सदस्यः:1940473Sachin R
From Wikipedia, the free encyclopedia
गिटार्-वाद्यम् एकं सुप्रसिद्धं तन्त्रीवाद्यम् । प्लक्ट्रम् नामकस्य साधनस्य साहाय्येन उत अङ्गुलीनां साहाय्येन वा स्वरोत्पत्तिः कर्तुं शक्नुमः । गिटार्वाद्यस्य त्रयः भेदाः - अकोस्टिक्, एलेक्ट्रिक् उत सेमि अकौस्टिक् इति । गिटार्वाद्यं १९ शतकतः प्रसिद्धम् अस्ति । सर्वेषु सङ्गीतप्रकारेषु अस्य वाद्यस्य उपयोगः कृतः दृश्यते । गिटार्वाद्यं पाश्चात्यसङ्गीतप्रकारयोः राक् तथा ब्लूस् - प्रकारयोः मुख्यं वाद्यं भवति । गिटार्वादकं “गिटारिस्ट्” इति सम्बोधयन्ति ।