From Wikipedia, the free encyclopedia
सांख्यदर्शनं (Sāṃkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.