From Wikipedia, the free encyclopedia
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Research Organisation, ISRO) भारतदेशस्य सर्वकारीयम् अन्तरिक्षसंशोधनसङ्घटनम् ।
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य प्रसिद्धं चित्रम् | |
सङ्क्षिप्तं रूपम् | इसरो |
---|---|
स्थापना |
१५ अगस्त १९६९ (भारतीय-अवकाश-संशोधन-राष्ट्रिय-समिति-नामिकया सर्वकारसमित्या संस्थापनम्) |
स्वामी | भारतसर्वकारः |
मुख्यालयः | बेङ्गळूरु, |
प्राथमिकम् अन्तरिक्षकेन्द्रम् | सतीश-धवन-अन्तरिक्ष-केन्द्रम् |
ध्येयवाक्यम् |
हिन्दी: मानव जाति की सेवा में अंतरिक्ष प्रौद्योगिकी आङ्ग्ल: "Space technology in the service of human kind." |
प्रशासकः | के. राधाकृष्णन्, अध्यक्षः |
व्ययः | ₹56 बिलियन् (US$८३२.१६ मिलियन्) (2013–14)[1] |
अधिकृतभाषा(ः) | हिन्दी तथा आङ्ग्लभाषा |
जालस्थानम् | www.isro.org |
दूरवाणी-सुविधा, भौगोलिक-छायाचित्रणं, वातावरणानुमानार्थं छायाचित्रणं, दूरसञ्चारसुविधाः इत्यादयः अद्यतनीयाः बह्व्यः सुविधाः उपग्रहाणाम् उपयोगकारणादेव अनुभवामः । एतादृशाः इदानीन्तन-मूलभूतावश्यकतानां परिपूरणार्थं बृहत्तन्त्रज्ञानम् आवश्यकम् । ५० वर्षेभ्यः प्रागस्माकं देशे याः सुविधाः आसन् ताः सर्वाः स्वदेशितन्त्रज्ञानोपरि आधारिताः नासन् । परम् इदानीं वयं स्वाभिमानेन वक्तुं शक्नुमः यत् अस्माकं देशस्य उपग्रहाः, उपग्रह-प्रक्षेपक-वाहनानि, तन्त्रज्ञानं च सर्वं भारतीयम् अस्ति । एवं कथनसामर्थ्यमपि येन सङ्घटनेन अस्मभ्यं दत्तं तत् सङ्घटनम् अस्ति इसरो । विक्रम साराभाई नामकेन शास्त्रज्ञेन अस्य संशोधनस्य महत्त्वम् अनुभूतम् । भारतदेशस्य अन्तरिक्षानुसन्धान-क्षेत्रे येन प्रप्रथमतया पदार्पणं कारितं तत् एव इसरो सङ्घटनम् । १९६० तमे वर्षे तिरुवनन्तपुरसमीपवर्ति तुम्बा इत्येतत्स्थानं चुम्बकीय-भूमध्य-रेखाप्रदेशे वर्तते इति अनुसन्धानेन ज्ञातम् । तदनन्तरं वायुमण्डल-आयनमण्डलसंशोधनं कृत्वा तुम्बा इत्यस्मिन् स्थाने संस्थया सर्वप्रथमं संशोधनकार्यं, तदन्तर्गतप्रयोगाश्च प्रारब्धाः । लघु-परिज्ञापक-उपग्रहसदृशाग्निबाणानां ("sounding rockets") क्षेपणकार्यक्रमेण अस्माकं देशस्य अन्तरिक्षानुसन्धानकार्यक्रमस्य आरम्भः कृतः । ९ एप्रिल २०१० दिनाङ्के 'एन्ट्रिक्स-कोर्पोरेशन-लिमिटेड' इत्यनया इसरोसङ्घटनस्य सहसंस्थया Globe Sustainability Award 2010 प्राप्तम् । एवं दृष्ट्वा ज्ञायते यत् प्रगतिपथे गच्छत् सङ्घटनमिदमस्ति ।
