From Wikipedia, the free encyclopedia
एतत् प्लाक्षफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् प्लाक्षफलम् अपि सस्यजन्यः आहारपदार्थः । इदं प्लाक्षफलम् आङ्ग्लभाषायां common fig इति उच्यते । एतत् प्लाक्षफलम् अकृष्टपच्यम् अपि । प्लाक्षफलम् देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् प्लाक्षफलं वस्तुतः मरुभूमौ सम्यक् वर्धते । तद्विना अन्यत्र अपि इदानीं वर्धयन्ति । इरान्, अफघानिस्तानम्, अरब्, भारतम् इत्यादिषु देशेषु प्लक्षवृक्षस्य वर्धनं महता प्रमाणेन वर्धयन्ति ।
एतत् प्लाक्क्षवृक्षे वर्षे द्विवारं फलोदयः भवति । एषः कश्चन विशिष्टः वृक्षः । परागस्पर्शं विना एव पुषितः, फलितः च भवति । वर्षद्वयस्य वयसि एव फलितः भवति अयं वृक्षः । एतत् प्लाक्षफलम् आम्लमिश्रितमधुररुचियुक्तम् । एतानि फलानि शुष्कीकृत्य संरक्ष्यन्ते । तादृशानां शुष्कफलानां, तस्य फलस्य चूर्णस्य च अपेक्षा सर्वत्र अस्ति । अस्य प्लाक्षवृक्षस्य पर्णानि महाकारकाणि । एते वृक्षाः ८ तः १० पादमितानि उन्नतानि भवन्ति । मार्च, मे, जुलै, सेप्टेम्बर् मासेषु फलिताः भवन्ति अपि ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.