From Wikipedia, the free encyclopedia
पाण्डुः महाभारतस्य किञ्चित् प्रमुखं पात्रम् अस्ति । अयं पाण्डुः चन्द्रवंशस्य राजा । अस्य पिता विचित्रवीर्यः, माता च अम्बालिका । वस्तुतः विचित्रवीर्यस्य मरणसमये अम्बालिका पुत्रवती एव न आसीत् । तस्य मरणानन्तरं सत्यवत्याः प्रार्थनानुसारं मुनिः व्यासः अम्बालिकायाः कृते पुत्रदानं करोति । अतः मुनिः व्यासः एव पाण्डोः वास्तविकः पिता । अयं पाण्डुमहाराजः पाण्डुरोगेण पीडितः आसीत् जन्मना एव । अस्य द्वे पत्न्यौ कुन्ती, माद्री च । सुप्रसिद्धानां पञ्चपाण्डवानां पिता एषः पाण्डुमहाराजः । मृगयावसरे शब्दवेधीप्रयोगेण व्याघ्रं मारयितुम् उद्युक्तः सपत्नीकम् ऋषिकुमारं मारयति । तदा सः ऋषिकुमारः "यस्मिन् क्षणे भवान् स्त्रीसङ्गं करोति सः एव भवतः अन्तिमः क्षणः भवति" इति पाण्डुं शप्तवान् । तदनन्तरं कुन्त्या विवाहात् पूर्वं दूर्वासेभ्यः प्राप्तस्य वरस्य बलेन पुत्रमान् सञ्जातः पाण्डुमहाराजः ।
पाण्डुः | |
---|---|
देवनागरी | पाण्डुः |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.