सङ्घटनस्य कार्यं विविधस्थानेभ्यः प्रचलति । अस्य मुख्यकार्यालयः बेङ्गळूरुनगरे अस्ति । तत्र १७,००० तन्त्रज्ञाः कार्यरताः सन्ति । अस्य केन्द्राणि बेङ्गळूरुनगरे, केरलराज्यस्य तिरुवनन्तपुरनगरे, गुजरातराज्यस्य अहमदाबादमहानगरे, तमिळनाडुराज्यस्य महेन्द्रगिरौ, कर्णाटकराज्यस्य हासननगरे, आन्ध्रप्रदेशराज्यस्य श्रीहरिकोटानगरे च सन्ति । अस्य सङ्घटनस्य उद्देशः तन्त्रज्ञान-संशोधनं तथा भारतदेशाय तस्य उपयोगः, तस्य अभिवर्धनं च । न केवलम् उपग्रहान् अपि तु उपग्रहवाहकान् अपि निर्माति इदं सङ्घटनम् । अस्य इदानीन्तनाध्यक्षः के. राधाकृष्णन् । अस्मिन् सङ्घटने प्रतिवर्षं प्रायः १५० प्रतिभावतां तन्त्रज्ञानां नियुक्तिः भवति ।
स्वातन्त्र्यप्राप्त्यनन्तरम् आभारतं कथं परिस्थितिः आसीत्, वयं जानीमः । समास्याभिः ग्रस्तम् अस्माकं राष्ट्रमासीत् तदा । तस्मिन् काले अन्तरिक्षानुसन्धानक्षेत्रे अस्माकं देशस्य कार्ययोजना तु काल्पनिकमिव भासते स्म । परं जगति अस्याः योजनायाः महत्त्वं कियत् आसीत् इति ज्ञातवान् विक्रम साराभाई अस्याः कल्पनायाः रेखाचित्रं भारतदेशम् आनयत् । तदर्थं तन्त्रज्ञानां सङ्ग्रहणम्, आर्थिकयोजनां, कार्ययोजनां च अकरोत् । अस्याः योजनायाः परिणामत्वेन १९६३ तमे वर्षे अग्निबाणप्रक्षेपणं देशेन कृतम् । तदा अमेरिकादेशे निर्मित-अग्निबाणस्य प्रक्षेपणं 'तुम्बा' स्थानात् कृतम् । १९६३ तमे वर्षे भारतदेशे अन्तरिक्ष-अनुसन्धानार्थं काऽपि परियोजना, प्रयोगशाला वा नासीत् । तथापि नारिकेलवृक्षाणाम् अधः अत्यन्तं साधारणपद्धत्या अस्माकं शास्त्रज्ञैः एषः प्रक्षेपणप्रयोगः कृतः । प्रथमः अग्निबाणः लघुः आसीत् । ८० से.मी. * १० से.मी. अस्य मानम् (size) आसीत् । अस्य अग्निबाणस्य प्रक्षेपणानन्तरम् उपग्रहप्रक्षेपणकेन्द्रत्वेन तुम्बा इत्यस्य स्थानस्य विकास: प्रारब्धः । ततः देशस्य अन्तरिक्ष-संशोधन-योजनाऽपि प्रारब्धा । अस्य प्रयोगस्य सहस्रागुणिता शक्तिः, संशोधनं च उपग्रहप्रक्षेपणार्थम् आवश्यकम् इति सर्वे अजानन् परं सर्वं काठिन्यं ज्ञात्वा अपि उत्साहः वर्धमानः एव आसीत् तेषाम् । अन्तरिक्षक्षेत्रे प्रशिक्षितान् तन्त्रज्ञान् बहुकष्टेन आह्वयत् डा. विक्रम साराभाई ।
तुम्बा इत्यस्य सागरतटवर्तिस्थानस्य प्रक्षेपणकेन्द्रत्वेन चयनं तु १९६१-१९७० तमे दशके एव जातं परं तदा भौतिकसुविधा-अभावकारणात् कार्ययोजना नासीत् । प्रक्षेपणकेन्द्रस्य प्रयोगशालायाः स्थलं तु एकं 'चर्च'भवनम् आसीत् । तस्मिन् भवने भित्तिकाः निर्माय पृथक्प्रकोष्ठेषु शास्त्रज्ञानां प्रयोगाः प्रचलन्ति स्म । कपोताः बहुवारं संशोधनकार्ये विघ्नान् जनयन्ति स्म । सुविधा-अभावात् केषुचन दिवसेषु शास्त्रज्ञाः अग्निबाणान्, साधनानि च द्विचक्रिकया प्रक्षेपणस्थानं नयन्ति स्म । ततः प्रगतसुविधाभिः सह भारतदेशस्य अन्तरिक्षानुसन्धानस्य प्रारम्भः जातः ।
