![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Map_of_Archaic_Greece_%2528English%2529.jpg/640px-Map_of_Archaic_Greece_%2528English%2529.jpg&w=640&q=50)
पौराणयवनसंस्कृतिः
From Wikipedia, the free encyclopedia
पौराणयवनसंस्कृतिः क्रि पू नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परं सर्वनगरेषु जनाः एकया एव भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकं वृद्धानां सभया निर्देशितः आसीत्। एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्यानि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Map_of_Archaic_Greece_%28English%29.jpg/640px-Map_of_Archaic_Greece_%28English%29.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Prothesis_Dipylon_Painter_Louvre_A517.jpg/640px-Prothesis_Dipylon_Painter_Louvre_A517.jpg)