हरिश्चन्द्रचरितम्
From Wikipedia, the free encyclopedia
हरिश्चन्द्रचरितस्य प्रणेता वङ्गवासी रणेन्द्रनाथगुप्तोऽस्ति । नाटकमेतत् १६११ ख्रीष्टाब्दे विरचितमिति विदुषां सम्मतिः । रूपकेऽस्मिन् सत्यहरिश्चन्द्रस्य कारुण्यपूर्णं चरितं प्रतिपादितम् । कथाद्वारेण कविना कर्तव्य-पथे धर्मस्य वरेण्यता प्रतिपादिता। नाटकारम्भे कर्मणो महत्तां प्रतिपादनशीलस्य नारदस्य धर्मेण साकं कलहो जायते । तस्य निर्णयार्थं हरिश्चन्द्रस्य कथा दृष्टान्तरूपेण प्रस्तुतास्ति।
हरिश्चन्द्रचरितम् | |
---|---|
'राजा' रविवर्मणा निर्मितं चित्रम् | |
लेखकः | रणेन्द्रनाथगुप्तः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
प्रथमाङ्के विश्वामित्रस्य महर्षेस्तपोभङ्गार्थं विघ्नराट् सन्नद्धो जातः । स मृगयानुरागिणं हरिश्चन्द्रं तत्र आनेतुं योजनां निर्माति । संयोगवशाद् राजा तत्रागच्छति । ततः स कौशिकाश्रममागच्छति । कौशिकः तम् आदर्शनिष्ठं श्रुत्वा तस्मात् पत्नीं पुत्रं च विहाय सम्पूर्णं भूमण्डलं दानरूपेण याचते । बहूनि कष्टानि सहमानो राजा स्वकीयवचनपालने समर्थों भवति। नाटके राजा हरिश्चन्द्रः पुराणप्रसिद्धो धीरोदात्तकोटिको नायकः, नायिकायाः शैव्यायाश्चरित्रं नायकस्य धर्मपरायणतां प्रकाशयितुं प्रयुक्तम् । सा हताशं राजानं ब्रवीति -
"राजन् ! अलमनेनोद्वेगेन। शैव्या क्षत्रियाङ्गना, क्षत्रियोचितकार्यपरायणा, महेन्द्रतुल्यस्यात्रभवतः सहधम्मिणी । जयन्तजननी पुलोमजा किं पृथ्वीदानेन कातरा भवति ?" इति।