प्रप्रथमः अग्निबाण-क्षेपणप्रयोगः १९६३ तमे वर्षे कृतः । तदा ’नाइके एपेची’(Nike Apache) नामकस्य अमेरिकानिर्मितस्य अग्निबाणस्य क्षेपणं कृतम् । 'अमेरिकन'-'फ्रेञ्च'-भारतीयशास्त्रज्ञानां संयुक्तः प्रयोगः आसीत् अयं । ’तुम्बा’ इत्यस्मिन् स्थाने नारिकेलवृक्षाणाम् अधः अस्य अग्निबाणस्य साधनानां योजनं पूर्णं कृतम् । ८० से.मी. * १० से.मी. अस्य अग्निबाणस्य मानम् आसीत् । अस्य प्रयोगस्य तदानीन्तनप्रचलितेषु विश्वप्रयोगेषु स्थानं तावत् महत्वपूर्णं नासीत् । तथापि तस्य उपयोगिता भारतदेशस्य अन्तरिक्षानुसन्धानक्षेत्रे अतीव महत्त्वपूर्णा आसीत् । ततः प्रक्षेपणकेन्द्रत्वेन अस्य स्थलस्य विकासः आरब्धः ।
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनं सञ्चारसेवार्थं (for Communication facilities) भारतीय-राष्ट्रिय-उपग्रह-योजनां (INSAT-The Indian National Satellite System), प्राकृतिक-सम्पत्-नियोजनार्थं भारतीय-सुदूर-संवेदन-योजनां (Indian Remote Sensing), व्यवस्था-विकासार्थम् उपग्रहान्, एतेषाम् उपग्रहाणां प्रमोचनार्थं वाहनानि अर्थात् प्रमोचनयानानि च निर्माति । सर्वकारीय-अन्तरिक्ष-आयोगः अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य नयापनय-नीतिविषयकं कार्यं समितीनां माध्यमेन निर्वहति । सङ्घटने यानि संशोधनकार्याणि क्रियन्ते तेषां सामाजिक-आर्थिकलाभार्थम् उपयोजनं करोति एषः आयोगः । सर्वकारीय-उद्यमत्वेन ताः समितयः कार्यं कुर्वन्ति । एतासां समितीनां कार्यप्रणालिं चित्रं दर्शयति ।
एवं बहुविधप्रयोगान् कुर्वत् इसरो सङ्घटनं कार्यरतमस्ति ।
उपग्रहाणाम्, अन्तरिक्षयानानां च अन्तरिक्षे स्थापनायै प्रमोचनयानस्य आवश्यकता वर्तते । १९७० तमे वर्षे भारतदेशे प्रमोचनयानानां विकासकार्यं प्रारब्धम् ।
आदौ प्रायोगिक-प्रमोचनयानस्य (Satellite Launch Vehicle-SLV) निर्मितिः कृता । अस्य प्रमोचन-यानस्य विकासकार्यं १९८० तमे वर्षे पूर्णं कृतम् । एतस्य यानस्य विकासानन्तरं प्रमोचनयानतन्त्रज्ञाने देशेन लक्षणीयप्रगतिः साधिता ।
ASLV यानविकासस्य समनन्तरं ध्रुवीय-उपग्रह-प्रमोचनयानस्य (Polar Satellite Launch Vehicle (PSLV)) विकासकार्यम् आरब्धम् । एतत् यानं १८५० कि.ग्रा. भारयुतस्य उपग्रहस्य ४८० कि.मी. ध्रुवीय-सूर्य-तुल्यकालि-कक्षायां (Polar Orbit) स्थापनां कर्तुं क्षमताम् अर्हति । एतत् यानं ११५० कि.ग्रा. भारयुतम् उपग्रहं भूतुल्यकालि-अन्तरणकक्षायां (Geosynchronous Transfer Orbit) स्थापयितुं समर्थम् । एतत् यानं ३५०० कि.