From Wikipedia, the free encyclopedia
अयं पलाशवृक्षः भारतस्य कश्चन वृक्षविशेषः । अयं वृक्षः भारतस्य अत्यधिकेषु प्रदेशेषु वर्धते । अयं पलाशवृक्षः १२ – १५ मीटर् यावत् उन्नतः भवति । अस्य त्वक् धूसरवर्णीयं, रूक्षं चापि । अस्य पर्णानि रक्तवर्णीयानि, १५ से.मीयावत् दीर्घाणि च भवन्ति । अस्य फलानाम् अन्तः एकं बीजं भवति । अस्मिन् बाल्सिनिन्, किनोट्योनिक् आसिड् इत्यादयः अंशाः भवन्ति । अस्य वृक्षस्य त्वक्, पुष्पं, फलं, पर्णं, मूलं चापि औषधत्वेन उपयुज्यन्ते ।
अयं पलाशवृक्षः आङ्ग्लभाषया Butea Monosperma, flame of the forest, parrot tree इति उच्यते । हिन्दीभाषया “पलाश्” इति, तेलुगुभाषया “पलाडुलु” इति, तमिळ्भाषया “मुरुक्कन् मारम्” इति, मलयाळभाषया “पैलाचम्” इति, कन्नडभाषया "मुत्तुग", “मुत्तुगद मर” इति च उच्यते ।
अपिच हिन्दीभाषायां अस्य पुष्पस्य नाम "किंशुक्","किंशुकपुष्प्" इत्युच्यते ।
अस्य पलाशवृक्षस्य त्वक् लघु रूक्षं चापि । त्वचः रसः कटुः, तिक्तः च, विपाके मधुरः भवति । त्वक् उष्णवीर्ययुक्तम् । अस्य पुष्पस्य रसः तिक्तः, विपाके मधुरः भवति । पुष्पं स्निग्धगुणयुक्तं, शीतवीर्ययुक्तं चापि ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.