साईकोम् मीराबाई चानुः
From Wikipedia, the free encyclopedia
साईकोम् मीराबायी चानु (जन्म- आगस्ट् ८ १९९४) काचित् भारवहनक्रीडापटुः । २०२१ तमे टोकियो ओलम्पिक् क्रीडायां महिलानां ४८ के.जि भारवहनस्पर्धायां रजतपदकं प्राप्तवती ।[1] [2] अन्यासु क्रीडासु अपि सा पदकानि प्राप्तवती । क्रीयायां विहितां सेवां परिगणय्य भारतसर्वकारेण पद्मश्रीप्रशस्तिः, राजीवगान्धीखेल्-रत्नप्रशस्तिः च अस्यै दत्ता वर्तते ।