ग्रा. भारयुतम् उपग्रहं निम्न-भू(Low Earth Orbit)-नामिकायां कक्षायां स्थापयितुं क्षमतां वहति । PSLV याननिर्माणेन भारतीय-अन्तरीक्ष-अनुसन्धानक्षेत्रे क्रान्तिः जाता । २०१० पर्यन्तं ५५ उपग्रहप्रक्षेपणयानानि निर्मितानि आसन् । तेषु २६ भारतदेशसर्वकारेण उपयुक्तानि । अवशिष्टानि २९ अन्ताराष्ट्रिय-विपण्यां विक्रीतानि सन्ति । एवं क्षमतायुतमिदम् यानम् निर्मितम् सङ्घटनेन ।
GSLV प्रमोचनयानम् २००१ तमे वर्षे प्रथमवारं सफलतया अन्तरिक्षं प्रेषितम् । १५४० कि.ग्रा. भारयुतस्य GSAT-1 उपग्रहस्य भूतुल्यकालि-अन्तरणकक्षायां (Geosynchronous Transfer Orbit) स्थापनां कर्तुं समर्थं जातमिदं यानम् । २००० कि.ग्रा. भारयुतस्य उपग्रहस्य भूतुल्यकालि-अन्तरणकक्षायां (Geosynchronous Transfer Orbit) स्थापनां कर्तुं शक्नोति ।
GSLV Mark-III वाहकयानं GSLV वाहकस्य अपेक्षयाऽपि अधिकं क्षमतायुतं वाहनम् । एतत् यानं ४००० कि.ग्रा. भारयुतस्य उपग्रहस्य भूतुल्यकालि-अन्तरणकक्षायां(Geosynchronous Transfer Orbit) स्थापनां कर्तुं समर्थम् । अस्य इन्धनविषये संशोधनकार्यं प्रचलति इदानीम् ।
एतेषां प्रमोचकयानानां साफल्येन भारतदेशस्य नाम अन्तरिक्षतन्त्रज्ञानजगति प्रख्यातम् अभूत् । ततः परं भारतदेशेन एतेषां यानानां विक्रयणमपि प्रारब्धम् । एवं संशोधनकार्येण अन्ताराष्ट्रियस्तरेऽपि भारतदेशस्य प्रतिमा उज्ज्वलतरा अभवत् । अस्माकं देशस्य विश्वासार्हता, विज्ञानप्रगतिः जगतः दृष्टिपथम् आगता ।
गतेषु ४० वर्षेषु इसरो संस्थया बहुषु क्षेत्रेषु प्रगतिः साधिता अस्ति । उपग्रहाणां विकसन-प्रक्षेपणाभ्यां बहुषु तन्त्रज्ञानसम्बद्धक्षेत्रेषु महती प्रगतिः जाता । उपग्रहाणाम् उपयोजनं बहुषु क्षेत्रेषु प्रारब्धम् । उपग्रहविकसनकार्यक्रमे तेषाम् उपयोजनानुसारेण केचन प्रकाराः सन्ति । ते यथा -
१९८३ तमवर्षादारभ्य INSAT (Indian National Satellite System [INSAT]) उपग्रह-प्रणाल्याः निर्माणकार्यं प्रारब्धम् । दूरवाणीविकासकार्यं, दूरचिकित्सा, वातावरणसम्बद्धविज्ञानसंशोधनं, दूरशिक्षणं तथा निस्तरणकार्यं (rescue operations) च एतया उपग्रहयोजनया साध्यते । चण्डवातः, भूकम्पः, पूरः इत्यादीनां समस्यानां पूर्वसूचनामपि अनया योजनया प्राप्तुं शक्नुमः । एवं बहूद्देशीया एषा योजना ।
'एशिया-पेसिफिक'परिसरे विद्यमानासु सञ्चारयोजनासु अन्यतमा अस्माकम् इन्सैट् सञ्चारयोजना । अस्याः योजनायाः परिणामत्वेन सञ्चारक्षेत्रेऽपि देशेन प्रगतिः साधिता । इन्सैट्-प्रणाल्यां २४ उपग्रहाः अन्तर्भवन्ति । १६८ सन्देशग्राहक-बृहदुपकरणानि सन्ति । पृथिव्याः भूस्थिर-कक्षायाम् (भूमिस्तरतः ३६००० कि.मी.) उपग्रहाणाम् आरोपणं कृत्वा तेषाम् उपयोगं करणीयं इति इयं योजना । पृथ्वीतः एते उपग्रहाः स्थिराः दृश्यन्ते इत्यतः भूस्थिराः उपग्रहाः इति कथ्यन्ते ।
विश्वे विद्यमानासु सुदूर-संवेदन-उपग्रह-प्रणालीयोजनासु अन्यतमा अस्माकं IRS योजना । अस्यां योजनायां भू-प्रेक्षण-उपग्रहा(Earth Observation Satellite)णां समावेशः भवति । भू-प्रेक्षण-उपग्रहा(Earth Observation Satellite)णां योजना पृथिव्याः सर्वेक्षणार्थं भवति ।
अनया योजनया एव वातावरण-साङ्ख्यिकीं (Climate statistics) प्राप्तुं शक्नुमः । या साङ्ख्यिकीसामग्री प्राप्यते, तस्याः विनियोगः कृषिक्षेत्रे, जल-समुद्भवस्थानानां गवेषणे, नगरविकासकार्ये, खनिजसम्पत्तिविषये, नैसर्गिक-आपत्तिज्ञाने, निस्तरणकार्ये (rescue operations) च भवति ।
IRS योजनायाः भागः अस्ति एषा योजना । अनया योजनया भारतस्य सीमायां ये सागराः सन्ति तेषां निरीक्षणं, संरक्षणदृष्ट्या योजनं, समस्यानां पूर्वसूचनादानं च क्रियन्ते । १९९९ तमे वर्षे निर्मितः IRS P24 इति प्रथमः ओशनसैट् (OCEANSAT) उपग्रहः अवकाशे प्रेषितः ।
चन्द्रयानम् इति किञ्चन मानवरहितं यानमासीत् यस्मिन् भागद्वयमासीत् । एकः भागः चन्द्रस्य कक्षायां परिक्रमति, निरीक्षणान् च प्रेषयति । अपरः चन्द्रस्य तलं प्राप्य निरीक्षणान् प्रेषयति । २००८ तमे वर्षे उपग्रहोऽयं प्रक्षेपितः, नवेम्बर ८ दिनाङ्के कक्षायां स्थापितः च ।
अस्माकम् उपग्रहाणां प्रयोगाय, यानानां प्रेषणाय च सुदृढाः भौतिक-सुविधाः आवश्यक्यः सन्ति । तासां सुविधानां निर्माणं, विकासं, योजनम् इत्येतानि कार्याणि अपि आवश्यकानि । तानि कार्याणि इसरो-संस्थायाः ANTRIX विभागः करोति । उपग्रहाणां, प्रमोचनयानानां च विकासः, परीक्षणं, परिज्ञापकयानार्थं, प्रमोचनयानार्थं च आवश्यक्यः भौतिकसंरचनाः, दूरमिति-व्यवहारे(Remote Sensing) साङ्ख्यिकीज्ञानस्य प्रेषणम्, अभिग्रहणं च इत्येतेभ्यः आवश्यक्यः सुविधाः, संरचनाः इत्येतेषां समावेशः तासु सुविधासु भवति । एतासां योजनानां विकासकार्ये बह्व्यः शैक्षणिकसंस्थाः, संशोधनसंस्थाः, उद्यमाः च भागं वहन्ति ।
अन्तरिक्षविभागस्य एन्ट्रिक्स (ANTRIX)- कार्पोरेशन इति उद्यमः भारतीय-अन्तरिक्ष-सेवानां, यन्त्रांशानां इत्युक्ते 'हार्डवेअर्' इत्येतेषां विपणनकार्यं करोति । उपग्रहभागाणां विक्रयणम्, उपग्रहनिर्माणस्य contracts च स्वीकरोति । उपग्रहाणां प्रेषणसुविधाः ददाति । तथा मानवसंसाधनस्य प्रशिक्षणं, नियोजनं करोति एषः विभागः ।
