नरेन्द्र दामोदरदास मोदी मोदिवर्यस्य समर्थत्वेन दूरदर्शि नेतुः स्वरूपे आदरं कुर्वन्ति। यः पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदयः कुशलः वक्ता निपुणः मन्त्रणाकारः चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। तस्य अनुयायिषु समाजस्य प्रत्येकसम्प्रदायस्य धर्मस्य - आर्थिकवर्गस्य च जनाः समाविष्टाः सन्ति। गुजरातविश्वविद्यालये तस्य बी.ए. अभ्यासक्रमः सम्पन्नः जातः आसीत्।

त्वरिततथ्यानि नरेन्द्र दामोदरदास मोदी, भारतस्य पञ्चदशः प्रधानमन्त्रि ...
नरेन्द्र दामोदरदास मोदी
Thumb
भारतस्य पञ्चदशः प्रधानमन्त्रि
In office
२६/५/२०१४ तः  पदारूढः
Preceded by मनमोहनसिंहः
Constituency वाराणसी
व्यैय्यक्तिकसूचना
Born वडनगर, गुजरातराज्यम् (ब्रिटिश्-काले बोम्बे प्रेसिडेन्सी)
Political party भारतीयजनतापक्षः
Spouse(s) जशोदाबेन मोदी
Residence ७ लोक कल्याण मार्ग, देहली, भारत
Alma mater गुजरातविश्वविद्यालयः
Signature Thumb
Website narendramodi.in
पिदधातु

जन्म, बाल्यं च

उत्तरगुजरातराज्यस्य महेसाणामण्डलस्य वडनगरनामकः कश्चन लघुग्रामः, यत्र १९५० तमे वर्षे 'सितम्बर्'-मासस्य सप्तदशे (१७) दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। संस्कृतेः प्रभावात् औदार्यं, परोपकारः, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि। १९५०-६० मध्ये भारत-पाकिस्थानयोः युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया अकरोत्। १९६७ तमे वर्षे गुजरातराज्यस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामर्थ्यकारणतः मनोविज्ञाने च नैपुण्यकारणात् सः अखिलभारतीयविद्यार्थिपरिषदः छात्रनेतृत्वेन चितः। ततः तेन गुजरातराज्ये विभिन्नेषु सामाजिक-राजकीय-आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा। किशोरावस्थायाः आरभ्य एव तेन बह्व्यः समस्याः बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्याः साहसेन च सर्वाण्यपि आह्वानानि अवसररूपेण परिवर्तितानि। विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेशः प्राप्तः तदा तस्य मार्गः सङ्घर्षैः कष्टदायकपरिश्रमैः च आवृतः आसीत् परं जीवनसङ्घर्षे सः सर्वदा एकः योद्धा आसीत्, सत्यनिष्ठः, सैनिकः च आसीत्। एकवारं पदं पुरः स्थापयित्वा न कदापि पृष्ठतः अवलोकितम्। तेन न कदापि पराजयः अङ्गीकृतः। एवं दृढश्चियेनैव सः राजनीतिशास्त्रम् अधिकृत्य अनुस्नातकाध्ययनं समापयितुं समर्थो जातः। येन भारतस्य सामाजिकः सांस्कृतिकः विकासः च सर्वदा इष्टः (लक्षितः) तादृशस्य राष्ट्रीयस्वयंसेवकसङ्घस्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव निःस्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणं राष्ट्रवादः च इत्येतेषां भावनाः आत्मसात् कृताः।

