From Wikipedia, the free encyclopedia
मनोहरः परिक्करः (१३ डिसेम्बर् १९५५ – १७ मार्च् २०१९) भारतीयः राजनेता, भारतीयजनतापक्षस्य नायकः च आसीत्। सः गोवाराज्यस्य मुख्यमन्त्रिरूपेण कार्यम् अकरोत्।[२][३] भारतसर्वकारस्य रक्षामन्त्रिरूपेण अपि कार्यं कृतवान्। उत्तरप्रदेशतः राज्यसभासदस्यः अपि आसीत्। परिक्करः २०१३ तमे वर्षे एन्डिए सभायां प्रधानमन्त्रिस्थानस्य अभ्यर्थिरूपेण नरेन्द्रमोदिनः नाम्नः प्रस्तावं कृतवान्।[४][५][६]
मनोहरः परिक्करः | |
---|---|
गोवाराज्यस्य दशमः मुख्यमन्त्री | |
In office १४ मार्च् २०१७[१] – १७ मार्च् २०१९ | |
Governor | मृदुलासिन्हा |
Preceded by | लक्ष्मीकान्तपर्सेकरः |
Succeeded by | प्रमोदसावन्तः |
In office ९ मार्च् २०१२ – ८ नवम्बर् २०१४ | |
Preceded by | दिगम्बरकामतः |
Succeeded by | लक्ष्मीकान्तपर्सेकरः |
In office २४ अक्टोबर् २००० – २ फेब्रवरी २००५ | |
Preceded by | फ्रान्सिस्को सर्दिन्हा |
Succeeded by | प्रतापसिंहराणे |
रक्षामन्त्री, भारतसर्वकारः | |
In office ९ नवम्बर् २०१४ – १३ मार्च् २०१७ | |
Prime Minister | नरेन्द्र मोदी |
Preceded by | अरुणजोट्ली |
Succeeded by | अरुणजेट्ली |
गोवाविधानसभासदस्यः | |
In office २८ अगस्ट् २०१७ – १७ मार्च् २०१९ | |
Preceded by | सिद्धार्थः |
Constituency | पणजी |
In office १९९४ – २५ नवम्बर् २०१४ | |
Preceded by | जोन् बाप्टिस्टा |
Succeeded by | सिद्धार्थः |
राज्यसभा | |
In office २६ नवेम्बर् २०१४ – २ सप्टेम्बर् २०१७ | |
Preceded by | कुसुमरै |
Succeeded by | हरदीपसिंहपुरी |
Constituency | उत्तरप्रदेशः |
व्यैय्यक्तिकसूचना | |
Born |
माप्सा, गोवा, भारतम् | १३ १९५५
Died |
१७ मार्च २०१९ ६३) पणजी, गोवा, भारतम् | (आयुः
Political party | भारतीयजनतापक्षः |
Residence | पणजी, गोवा, भारतम् |
Alma mater | ऐऐटी मुम्बई |
मनोहरः परिक्करः गोवाराज्यस्य माप्सा इति स्थले जन्म प्राप्तवान्।[७] सः मार्गो इति स्थाने लोहिया प्रौढशालायाम् अध्ययनम् अकरोत्।[८] पदवीपूर्वशिक्षणं मराठीभाषायां प्राप्तवान्। ततः लोहशास्त्रे उन्नतम् अध्ययनं मुम्बई ऐऐटी द्वारा १९७८ तमे वर्षे समापितवान्।[७] विधानसभासदस्यरूपेण चितः प्रथमः ऐऐटी छात्रचरः मनोहरपरिक्करः अभवत्। २००१ तमे वर्षे मुम्बई ऐऐटी द्वारा विशिष्टच्छात्रचरः इति पुरस्कारं प्राप्तवान्।[९]
परिक्करः राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः आसीत्। सः शाखायाः मुख्यशिक्षकः अभवत्। ऐऐटीतः प्रत्यागत्य स्वग्रामे माप्सायां सङ्घस्य कार्याणि आरब्धवान्। तेन सह सः उद्यममपि चालयति स्म। रामजन्मभूमि-आन्दोलनस्य नायकत्वमपि ऊढम्। सङ्घद्वारा भारतीयजनतापक्षस्य अभ्यर्थी भवितुं परिक्करस्य नाम सूचितम्।[१०] कदाचित् सङ्गस्य प्रचारकः इति परिक्करं परिचाययन्ति।[११]