अन्ताराष्ट्रिय-अन्तरिक्ष-कार्यक्रमेषु भारतदेशः सहभागी भवति । UN, IAF, COSPAR, CEOS इत्येतेषु कार्यक्रमेषु भारतदेशः सहभागी जातः । इसरोसंस्थया अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-शिक्षा-केन्द्रं (Centre for Space Science and Technology Education in Asia and the Pacific [CSSTE-AP]) स्थापितम् । संयुक्तराष्ट्रसङ्घटनेन प्रायोजितायां योजनायां(SHARES) भारतदेशः विकसनशील-देशानां शास्त्रज्ञेभ्यः अन्तरिक्षकार्यक्रमविषये प्रशिक्षणं ददाति । चन्द्रयान-सदृशकार्यक्रमेषु भारतदेशः मह्त्वपूर्णं भागं वहति ।
सङ्घटनेन विविधानाम् उपग्रहाणां योजना अन्तरिक्षविज्ञानसंशोधनार्थं कृता एव परं तया सह काश्चन विशेषयोजनाः अपि अभवन् यथा चन्द्रयानम्-१, चन्द्रयानम्-२, युथसैट(Youthsat), मङ्गळग्रहस्य कक्षायां प्रेषितं भारतीयं यानम् मङ्गलयानम् इत्यादयः योजनाः अन्तरिक्षविज्ञाने संशोधनकार्यार्थमेव कृताः । एतैः कार्यक्रमैः प्राप्ता साङ्ख्यिकीसामग्री जगति महत्त्वपूर्णा, अद्वितीया च अस्ति ।
इसरो इति अन्तरिक्षानुसन्धान-सङ्घटनं निरन्तरं प्रगतिपथे पुरस्सरति । स्थापनादिनाङ्कात् अन्तरिक्ष-अनुसन्धाने बहु-प्रयोगाः कृताः । तेषु ये प्रयोगाः सफलाः, उपयोगपूर्णाः तेषां कार्यम् संस्थया अग्रे नीयते । तथा च यस्मिन् विषये आवश्यकता वर्तते तेषां विषये संशोधनम्, विकासकार्यं च अङ्गीक्रियते । अतः इदानीं ये प्रकल्पाः इसरो संस्थायां प्रचलन्ति तेषां विषये
१. उपग्रहाः
• भारतीय-राष्ट्रीय-उपग्रहाः (INSAT) • भारतीय-सुदूर-संवेदन-उपग्रह-प्रणाली(Indian Remote Sensing) • Meteorological Setellite • Satellite Navigation
२. प्रमोचन-यानानि
• PSLV • GSLV
३. उपग्रह-विनियोगः
• सुदूर-संवेदनम्
• ग्रामीण-संसाधान-केन्द्रम् (VRC)
• भारतीय-प्रादेशिक-दिशादर्शक उपग्रहाः (Indian Regional Navigation Setellite System)
एतेषां सर्वेषां कार्याणां सञ्चालनम् इति तु बहु आह्वानात्मकं कार्यम् । अतः बृहत्सङ्ख्यासामर्थ्यम्, आर्थिकसामर्थ्यं, तन्त्रज्ञानं च आवश्यकम् । अस्य कार्यार्थं सम्पूर्णे भारते इसरो संस्थायाः कार्यविभागाः, शाखाः च कर्मरताः सन्ति । ताः शाखाः यथा –
१. विक्रम-साराभाई-अन्तरिक्ष-केन्द्रम् (VSSC), तिरुवनन्तपुरम्
२. इसरो-उपग्रह-केन्द्रम् (ISAC), बेङ्गलुरु
३. सतीश-धवन-अन्तरिक्ष-केन्द्रम् (SDSC), शार, श्रीहरिकोटा
४. द्रव-नोदन-प्रणाली-केन्द्रम् (Liquid Propulsion Space Centre), महेन्द्रगिरि, बेङ्गलुरु
५. अन्तरिक्ष-उपयोग-केन्द्रम् (Space Application Centre), अहमदाबाद
६. विकास-तथा-शैक्षिक-सञ्चार-केन्द्रम्, अहमदाबाद
७. इसरो-दूरमिती-अनुवर्तन-तथा आदेश सञ्चारजाल (National Remote Sensing Centre), हैदराबाद