राजकीयजीवने मोदी

आर्. एस्. एस्.[1] मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्यः १९७४ तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपत्काले यदा भारतीयनागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णाः भूमिकाः निरूढाः। मोदीजी अस्मिन् समये भूगर्भवासं कृत्वा गुप्ततया केन्द्रसर्वकारस्य दुष्टनीतिनां विरुद्धं शक्तिपूर्वकं युद्धं कृत्वा प्रजाशासनस्य (लोकशासनस्य) भावनां जीवितां रक्षितवान्। १९८७ तमे वर्षे भारतीयजनतापक्षे स्वात्मानं योजयित्वा राजनीतेः मुख्यधारायां प्रविष्टः। वर्षस्य अन्ते गुजरातराज्यस्य महामन्त्रिपदे सः नियुक्तः। तावता अत्यन्तं कुशलसङ्घटकत्वेन ख्यातिः अपि प्राप्ता। वस्तुतः तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मादेव कारणात् पक्षेण राजकीयलाभाः अपि प्राप्ताः। १९९० तमे वर्षे 'अप्रैल्'-मासे केन्द्रीयशासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिकसम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्षः गुजरातराज्ये सत्तारूढः जातः। तदा आरभ्य गुजरातराज्यस्य शासनसूत्रं भारतीयजनतापक्षस्य हस्ते अस्ति। १९८८ तः १९९५ पर्यन्तं यः कालः अतीतः तस्मिन्नेव काले श्रीनरेन्द्रमोदी वर्यस्य परिचयः कुशलः रणनीतिज्ञः इति रूपेण उद्भूतः। येन च गुजरातराज्ये भारतीयजनतापक्षः शासनकर्तृ-पक्षत्वेन सफलतापूर्वकं परिचायितः। अस्मिन्नेव काले अत्यन्तं महत्वपूर्णयोः द्वयोः कार्यक्रमयोः आयोजनस्य उत्तरदायित्वं मोदीमहोदयाय दत्तम्। तत्र प्रथमम् आसीत् श्रीमतः लाल कृष्ण आडवाणीमहाशयस्य सोमनाथात् आरभ्य अयोध्यां यावत् आयोजिता रथयात्रा। तद्वदेव भारतस्य दक्षिणभागात् कन्याकुमारीतः कश्मीरं यावत् एका यात्रा। १९९८ तमे वर्षे देहल्यां शासनं परिवत्र्य भारतीयजनतापक्षस्य उदयार्थं श्रेयो यदि देयः तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं मुख्यत्वेन मोदीवर्येण ऊढम्। १९९५ तमे वर्षे सः पक्षस्य राष्ट्रीयसचिवत्वेन नियुक्तः, तदनन्तरं भारतस्य पञ्च महत्त्वपूर्णराज्यानां कार्यभारः तस्मै प्रदत्तः। यश्च कस्यचिदपि युवनेतुः कृते एका अपूर्वा अद्वितीया च सिद्धिः अस्ति। १९९८ तमे वर्षे तेन सङ्घटनस्य महासचिवपदे पदोन्नतिः प्राप्ता। २००१ तमस्य वर्षस्य 'अक्तूबर'-मासात् आरभ्य यदा भारतस्य सर्वाधिकेषु समृद्धेषु प्रगतिशीलेषु राज्येषु एकतमस्य गुजरातराज्यस्य मुख्यमन्त्रित्वेन चितः जातः, तावत् पर्यन्तं सः महासचिवपदे आसीत्। राष्ट्रीयस्तरे तस्य कार्यकरणावसरे श्रीमता नरेन्द्र मोदी वर्येण जम्मु-काश्मीर् सदृशस्य संवेदनशीलस्य राज्यस्य तथा तद्वदेव संवेदनशीलानाम् उत्तरपूर्वीयराज्यानाम् अन्येषां च प्रान्तस्तरीयाणां बहूनाम् आयामानाम् उपरि अवधानस्य उत्तरदायित्त्वं प्राप्तम्। बहूनां राज्यानां पक्षस्य सङ्घटनं समीकर्तुं तस्मै उत्तरदायित्वं दत्तम् आसीत्। राष्ट्रीयस्तरे कार्यकरणावसरे श्री नरेन्द्रमोदीवर्यः पक्षस्य महत्त्वपूर्ण - प्रवक्तृरूपेण उद्भूतः। यदा नैकाः महत्त्वपूर्णाः घटनाः घटिताः, तदा तेन विशिष्टाः भूमिकाः ऊढाः। कालान्तरेण सः समग्रेऽपि विश्वे यात्रां कृतवान् बहूनां देशानां प्रतिष्ठितैः नेतृभिः सह मिलितवान् वार्तालापं च कृतवान्। एतैः अनुभवैः न केवलं तस्य चिन्तनं विकसितं परं भारतस्य सेवां कर्तुं विश्वे च तस्य (भारतस्य) सामाजिकम् आर्थिकं च वर्चस्वं प्रस्थापयितुम् उत्साहः वृद्धिं गतः। मुख्यमन्त्रित्वेन नरेन्द्र मोदी २००१ तमे वर्षे गुजरातसर्वकारस्य नेतृत्वं कर्तुं सः आहूतः। यदा श्रीमतः नरेन्द्रमोदीवर्यस्य सर्वकारेण ७ अक्तूबर २००१ तमे दिवसे शपथः स्वीकृतः तदा गुजरातराज्यस्य अर्थव्यवस्था २००१ तमस्य वर्षस्यैव जनवरीमासस्य भयावहेन भूकम्पेन नाशिता इव। बह्व्यः प्राकृतिकविपदः अपि तत्र कारणभूताः। तथापि एकेन कुशलव्यूहरचनाकारेण स्वस्य राष्ट्रीयैः आन्तरराष्ट्रीयैः अनुभवैः समृद्धो भूत्वा अस्याः समस्यायाः निराकरणं कर्तुं मार्गप्राप्तेः निर्णयः कृतः।

