द्राक्षाफलम्
From Wikipedia, the free encyclopedia
द्राक्षाफलम् (Grape) भारते वर्धमानः फलविशेषः । द्राक्षा आङ्ग्लभाषायां Grapes इति उच्यते । द्राक्षा न केवलं भारते अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । 'तापसप्रिया' इत्येतत् द्राक्षायाः अपरं नाम । द्राक्षा मुख्यतया द्विधा विभज्यते । शुष्का द्राक्षा, अशुष्का द्राक्षा च इति । अशुष्का द्राक्षा (द्राक्षाफलम्) वर्णानुगुणं पुनः द्विधा विभज्यते – हरितवर्णीया, नीललोहितवर्णीया च इति । अत्र उच्यमाना द्राक्षा तु अशुष्का द्राक्षा एव ।