![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fa/Pandit_Shivkumar_Sharma_Santoor.jpg/640px-Pandit_Shivkumar_Sharma_Santoor.jpg&w=640&q=50)
शिवकुमार शर्मा
From Wikipedia, the free encyclopedia
पण्डितः शिवकुमार शर्मा (Shivkumar Sharma) (जन्म क्रि.श. १९३८तमवर्षस्य जनवरी मासस्य १३दिनाङ्कः)[1]) प्रख्यातः भारतीयः शततन्त्रीवादकः अस्ति ।[2][3] शततन्त्री किञ्चित् काश्मीरीयं जानपदवाद्यं भावति ।। [1][4][5][6] अस्य जन्म जम्मूनगरे गायकः [7][8] पण्डितः उमादत्त शार्मणः गृहे अभवत् ।[9]क्रि.शा. १९९९तमे वर्षे रीडिफ्.कॉम् समूहमाध्यमार्थं कृते साक्षात्कारे एषः एवम् अवदत् । यदा एषः पञ्चवर्षीयः आसीत् तदा एव अस्य पिता गायनस्य तबलावादनस्य च शिक्षां प्रापितवान् ।[8]अस्य पिता तु शततन्त्रीवाद्यस्य विषये अधिकं संशोधनं कृतवान् । अपि च अस्य आशयः आसीत् यत् शिवकुमारः शततन्त्रीवाद्यस्य शास्त्रीयवादकः प्रथमभारतीयः भवतु इति । शिवकुमारः पितुः आशयस्य पूर्तये १३वर्षीयः एव शततन्त्रिणं वादयितुम् आरब्धवान् ।[8] सः तु पितुः स्वप्नं साकारितं च ।। [1]एष स्वस्य वादनस्य प्रथमकार्यक्रमं मुम्बैनगरे क्रि.श. १९५५तमे वर्षे कृतवान् ।
पण्डितः शिवकुमार शर्मा | |
---|---|
![]() पण्डितः भोपालनगरे वादनं कृतवान् । | |
व्यैक्तिकतथ्यानि | |
मूलतः | जम्मू,भारतम् । |
सङ्गीतविद्या | भरतीयशास्त्रीयसङ्गीतम् |
वृत्तिः | सङ्गीतगुरुः । |
वाद्यानि | शततन्त्री |
सक्रियवर्षाणि | वर्तमान क्रि.श. १९५५ तः वर्तमानः |