![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/sa/thumb/1/13/%25E0%25A4%25AA%25E0%25A4%25BE%25E0%25A4%25A3%25E0%25A4%25BF%25E0%25A4%25A8%25E0%25A4%25BF%25E0%25A4%259A%25E0%25A4%25BF%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25B0%25E0%25A4%25AE%25E0%25A5%258D.jpg/640px-%25E0%25A4%25AA%25E0%25A4%25BE%25E0%25A4%25A3%25E0%25A4%25BF%25E0%25A4%25A8%25E0%25A4%25BF%25E0%25A4%259A%25E0%25A4%25BF%25E0%25A4%25A4%25E0%25A5%258D%25E0%25A4%25B0%25E0%25A4%25AE%25E0%25A5%258D.jpg&w=640&q=50)
पाणिनिः
विश्वप्रसिद्ध "अष्टाध्यायी" संस्कृतव्याकरणग्रन्थः लिखितं / From Wikipedia, the free encyclopedia
महर्षिः पाणिनिः संस्कृतभाषाया महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामको व्याकरणग्रन्थो विश्वप्रसिद्धो वर्तते ।
महर्षिः पाणिनिः | |
---|---|
![]() व्याकरणशास्त्रस्य रचनां कुर्वन् भगवान् पाणिनिः | |
जननम् |
क्रैस्तपूर्वं सप्तमशताब्दी शालातुरग्रामः (सद्यः पाकिस्थानस्य लाहौर-नगरस्य समीपे) |
मरणम् | त्रयोदश्यां तिथौ |
वृत्तिः | वैयाकरणः, कविः |
राष्ट्रीयता | भारतीयः |
विद्याभ्यासः | तक्षशिलाविश्वविद्यालयः, तक्षशिला, पाकिस्थानम् ( पूर्वं भारते आसीत्, विभाजनान्तरं पाकिस्थाने जातम् ) |
प्रकारः | संस्कृतव्याकरणस्य रचयिता |
विषयाः | अष्टाध्यायी, धातुपाठः, गणपाठः, उणादिकोषः, लिङ्गानुशासनम्, जाम्बवतीजयम् । |
प्रमुखकृतयः | अष्टाध्यायी |
भागी | दाक्षी (माता), पणिनः (शालङ्किः) (पिता) |
विषयैः प्रभावितः
|
संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-
- इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः ।
- पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥
![पाणिनेः मूर्तिः](http://upload.wikimedia.org/wikipedia/commons/thumb/d/db/Panini_1.jpg/640px-Panini_1.jpg)
इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते ।
स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य "अष्टाध्यायी" इत्येतस्मिन् ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- "ऋतो भारद्वाजस्य"७/२/६३. "लोपः शाकल्यस्य"८/३/१९. "त्रिप्रभृतिषु शाकटायनस्य"८/४/५०. "वा सुप्यापिशलेः"६/१/९२. इत्यादि ।
पाणिनिः भगवान् व्याकरणशास्त्रस्य केन्द्रविन्दुर्मतः । यद्यपि तत्पूर्वमपि दश पाणिनिस्मृता दश अनपेक्षिताः षोडशेति षड्विंशतिराचार्याः सन्त्येव व्याकरणशास्त्रप्रवक्तारस्तथाऽपि भगवतः पाणिनेः व्याकरणशास्त्रकेन्द्रविन्दुत्वं विलेंसत्येव तदुपस्थापनप्रावीण्येन । पाणिनिह भगवान् सर्वाणि प्रचलितव्याकरणशास्त्रीणि समालोच्य विशदमपि शब्दप्रयोगविषयमुपसमाहृत्य व्याकरणसूत्राणि प्रणिनायं यत्र निखिलमेव संप्रपञ्चं शब्दानुशासनमात्मसाभूतमस्ति । तस्यः । हि व्याकरणसंहिता अष्टाध्यायी नामा प्रसिद्धाऽस्ति । यद्यपि आपिशलव्याकरणं . पाणिनेरुपजीव्यमासीत् यथा हरदत्तः सङ्कतयति तथापि तस्य मौलिकत्वम'क्षुण्णमविहतञ्चास्त्येव ।
चीनदेशतो बौद्धभिक्षुः "ह्युन्शैङ्ग" भारतदेशमागतः, अपि च तेन व्याकरणं पठितमत्र, स अपि पाणिनेर्विषये कथितवान् यद्भारते सर्वे तस्यैव व्याकरणशास्त्रं पठन्तीति।