![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/ef/Dr-Meghnad-Saha.jpg/640px-Dr-Meghnad-Saha.jpg&w=640&q=50)
मेघनाद साहा
From Wikipedia, the free encyclopedia
डॉ मेघनाद साहा ( ( शृणु) /ˈmɛɡhənɑːdə sɑːhɑː/) (वङ्ग: মেঘনাদ সাহা, आङ्ग्ल: Meghnad Saha) भारतस्य प्रख्यातः वैज्ञानिकः, शिक्षकश्च । डॉ मेघनादः स्वाध्ययनं १९१३ तमे वर्षे समापयत् । तस्मात् वर्षात् आजीवनं सः विज्ञानस्य सेवायै सातत्येन कार्यमकरोत् । १९१३ तमे वर्षे सः 'इण्डियन् साइंस कॉङ्ग्रेस् एसोशिएशन्'-संस्थायाः स्थापनायां महत्त्वपूर्णं योगदानम् अकरोत् । १९२५ तमे वर्षे सः 'साइंस कॉङ्ग्रेस'-संस्थायाः गणित-भौतिक-विभागयोः अध्यक्षः अभवत् । १९३४-३५ मध्ये डॉ मेघनादस्य प्रयत्नैः 'नेशनल् इंस्टीट्यूट् ऑफ् साइंस'-संस्थायाः स्थापना अभवत् । १९३७ तः १९३९ पर्यन्तं सः तस्याः संस्थायाः सभापतिः आसीत् । सः महेन्द्रलालसर्वकारीयप्रयोगशालायाः पुनारचनाम् अकारयत् । ततः सा प्रयोगशाला 'इंडियन् एसोशिएशन् फॉर द कल्टीवेशन् ऑफ् साइंस' इति प्रसिद्धा अभवत् । १९४४ तमे वर्षे, १९४६ तमे वर्षे च क्रमेण मन्त्रित्वेन, अध्यक्षत्वेन च तस्यां संस्थायां कार्यरतः आसीत् । १९५३ तमे वर्षे भारतसर्वकारः डॉ मेघनादं 'साइंस एसोशिएशन्'-संस्थायाः निदेशकत्वेन न्ययुङ्क्त । तस्मिन् पदे सः मृत्युपर्यन्तं स्वदायित्वम् अवहत् [3]।
मेघनाद साहा Meghnad Saha | |
---|---|
![]() মেঘনাদ সাহা | |
जननम् |
(१८९३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०६)६ १८९३ शेबडाताली, ढाका, (आङ्ग्लकालीकभारतम्) (सद्यः बाङ्गलादेशः) |
मरणम् |
१६ १९५६(१९५६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-१६) (आयुः ६२) देहली, भारतम् |
वासस्थानम् | भारतम् |
देशीयता | भारतीयः |
कार्यक्षेत्राणि | भौतिकी, गणितं च |
संस्थाः |
इलाहाबादविश्वविद्यालयः कोलकाताविश्वविद्यालयः इम्पिरियल् कॉलेज लंदन इण्डियन् एसोशियेशन् फॉर् द कल्टिवेशन् ऑफ् साइन्स् |
मातृसंस्थाः |
ढाकामहाविद्यालयः कोलकाताविश्वविद्यालयः |
विषयेषु प्रसिद्धः |
तापीयावेशः (Thermal ionisation साहा आवेशीयवसमीकरणम् Saha ionization equation |
धर्मः | नास्तिकः [1][2] |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/2/27/SahaInBerlin.jpg/220px-SahaInBerlin.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/63/M_N_Saha%2C_J_C_Bose%2C_J_C_Ghosh%2C_Snehamoy_Dutt%2C_S_N_Bose%2C_D_M_Bose%2C_N_R_Sen%2C_J_N_Mukherjee%2C_N_C_Nag.jpg/640px-M_N_Saha%2C_J_C_Bose%2C_J_C_Ghosh%2C_Snehamoy_Dutt%2C_S_N_Bose%2C_D_M_Bose%2C_N_R_Sen%2C_J_N_Mukherjee%2C_N_C_Nag.jpg)
मेघनादः अमेरिका-देशस्य, फ्रांस-देशस्य च फैला इत्यत्वेन चितः । सः अनेकवारं विदेशेषु भारतस्य नेतृत्वम् अकरोत् । सः १९५२ तमे वर्षे लोकसभायाः निर्वाचने निर्दलीयसदस्यत्वेन बहुमतेन विजयी अभवत् । ततः तेन संसदि विज्ञानविकासस्य अनेके अंशाः उद्घोषिताः ।