![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/df/Ramanuja_statue%252C_18th_century_AD.jpg/640px-Ramanuja_statue%252C_18th_century_AD.jpg&w=640&q=50)
पञ्चरात्रम्
From Wikipedia, the free encyclopedia
कव्यं प्रधानतया द्विविधम् । दृश्यं श्रव्यं चेति । तत्र श्रव्यकाव्यस्य रूपकम् इति नाम । संस्कृतसाहित्ये रूपकस्य प्रधानं स्थानम् अस्ति । तेषु अन्यतमः पञ्चरात्रं।पञ्चरात्रम् तावत् भासकविना विरचितमिति टि.गणपतिशास्त्रिणः अनेकैः साक्ष्याधारैः प्रत्यपादयन् । केचन दोषज्ञाः शास्त्रिमतं नाङ्गीकुर्वन्ति । किन्तु भासनाटकचक्रे विद्यमानानां त्रयोदश नाटकानां कर्ता भासादपरः कविरपि न सिद्धः । अतः विवादान् पार्श्वे कृत्वा साद्यस्के काले बहुभिः अङ्गीक्रियते यत् एतेषां कर्ता भास एव इति ।भासेन आहत्य षड्रूपकाणि विरचितानि। तेषु द्वितीयं भवति पञ्चरात्रं। भासस्य सर्वाणि रूपकाणि एकाङ्काः एव ।किन्तु पञ्चरात्रे तावत् त्रयः अङ्काः सन्ति इति वैशिष्ट्यं अस्य रूपकस्य ।महाभारतकथां स्वीकृत्य विरचितमिदं रूपकं विराटपर्वस्य विषयं प्रदर्शयति। स्त्रीपात्ररहितमपि रूपकमिदं अर्थगाम्भीर्ये, रसोत्पादने, चतुरसम्भाषणे प्रसिद्धम्।
पञ्चरात्रम् |
---|
पञ्चरात्रम् |
---|
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/0/0f/%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%9F%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%83.jpg)