From Wikipedia, the free encyclopedia
नैऋत्य-खासि-हिल्स्-मण्डलं (आङ्ग्ल: South West Khasi Hills District) मेघालयराज्ये स्थितं मण्डलमिदम् । अस्य मण्डलस्य केन्द्रमस्ति मौकरवट् इत्येतन्नगरम् ।
South West Khasi Hills District | |
---|---|
मण्डलम् | |
मेघालयराज्ये नैऋत्य-खासि-हिल्स्-मण्डलम् | |
देशः | India |
मण्डलम् | नैऋत्य-खासि-हिल्स्-मण्डलम् |
विस्तारः | १,३४१ च.कि.मी. |
जनसङ्ख्या(२०११) | ६१,०३२ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://mawkyrwat.gov.in/basic.html |
नैऋत्य-खासि-हिल्स्-मण्डलस्य विस्तारः १,३४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरदिशि पश्चिम-खासि-हिल्स्-मण्डलं, पश्चिमदिशि दक्षिण-गारो-हिल्स्-मण्डलं, पश्चिम-खासि-हिल्स्-मण्डलं च, दक्षिणदिशि बाङ्ग्लादेशः, पूर्वदिशि पूर्व-खासि-हिल्स्-मण्डलम् अस्ति । अत्र १९७ से.मी.मितः वार्षिकवृष्टिपातः भवति । अस्य प्रदेशस्य अङ्गारं, कर्करं, 'युरेनियम' च प्रमुखखनिजसम्पत्तिः ।
नैऋत्य-खासि-हिल्स्-मण्डलस्य जनसङ्ख्या(२००१) ६१,०३२ अस्ति ।
मौकरवट् विभागस्य स्थापना २६ जून १९८२ तमे वर्षे कृता । नैकानां संवत्सरानाम् अनन्तरं अस्य उपविभागस्य नैऋत्य-खासि-हिल्स्-मण्डलत्वेन स्थापना कृता । तथा मौकरवट् इत्येतन्नगरम् अस्य मण्डलस्य केन्द्रत्वेन निर्धारितम् ।
अस्य मण्डलस्य अर्थव्यवस्था कृष्याधारिता, ग्रामीणा च अस्ति । कृषिः एव ९०% जनानाम् उपजीविकां कल्पयन्ति । इदानीं अत्रस्थजनाः 'Cash Crops' अपि उत्पादयन्ति । तण्डुलः, किणः, 'सोयाबीन', आलुकं, आर्द्रकं, हरिद्रा, क्षुज्जनिका, पूगफलं, ताम्बूलवल्ली, नारङ्गफलम्, 'प्लम्', 'पिच', मधुकर्कटी, पनसफलम्, अननसं, कदलीफलं, 'लिची', तिन्त्रिणी च प्रमुखसस्योत्पादनानि सन्ति ।
अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -
अत्रस्था प्रमुखजनजातिः अस्ति । अत्रस्थजनाः प्रमुखतया खासि, गारो च भाषाभ्यां वदन्ति । मुख्यत्वेन सर्वकारीयकार्यं, कृषिकार्यं, उद्यमः च जनानाम् उपजीविकां कल्पयन्ति ।
अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.