![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Group_photo_of_aerial_demonstrators_at_the_2005_Naval_Unmanned_Aerial_Vehicle_Air_Demo.jpg/640px-Group_photo_of_aerial_demonstrators_at_the_2005_Naval_Unmanned_Aerial_Vehicle_Air_Demo.jpg&w=640&q=50)
मानवरहितविमानम्
From Wikipedia, the free encyclopedia
मानवरहितविमानम् (आङ्ग्लः-unmanned aerial vehicle, संक्षेपेण: UAV) भवति स्वयंक्रियं विमानम् । अस्य विमानस्य परिचलना साक्षात् मनुष्येण न क्रियते । दूरवर्तिस्थलात् विमानमिदं चालितम् भवति । एतेन विशेष-सामरिककौशलेन दूरवर्ती स्थले आक्रमणं तथा सुक्ष्मनिरीक्षणं कर्तुं शक्यते । मानवरहितविमानम् एवञ्च आग्नेयास्त्रम्(मिशैल्) इत्यनयोः पार्थक्यम् भवति-
- यद्यपि आग्नेयास्त्रं दूरात् नियन्त्रीयते तथापि इदं इन्धननिर्भरं भवति ।
- परन्तु मानवरहितविमानम् वायुप्रवाहः अन्यप्राकृतिकावस्थानुगुणं चालितं भवति ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Group_photo_of_aerial_demonstrators_at_the_2005_Naval_Unmanned_Aerial_Vehicle_Air_Demo.jpg/640px-Group_photo_of_aerial_demonstrators_at_the_2005_Naval_Unmanned_Aerial_Vehicle_Air_Demo.jpg)
वर्तमानकाले सर्वपेक्षया चर्चितं मानवरहितविमानम् अस्ति ड्रोन् । अस्य यानस्य उपयोगः सर्वाधिकतया सामरिककार्येषु क्रियते । वैमानिकयुद्धेषु विमानचालकस्य प्राणहानिः अथवा शत्रुपक्षेण बन्द्याशङ्का दूरीकरणाय एव मानवरहितविमानस्य उपयोगः क्रियते । ड्रोन् इत्यस्य आभिधानिकः अर्थः भवति गुञ्जनम् ।