भूकम्पग्रस्तेभ्यः पुनर्वसनव्यवस्था

यदा मुख्यमन्त्रिरूपेण पदभारः गृहीतः तदा सर्वप्रथमम् आह्वानरूपं कार्यम् अर्थात् २००१ तमवर्षस्य विनाशकारी भूकम्पः[2]। तेन भूकम्पेन पीडितानां जनानाम् आवासव्यवस्था, पुनः आवासानां निर्माणं, पुनर्वसनप्रक्रिया च। सहस्त्रशः जनाः केषुचिदपि आश्रयस्थानेषु दैनन्दिनसुविधाः विना कथमपि जीवनं यापयन्ति स्म। साम्प्रतं श्रीनरेन्द्रमोदीवर्येण प्रतिकूलाः परिस्थितेयः अपि कथं विकासस्य अवसररूपेण परिवर्तिताः तदद्य दृष्टुं शक्यते। यदा पुनर्निर्माणस्य पुनर्वसनस्य च कार्यं चलति स्म तदा अपि श्रीमता नरेन्द्रमहोदयेन स्वस्य दूरदर्शित्वं न नाशितम्। गुजरातराज्येन सर्वदा औद्योगिकः विकासः एव लक्षितः आसीत्। परं नरेन्द्रमहोदयेन सर्वाङ्गिणाय - सामाजिकाय आर्थिकाय च विकासाय सुष्ठु-रीत्या सामाजिकक्षेत्रस्य उपरि ध्यानं केन्द्रितं कृत्वा तत् असन्तुलनं समीकर्तुं निर्णयः कृतः। श्रीमता नरेन्द्रमोदीवर्येण पञ्चामृतयोजना कल्पिता। राज्यस्य सर्वाङ्गिणाय विकासाय पञ्चसूत्रीया रणनीतिः।

विकासपुरुषः नरेन्द्र मोदी

Thumb
विजयशङ्खनाद इति जनसभायां नरेन्द्र मोदी

तस्य नेतृत्वे शिक्षणं - कृषिः आरोग्यसेवया सहितं नैकेषु क्षेत्रेषु महत् परिवर्तनं दृष्टुं शक्यते। तेन राज्यस्य उज्वलभविष्याय स्वदृष्टिः स्थिरीकृता। नीति-अनुगुणं परिवर्तनम् आनेतुं कार्यक्रमाः आरब्धाः। सर्वकारस्य प्रशासनविभागानां पुनः व्यवस्थां कृत्वा गुजरातं सफलतापूर्वकं समृद्धिपथम् आनीतवान् माननीयः नरेन्द्रमोदीवर्यः। सत्तारूढे सति १०० दिनेषु एव (शतं दिनानाम् अनन्तरमेव) जनाः तस्य आशयान् क्षमताः कार्यशैलीं च ज्ञातवन्तः। स्वस्य व्यवस्थापनकुशलतायाः स्पष्टदूरदर्शितायाः सच्चारि-त्र्यस्य च कौशलानां कारणतः २००२ तम वर्षस्य दिसम्बरमासस्य सामान्येषु निर्वाचनेषु प्रत्यक्षतया भव्यः विजयः प्राप्तः। एवं च मोदी सर्वकारः विधानसदनस्य १८२ स्थानानि प्राप्य स्पष्टेन बहुमतेन पुनः निर्वाचितः। विजयोऽयं अङ्कानां (गणनादृष्या) दृष्टया उत्कृष्टः आसीत् यतोऽहि विपक्षेन कोङ्ग्रेसपक्षेन गुजरातराज्यस्य निर्वाचनाय स्वस्य राष्ट्रीयस्तरीयानां स्त्रोतसाम् उपरि अधिकम् अवधानं दत्तम् आसीत्। विपक्षेण महता प्रमाणेन चालितं निन्दात्मकं प्रचाराभियानं कुशलतापूर्वकं पारं कृत्वा श्री नरेन्द्र मोदीवर्येण मुख्याय विपक्षाय लज्जास्पदः पराजयः प्रदत्तः, यस्य वैशाल्येन मित्राणि शत्रवः च समानतया चकिताः (दिङ्मूढाः) अभूवन्। २००२ तमे वर्षे यदा तेन गुजरातराज्यस्य मख्यमन्त्रित्वेन द्वितीयवारं शपथः स्वीकृतः तदा तस्य शपथविधिसमारोहस्य आयोजनं स्टेडियममध्ये करणीयम् अभवत्। कारणम् एकमेव आसीत् यत् विशाल सङ्ख्यायां जनाः स्वस्य प्रियं नेतारं दृष्टुं श्रोतुं च इच्छन्ति स्म, यैः जनैः एतावता उत्साहेन विजयी कृतः। जनानाम् आकांक्षाः अपेक्षाः च तेषाम् अपेक्षायाः अपेक्षया अपि अधिकं तोषिताः। अद्यत्वे गुजरातराज्यं विविधक्षेत्रेषु अग्रेसरं विद्यते तद् भवतु नाम इ-गवर्नन्स् स्यात्, धननिवेशः स्यात्, दारिद्रय - निवारणं विद्युत् व्यवस्था वा स्यात्, एस् ई झेड् स्यात्, मार्गनिर्माणं स्यात् आर्थिकीव्यवस्था स्यात् वा यत् किमपि अन्यत् क्षेत्रं स्यात् - एतेषु सर्वेषु अपि विषयेषु केन्द्रे जनानां सहभागिता अस्त्येव। बहूनाम् अवरोधानाम् अनन्तरमपि नरेन्द्रमोदीवर्येण निर्धारितं यत् कथमपि नर्मदासेतुबन्धः १२१.९ मीटर परिमितम् औन्नत्यं प्राप्नुयात्। यैः अस्मिन् कार्ये अवरोधः उत्पादितः तेषां विरुद्धं महोदयेन उपवासाः अपि आचरिताः। सुजलां सुफलाम् इति तादृशी काचित् योजना विद्यते यथा गुजरातराज्ये जलस्त्रोतसाम् एकं ग्रिड निर्मातुं जलं रक्षितुं तथा तस्य योग्यदिशि उपयोगस्य दिशायां द्वितीयम् एकम् अभिनवपदम् अस्ति। सोइल हेल्थ कार्ड, रोमिंग् रेशन् कार्ड्, रोमिंग् स्कूल् कार्ड् इत्यादीनाम् आरम्भः इत्येतादृशाः केचित् नवीनविचाराः राज्यस्य सामान्यमनुष्यान् प्रति तस्य चिन्ताः दर्शयन्ति। कृषिमहोत्सवः, चिरञ्जीवी योजना, मातृवन्दना, पुत्रिरक्षाभियानं (बेटी बचावो), ज्योतिग्रामयोजना, कर्मयोगी योजना च। इति एतादृशीनां बह्वीनां योजनानाम् उद्देश्यम् अर्थात् गुजरातराज्यस्य सर्वांङ्गिविकासः। अनेन प्रकारेण पुरोगमनाय दृष्टिः विचाराः समयानुसारम् आचरणं च श्री नरेन्द्रमोदीमहाशयं सत्यनिष्ठराजनेतुः रूपेण प्रमाणितं करोति यः च भाविनः जनानां कृते विचारयति। अन्येषां राजनेतृणां पृष्ठभूम्याः पृथगेव, ये तु केवलम् अग्रिमाय निर्वाचनाय एव विचारयन्ति। नवीनविचारैः युक्तेन ऊर्जावता (उष्मापूर्णेन) युवलोकनेतृत्वेन व्याप्तेन श्री नरेन्द्रमोदीवर्येण स्वविचाराः सफलतापूर्वकं गुजरातराज्यस्य जनजनपर्यन्तं प्रापिताः। सः पञ्चकोटितः अधिकजनानां विश्वासं सम्पादयितुं तेषाम् आशाः च जागरयितुं समर्थः अभवत्। लक्षशः जनान् अर्थात् न केवलं तावदेव सामान्याति - सामान्यं जनमपि तस्य नाम्ना आह्वयति इति तस्य स्मृतिशक्तेः कारणात् सः प्रजानां प्रियः जातः अस्ति। आध्यात्मिकान् नेतृन् (धर्मगुरून्) प्रति तस्य अत्यन्तम् आदरः इति कारणात् सर्वधर्माणां सामीप्याय साहाय्यं प्राप्तम् अस्ति। भिन्न-भिन्नप्रकारेण आयं (आर्थिकम्) कर्तृणां समूहेन विविधधर्मैः पृथक्तया राजकीयसम्बन्धितः गुजरातराज्यस्य केनचित् विशालेन समूहेन मोदी वर्यस्य समर्थत्वेन दूरदर्शि नेतुः स्वरूपे आदरं कुर्वन्ति। यः पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदयः कुशलः वक्ता निपुणः मन्त्रणाकारः चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। तस्य अनुयायिषु समाजस्य प्रत्येकसम्प्रदायस्य धर्मस्य - आर्थिकवर्गस्य च जनाः समाविष्टाः सन्ति। तस्य नेतृत्वकौशलेनैव गुजरातराज्येन समग्रविश्वात् बहूनि सन्मानानि बहवः पुरस्काराः च प्राप्ताः सन्ति। यथा - आपद्काले व्यवस्थापनाय संयुक्तराष्ट्रपक्षतः सासाकावा पुरस्कारः रचनात्मकाय सक्रियाय च प्रशासनाय कोमनवेल्थ् एसोसियेशन् फोर् पब्लिक् एडमिनिस्ट्रिेशन् एण्ड् मेनेजमेण्ट् एवं युनेस्को इत्यनयोः पुरस्कारः (एवोर्ड्) ई-गवर्नन्सनिमित्तं सी.एस्.आई. पुरस्कारः च। वस्तुतः तु प्रजाभिः सततं वर्षत्रयं यावत् श्री नरेन्द्र मोदीवर्याय सर्वश्रेष्ठस्य मुख्यमन्त्रिणः स्थानं प्रदत्तम् अस्ति तदेव तस्य महतीनां सिद्धिनां वैशाल्यं दर्शयति। गुजरातं विश्वस्य पुरतः चित्रयितुं तेन आरब्धम् अद्भुतम् अभियानम् अर्थात् वायब्रण्ट्गुजरातम्। येन अभियानेन समग्रजगतः धननियोजकानां ध्यानं गुजरातं प्रति आकृष्टम्। गतेभ्यः बहुभ्यः वर्षेभ्यः गुजरातराज्ये द्वि-अङ्की वृद्धिः दृष्टुं शक्या। अनेन प्रकारेण सततगतिशीलम् इदं गुजरातम् अग्रे सरति तदा अयं यात्रिकः समयसिकतायां स्वपदचिह्नानि त्यजन् माइलस्टोन् इत्येनं स्माइलस्टोन् मध्ये परिवर्तितं कृत्वा २०१० तमे वर्षे राज्यस्य स्वर्णिम जयन्ती उत्सवः आचरणीयः इति लक्ष्यं मनसि निधाय उत्तरोत्तरं प्रयाणम् अनुवर्तितम् एव। अत एव गुजरातम् अधुना विश्वस्य विकसितेषु अर्थतन्त्रेषु सगर्वं तिष्ठति। प्राथमिककक्षायाः आरभ्य उच्चतमं स्थानं प्राप्तुं तस्य राजकीययात्रायाः निरीक्षणमपि तस्य गात्रस्य वर्धमानं व्यापं दर्शयति। नेतृत्वस्य विचारान् आदर्शान् च दृष्टुम इच्छुकः अत्र तद् दृष्टुं शक्नोति। अत्र तादृशम् एकम् अनुकरणीयम् आदर्शं व्यक्तित्वं दर्शयति यत् केन प्रकारेण चारित्र्येण साहसेन समर्पणेन शेक्त्या च सम्पन्नः युवा अल्पकाल एव रचनात्मकं नेतृत्वं कर्तुं शक्नोति। सार्वजनिके जीवने प्रायः तथा दुष्टुं न लभ्यते यत् दृढसेवाभावनया उद्धेश्यस्य द्रढतया युतः कश्चित् जनः जनानां तावन्तं स्नेहं प्राप्नोति यः च स्वयं तेषु तावदेव स्निह्यति। सः अत्यन्तं स्वल्पेनैव कालेन भाग्यवता जनस्वरूपेण उद्भूतः अस्ति।

प्रधानमन्त्रित्वेन नरेन्द्र मोदी

Thumb
प्रधानमन्त्रित्वेन शपथग्रहणम्

२०१४ तमस्य वर्षस्य मई-मसास्य षड्विंशतितमे (२६/५/२०१४) दिनाङ्के राष्ट्रपतिः प्रणब मुखर्जि तेन प्रधानमन्त्रिशपथम् अकारयत् [3]। द्वितीयवारं राष्टपतिः रामनाथकोविन्दः २०१९ तमवर्षस्य मई मासस्य ३० तमे दिनाङ्के प्रधानमन्त्रित्वेन प्रमाणवचनं बोधितवान्।[4] अधुना सः प्रधानमन्त्रित्वेन देशस्य मार्गदर्शनं कुर्वन् अस्ति।

सम्बद्धाः लेखाः

सन्दर्भः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.