त्वरिततथ्यानि हारोबेलेजलबन्धः, देश ...
हारोबेलेजलबन्धः
नध्य
हारोबेलेजलबन्धः
हारोबेलेजलबन्धः
देश भरतः
राज्य कर्नाटक
क्षेत्र अर्कवति नध्य
पिदधातु

परिचयः

कर्णाटकराज्यस्य ग्रामीणबेङ्गळूरुमण्डलस्य कनकपुरम् उपमण्डलस्य कुग्रामः हारोबेले इति । कनकपुरनगरतः २०कि.मी.दूरे अर्कावतिनदीतटे विद्यमानमेतं हारोबेले ग्रामं कृष्णय्यनदोड्डि, सातनूरु आलहळ्ळि मार्गेण प्राप्तुं शक्यते । अर्कावतीजलबन्धः अथवा हरोबेलेजलबन्धः इति कथ्यमानः बेङ्गळूरुग्रामीणमण्डलस्य आनेकल्लु उपमण्डलस्य हारोबेले ग्रामे अर्कावतीनदीम् अवरुध्य निर्मितः । दोड्डबळ्ळपुरमण्डले उद्गता अर्कावतीनदी कनकपुरमण्डलस्य सङ्गमप्रदेशे कावेरीनदीं सङ्गच्छते । ततः पूर्वं हारोबेलेग्रामे एव अस्यां जलबन्धः सृष्टः । क्रि.श.१९७०काले भारतस्य केन्द्रसर्वकारे अधिकारस्थः श्री जगजीवनरामस्य सातनूरुग्रामस्य पुट्टदासः इति कश्चित् निकटवर्ती आसीत् । तस्य प्रयत्नेन अयं जलाशयः लोकार्पितः । क्रि.श.१९७५तमे वर्षे नान्दीशिला स्थापिता तदनन्तरं ३०वर्षाणि यावत् कार्यं प्राचलत् । जलागारस्य जलप्रमाणः २०मी. एव अस्ति । तटस्य उभयपार्श्वस्य कुल्याभ्यां कृषिभूमेः जलानयनं सम्भवत् अस्ति ।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.