८. मुख्य-नियन्त्रण-सुविधा-केन्द्रम् (Master Control Facility), हासन, भोपाल
९. विद्युत्-प्रकाशिकी-तन्त्र-प्रयोगशाला (Laboratory Electro Optic System), बेङ्गलुरू
१०. भारतीय-सुदूर-संवेदन-संस्थानम् (Indian Institute of Remote Sensing), देहराडून
११. भौतिक-अनुसन्धान-प्रयोगशाला (Physical Research Laboratory), अहमदाबाद
१२. राष्ट्रिय-वायुमण्डल-अनुसन्धान-प्रयोगशाला (National Atmospheric Research Laboratory), गुद्दंकी
१३. प्रादेशिक-सुदूर-संवेदन-केन्द्रम् (Regional Remote Sensing Centre), बेङ्गलुरु, जोधपुर, खड्गपुर, देहरादून, नागपुरम्
१४. उत्तर-पूर्वी-अन्तरिक्ष-उपयोग-केन्द्रम् (North Eatern-Space Application Centre), शिलौङग
१५. एन्ट्रिक्स-कोर्पोरेशन्-लिमिटेड् (ACL), बेङ्गलुरु
१६. सेमी-कण्डक्टर्-प्रयोगशाला (SCL), चण्डिगढ
१७. भारतीय-अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-संस्था (Indian Institute of Science and Technology), तिरुवनन्तपुरम्
अस्याः संस्थायाः संस्थापनादारभ्य बहुभिः ख्यातनामभिः, तन्त्रज्ञैः, धीमद्भिः च अध्यक्षपदं भूषितम्, सञ्चालकपदम् च अलङ्कृतम् । ते अध्यक्षाः यथा –
१. डा. विक्रम साराभाई (१९६३-१९७२)
२. प्रोफ़ेसर एम.जी.के. मेनन (जनवरी - सितम्बर १९७२)
३. प्रोफ़ेसर सतीश धवन (१९७२-१९८४)
४. प्रोफ़ेसर उडुपी रामचन्द्र राव (१९८४-१९९४)
५. डॉ. कृष्णस्वामी कस्तूरीरङ्गन (१९९४-२००३)
६. श्री जी. माधवन नायर (२००३-२००९)
७. डा.के.राधाकृष्णन्- वर्तमान-अध्यक्षः
भारतदेशस्य विकासार्थं यतमानम् एतत् सङ्घटनम् । एतेन सङ्घटनेन भारतदेशस्य विकासार्थं बहु कार्यं कृतं तथैव इतः परमपि करणीयम् इति चिन्तनं दृश्यते सङ्घटनस्य अग्रिमयोजनासु । सङ्घटनेन 'Space VIsion India 2025' इत्येषा आगामियोजना स्वीकृता अस्ति । तस्यां केचन अंशाः यथा -
१. प्रमोचनयानविषये - पुनःप्रयोगार्हाणि यानानि निर्मातव्यानि ।
२. समानव-अन्तरिक्ष-कार्यक्रमाः ।
३. नौसेनायाः सञ्चालनम् उपग्रहमाध्यमेन यथा भवेत् तथा तन्त्रज्ञानविनियोगात् योजना-निर्माणम् ।
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य एतादृश्यः बह्व्यः आगामियोजनाः सन्ति ।
४. ग्रामीण-संयोजनं, सुरक्षाव्यवस्थाः, दूरसञ्चार-सेवार्थम् उपग्रहाणां योजना अस्ति ।
५. प्राकृतिक-संसाधन-व्यवस्था, वातावरण-जलवायु-परीक्षणार्थं उन्नत-प्रतिबिम्बनक्षमताधारी उपग्रहाणां योजना ।
६. ग्रह-अन्वेषणम्
७ अधिकभारयुतस्य उपग्रहस्य प्रमोचनार्थं तादृशः अर्हतावतः प्रमोचनयानस्य निर्माणम् ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.