्रीयगायकत्वेन सेवां कृतवान् । अस्य कुटुम्बः पूर्वं पुण्यपत्तने (पुणेनगरे) आसीत् । कालक्रमेण कोल्हापुरं गत्वा क्रमेण मुम्बै आगतः । एषा अस्याः सहोदरी लता मङ्गेष्कर् च कुटुम्बनिर्वहणे पितुः सहाय्यं कर्तुं चलच्चित्रार्थं नटनं गीतगनं कर्तुं आरब्धवत्यौ । आशायाः प्रथमचलच्चित्रं यत्र अस्याः गानम् (चला चला नव् बला) अस्ति तत् माझा बल् (क्रि.श.१९४२) इति मराठी चलच्चित्रम् । अस्य गीतस्य रचयिता दत्त दव्जेकर् कृतवान् । सावन् आयाः इति चलच्चित्रे सावन् आया इति गीतगानेन अस्याः हिन्दिभाषाचलच्चित्रं प्रवेशः अभवत् ।[१३] एषा आशा स्वस्य १६तमे वयसि ३१वर्षस्य गणपत् राव् भोसले इत्यनेन सह प्रधाव्य तेन परिणीता अभवत् । गणपदरावः तु अस्याः सहोदर्याः लतायाः वैयक्तिककार्यदर्शी आसीत् । अतः विवाहः विफलः आभवत् । श्वशुरगृहे अस्याः नितराम् अवमानिता अभवत् । विवाहस्य कतिपयवर्षानन्तरं भोंसले आशा क्रि.श.१९६०तमे वर्षे शङ्काभावेन गणपतिरावेन गृहात् बहिष्कृता ।[१४] तस्मिन् काले तस्याः उदरे तयोः तृतीयपुत्रः उदरे पुत्रु हस्तयोः आसन् । सा स्वस्याः कुटुम्बनिर्वहणार्थं चलच्चित्रार्थं नेपथ्यगानम् अनुवर्तितवती । तस्मिन् समये गीता दत्, शंषाद् बेगम् लता मङ्गेष्कर् इत्यादयः बृहत्परियोजनायाः चलच्चित्रार्थं गायन्ति स्म । तदा एतैः त्यक्तगीतानि आशा भोंसले स्वीकरोति स्म । अपि च ब्याण्ड् गर्ल्स्, व्याम्प्स् गोष्टिषु गायति स्म अथवा द्वितीयस्तरस्य चलच्चित्रस्य कृते अपि गायाति स्म । क्रि.श.१९५०तमे काले अन्यनेपथ्यगायकानाम् अपेक्षया अधिकगीतानि गीतावती । अस्याः आरम्भिकगीतानां स्वरसंयोजनम् ए.आर्.खुरेशी, सज्जद् हुसेन्, गुलाम् महम्मद इत्यादयः कृतवन्तः । एतेषु अधिकानि गीतानि यशसि विफलानि प्राप्नुवन् ।[१३] सजद् हुस्सेन् इत्यनेन स्वरसंयोजितस्य दिलिपकुमारेण नटितस्य सङ्ग्दिल् (क्रि.श.१९५२तमे वर्षे) चलच्चित्रार्थम् आशा गानं गीतवती यत् जनप्रशंसाम् आप्नोत् । अस्य परिणामरूपेण क्रि.श.१९५२तमे वर्षे बिमल् राय् भोंसले इत्यस्य निदेशनस्य परिणीता इति चलच्चित्रत्रे गातुम् अवकाशं प्राप्तवती । तदनन्तरं बूट् पालिष् (क्रि.श.१९५४) चलच्चित्रार्थं मोहम्मद रफी महोदयेन सह नन्ने मुन्ने बच्चे गीतवती । एतत् गीतम् अस्याः अनुपमां कीर्तिं आनयत् । क्रि.श.१९५६तमे वर्षे ओ. पि. नैयरः सङ्गीतनिदेशितस्य सि.ऐ.डि. चलच्चित्रस्य नेपथ्यगानस्य अवकाशं प्राप्तवती । अस्याः वृत्तिजीवने एषः सदवसरः महत्तरं परिवर्तनम् आनयत् । क्रि.श. १९५७तमे वर्षे बि.आर्.चोपड महोदयस्य नया दौर् इति चलच्चित्रार्थं साहिर् लुधियान्वी इत्यनेन रचितं माङ्ग् के साथ तुम्हारा इति गीतं स्वीयस्वरसंयोजनेन रफी महोदयेन सह गीतवती । एषा आशा स्वस्य वृत्तिजीवने कृता प्रथमा महोपलब्धिः । अनेन सह साथी हात् बदाना, उदेन् जब् झल्वें तेरी, इत्यादीनि गीतानि तस्यः प्रसिद्धिं आनयन् । जनप्रियाभिनेत्रीणां कृते इदं प्रथमतया गीतानि गीतवती । चलच्चित्रस्य निर्मापकः बि.आर्.चोपडा महोदयः दौर् चित्रस्य यशः स्मरन् अग्रिमचलच्चित्रस्य गीतगानार्थम् अवकाशं प्रकल्पितवान् । अग्रे आशा भोंसले तस्य वक्त् , गुम्राह् , हम्राज़् , आद्मि और् इन्सान् , डूण्ड् इत्यादीनां चलच्चित्राणां गीतानि गीत्वा प्रसिद्धिम् आपन्ना । आषायाः नायरस्य च संश्रयः अनेकेषां मधुरगानानां लोकार्पणस्य हेतुः अभवत् । कालक्रमेण अस्मिन् वर्णरञ्जितक्षेत्रे स्वपादौ प्रत्यस्थापयत् । किन्तु कालान्तरेण क्रि.