वेणुः (वाद्यम्)
From Wikipedia, the free encyclopedia
वेणुवाद्यम् (Flute) सङ्गीतक्षेत्रे सुषिरवाद्येषु प्रसिद्धम् अस्ति । शास्त्रीयसङ्गीतस्य परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति । एतेषु मधुरं मनमोहकं भगवता श्रीकृष्णेन वादितं वाद्यं वेणुवाद्यं भवति । द्वापरान्ते कृष्णावतारे भगवता श्रीकृष्णेन स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति । नाट्यशास्त्रस्य रचयिता भरतस्य काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता ।