![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/65/The_word_%25E0%25A4%25B8%25E0%25A4%2582%25E0%25A4%25B8%25E0%25A5%258D%25E0%25A4%2595%25E0%25A5%2583%25E0%25A4%25A4%25E0%25A4%25AE%25E0%25A5%258D_%2528Sanskrit%2529_in_Sanskrit.svg/langsa-640px-The_word_%25E0%25A4%25B8%25E0%25A4%2582%25E0%25A4%25B8%25E0%25A5%258D%25E0%25A4%2595%25E0%25A5%2583%25E0%25A4%25A4%25E0%25A4%25AE%25E0%25A5%258D_%2528Sanskrit%2529_in_Sanskrit.svg.png&w=640&q=50)
संस्कृतम्
भाषा / From Wikipedia, the free encyclopedia
संस्कृतं जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
संस्कृतम् भाषाम् | |
---|---|
![]() देवनागर्यांसंस्कृतम् | |
उच्चारणम् |
[ˈsɐ̃skr̩tɐm] (![]() |
विस्तारः | भारते नेपाले जम्बुद्वीपे |
भाषाकुटुम्बः |
भारोपीयभाषाः
|
लिपिः |
देवनागिरी[1] ब्राह्मी |
आधिकारिकस्थितिः | |
व्यावहारिकभाषा | •हिमाचलप्रदेशराज्यम् •उत्तराखण्डराज्यम् |
नियन्त्रणम् | राजकीयनियन्त्रणं नास्ति। |
भाषा कोड् | |
ISO 639-1 | sa |
ISO 639-2 | san |
ISO 639-3 | san |
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।