श. १९७०तमे वर्षे वृत्तिक्षेत्रे उभावपि परस्परं विमुखौ अभवताम् । क्रि.श.१९६६तमे वर्षे आर्.डि.बर्मन् इत्यस्य सङ्गीतनिदेशनस्य प्रथमयशस्वि "तीसरी मञ्झिल् " चलच्चित्रे आशायाः कार्यं जनप्रियम् अभवत् । अस्य सहभागित्वेन क्रि.श.१९७०तमदशके अनेकानि जनप्रियगीतानि चलच्चित्रक्षेत्राय अर्पितानि । [१५] कालक्रमेण हेलन् इत्यस्याः नृत्याङ्गनायाः नर्तनार्थं आशा चलच्चित्रगीतानि विविधानां स्वरसंयोजकानां मार्गदर्शने गीतवती । एतेयोः संसर्गितायाः कानिचन गीतानि "पिया तू..(कारावान् चित्रस्य)", ओ हसीना झुल्फोवाली..(तीसरी मंझिल्), "ये मेरा दिल् (डान्) " इत्यादीनि । क्रि.श. १९८०तमे वर्षे उन्मादगायिका(पाप् क्रूनर्) इति स्थिरं गुरुत्वं प्राप्तवती ख्यातया अभिनेत्र्या नटितस्य 'उम्रावो जान् 'इति चलच्चित्रस्य "दिल् चीज़् क्या है", "इन् आकों कि मस्ती के", "ये क्या जग है दोस्तो " "जुस्त् जु जिस्कि थी" इत्यादीनि गीतानि अस्य प्रसिद्धिम् अवरधयत् । गझल् गानं तस्य राष्ट्रियपुरस्कारम् आनयत् । क्रि.श. १९९५तमे वर्षे ६२वर्षवयसः आशा भोंसले रङ्गीला इति चलच्चित्रे उर्मिळा माटोण्डकर् इत्यस्याः कृते नेपथ्यगानं कृतवाती । तत्र "तनहा तन्हा ", "रङ्ग् रङ्ग् रङ्गीलरे " इत्यादीनां विशेषलक्षणयुक्तानां गीतानां गायनेन अस्य कीर्तिशिखरम् इतोऽपि अवर्धत । क्रि.श.२००५तमे वर्षे स्वस्य ७५वर्षे वयसि अस्यः कण्ठमधुर्येण आगतानि "चन्द्रमुखी " इति तमिळुभाषायाः चलच्चित्रस्य गीतानि, खातस्य अभिनेतुः सल्मान् खानस्य "लक्कि " चलच्चित्रस्य गीतानि अत्यधिकतया विक्रीतानि ।
भोंसले आशायाः गृहं मुम्बै महानगरस्य दक्षिणभगए पेद्दर् इति मार्गे प्रभातकुञ्ज् इति गृहस्तोमे अस्ति । तस्याः त्रीणि अपत्यानि पञ्च पौत्राः सन्ति । ज्येष्ठः पुत्रः हेमन्त भोंसले विमानस्य चालकत्वेन कार्यं कृतवान् । सङ्गीतनिदेशकः अपि भूत्वा कानिचनदिनानि कार्यं कृतवन् । अस्य अनुजा आशायाः पुत्री वर्षा इति नमान्विता दि सण्डे अब्सर्वर्, रेडीप् इति पत्रिकयोः लेखिका रूपेण कार्यं कृतवती । आशायाः कनीयः पुत्रः आनन्द भोंसले चलच्चित्रस्य निर्देशनं शिक्षितवान् । मातुः कार्यदर्शित्वेन सहाय्यम् आचरति । पौत्रः चैतन्यः सङ्गीतक्षेत्रे एव परिश्रमं कुर्वन् अस्ति । इयं पाकनिपुणा अपि अस्ति । भर्तुः भोजनार्थं स्वयं पचति । बालिवुड् प्रमुखाः तस्याः कडायि घोस्ट् अपि च बिर्यानि सर्वदा इच्छन्ति । गोवा शैल्याः पाया करि, सूपः च बालिवुड् ख्यातस्य कपूर् कुटुम्बे जनप्रियपाकः आसीत् । कदाचित् एषा... यदि अहं सङ्गीतस्वरसाम्राज्ञी न अभविष्यत् तदा पाकज्ञा भवामि स्म इति कस्मिंश्चित् दूरदर्शनसन्दर्शने अवदत् । आशा यशस्विनी होटेल् उद्यमिनी अपि अस्ति । अस्याः नाम्नि एव दुबै कुवैत् च देशयोः भोजनालयाः सन्ति ।
[१९] पेशस्विनी श्वेतशाटिकाः आशायै अधिकं रोचते । वज्राभरणानि अपि अस्याः अतीव प्रियाणी । एषा अनुकरणकलावती अपि अस्ति । नूर् जहाँ, लतामङ्गेश्कर् गुलाम् अलि इत्यादीनां कण्ठस्य नुकरणमपि करोति । सद्यः काले गानं होटेल् उद्यमः अपि च आत्मकथनलेखने मग्ना अस्ति । [२०]
प्राप्तिवर्षः गानम् चलच्चित्रम्
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.