मुद्गः
From Wikipedia, the free encyclopedia
भारते वर्धमानः कश्चन धान्यविशेषः मुद्गः । मुद्गः अपि सस्यजन्यः आहारपदार्थः । अयं मुद्गः आङ्ग्लभाषायां Mung bean अथवा Green Gram इति उच्यते । आहारपदार्थेषु सदापथ्याः भवन्ति केचन आहारपदार्थाः । तन्नाम सर्वदा सेवनार्थं योग्याः इति । तादृशेषु आहारपदार्थेषु “मुद्गः” अपि अन्यतमः । यद्यपि धान्यानि दालाः च वातवर्धकाः, शीतगुणयुक्ताः, मलप्रतिबन्धकाः, वातकराः च तथापि मुद्गः न तावान् वातवर्धकः, मलप्रतिबन्धकः वा । सूपश्रेष्ठः, रसोत्तमः, भुक्तिप्रदः, हयानन्दः, सुफलं, वाजिभोजनम् इत्यादीनि नामानि सन्ति मुद्गस्य । वर्णभेदम् अनुसृत्य मुद्गः पञ्चधा विभक्तः अस्ति । कृष्णमुद्गः, हरितमुद्गः, पीतमुद्गः, श्वेतमुद्गः, रक्तमुद्गः च इति । मुद्गेन सारं, क्वथितं, पायसं, सूपं, तण्डुलेन सह योजयित्वा दोसां, पौलिं, पोङ्गल्, पेसरट्टु, खिचडि, दालं च निर्मान्ति । कर्णाटके, तमिळुनाडुराज्ये च मार्गशीर्षमासे (धनुर्मासे) विष्णोः आराधनार्थं मुद्गेन एव (तण्डुलान्, गुडं, घृतं च योजयित्वा) “पोङ्गल्”नामकं (हुग्गि) खाद्यविशेषं निर्मान्ति ।