मालकंसरागः (Malkauns Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः रागः भवति । गायनारम्भात् क्षणादेव आनन्दं जनयति मालकंसरागः । कर्णाटकसङ्गीते “हिन्डोळरागः” इति व्यवहारः अस्ति । अयं रागः शिवस्य वामदेवनाममुखात् आगतः इति विश्वासः । अनेन रागेण वीरः,रौद्रः रसौ उत्पन्नौ भवतः इति केचन । अन्येकेचन करुणशृङ्गारौ रसौ उत्पन्नौ भवतः इति । हिन्दुस्थानीसङ्गीते भैरवी तथा आसावरी थाटेषु अयं रागः परिगणितः अस्ति । वादि मध्यम तथा संवादि षड्जस्वरे भवतः । ओढव जात्यासहितः भवति । यक्षगाने, कीर्तने, लघुसङ्गीतादिषु अस्य रागस्य उपयोगः भवति । अयं प्रसिद्धः रागः भवति ।
- आरक्तवर्णो धृतरक्तयष्टिः
- वीरः सुवीरः सुकृतः प्रवीर्य ।
- वीरावृतो वैरिकपालमालः
- मालो मतो मालवकौशिकोऽयम् ॥
- आरोहः- स ग म ध नि स
- अवरोहः – स नि ध म ग स
- पक्कड- ग म ध, ग म ग स, ध नि स ग
मध्यरात्रिः १२ तः २ पर्यन्तम् प्रशस्तः समयः भवति ।
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.