भारतीयजनतापक्षस्य शासकरूपेण मनोहरपरिक्करः १९९४ तमे वर्षे विधानसभां प्रविष्टवान्। सः १९९९ जून् तः नवम्बर् पर्यन्तं विधानसभायाः विरोधपक्षनायकः आसीत्। २४ अक्टोबर् २००० तमे दिने सः प्रथमवारं गोवाराज्यस्य मुख्यमन्त्री अभूत्। परन्तु तस्य अधिकारावधिः २७ फेब्रवरी २००२ तमे वर्षे समाप्ता। .[१२] २००१ तमे वर्षे परिक्करस्य सर्वकारेण ५१ सर्वकारीयविद्यालयानाम् उत्तरदायित्त्वं विद्याभारत्यै दत्तम्।[१३][१४]
२००२ जून् ५ दिनाङ्के मनोहरपरिक्करः पुनः मुख्यमन्त्रित्वेन चितः। वर्षत्रयं यावत् प्रशासनम् अकरोत्। [१२] २९ जनवरी २००५ तमे दिनाङ्के चतुर्णां भाजपा शासकानां पदत्यागात् परिक्करस्य सर्वकारः बहुमतहीनः अभवत्।
२००७ तमे निर्वाचने परिक्करः भारतीयजनतापक्षस्य नेता आसीत्। निर्वाचने भारतीयजनतापक्षस्य पराजयः अभवत्। २०१२ तमे निर्वाचने भारतीयजनतापक्षस्य जयः अभवत्। २०१४ तमे वर्षे फुट्बाल् वर्ल्ड्कप् स्पर्धां द्रष्टुं षड् शासकाः(तेषु ३ मन्त्रिणः) गताः। परिक्करः ८९ लक्षरूप्यकाणां व्ययम् एतदर्थं कर्तुम् अनुमतिं दत्तवान्। विरोधिनः एतस्य विषये क्रोधं प्राकटयन्।[१५][१६]
२०१४ तमे सार्वत्रिकनिर्वाचने गोवाराज्ये स्थानद्वयमपि भारतीयजनतापक्षस्य जयः अभवत्।[१७]गोवां त्यक्त्वा देहलीं गन्तुं यद्यपि परिक्करः न इष्टवान्, तथापि नरेन्द्रमोदिनः अनुरोधेन देहलीम् अगच्छत्।[१७]
परिक्करस्य अनन्तरं लक्ष्मीकान्तपर्सेकरः गोवाराज्यस्य मुख्यमन्त्री अभवत्। परिक्करः पणजी क्षेत्रस्य विधानसभासदस्यः आसीत्।[१८]
२०१४ तमे नवेम्बर् मासे परिक्करः भारतीयसर्वकारस्य रक्षामन्त्री अभूत्। [११][१९] परिक्करः उत्तरप्रदेशतः राज्यसभां प्रावेशितः।[१८]
२०१६ तमे वर्षे यदा असहिष्णुताविषये चर्चा प्रवृद्धा तदा अमीर् खानः भारते असहिष्णुता अस्ति इति प्रत्यपादयत्। तदानीं परिक्करः एतादृशं ये भाषन्ते तेषां जीवने उत्तमः पाठः पाठ्यते इति प्रत्यवदत्। [२०] तदनन्तरम् अहं कस्यापि वैयक्तिकारोपं न अकरवम् इति स्पष्टीकरणम् अकरोत्।[२१]पाकिस्तानगमनं नरकगमनसमानम् इति च प्रत्यपादयत्।.[२२] यदा परिक्करः रक्षामन्त्री आसीत् तदानीमेव सर्जिकल् स्टैक् अभवत्।[२३]
मार्च् १४ २०१७ तमे दिनाङ्के मनोहरपरिक्करः पुनरपि गोवाराज्यस्य मुख्यमन्त्री अभवत्। गोवा फार्वर्ड् पार्टी भारतीयजनतापक्षस्य मित्रपक्षः आसीत्। यदि परिक्करः मुख्यमन्त्री भवति तर्हि एव भारतीयजनतापक्षेण सह भवामः इति तत्पक्षीयाः नेतारः अवोचन्।[२४][२५]
परिक्करस्य पत्नी मेधा आसीत्। सा २००१ तमे वर्षे दिवङ्गता।[२६][२७] परिक्करस्य पुत्रद्वयं वर्तते।[२८] मार्च् २०१८ तः जून् पर्यन्तं परिक्करः अर्बुदरोगस्य चिकित्सार्थं अमेरिकादेशे आसीत्। ततः सप्टेम्बर् मासे देहल्याः एम्स् चिकित्सालये चिकित्सार्थं योजितः। [२९] २७ अक्टोबर् २०१८ तमे दिने परिक्कर् अर्बुदरोगेण पीडितः इति उद्घोषणा गोवासर्वकारेण कृता।[३०]
१७ मार्च् २०१९ तमे दिनाङ्के ६३ तमे वयसि पणजीनगरे परिक्करः दिवङ्गतः।[३१][३२] [३३]
मार्च् १८ तमे दिनाङ्के परिक्करस्य अन्त्यक्रिया निरूढा।[३४]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.