दशरथः
From Wikipedia, the free encyclopedia
दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते । अयोध्याधिपः अयम् अजमहाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम । तस्य कोसलदेशस्य भानुमतः पुत्री कौसल्या , केकयदेशस्य अश्वपतिमहाराजस्य पुत्री कैकेयी ,मगधदेशस्य शूरसेनस्य पुत्री सुमित्रा इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः श्रीरामचन्द्रः ,कैकेय्याः भरतः , सुमित्रायाः लक्ष्मणशत्रुघ्नौ इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य शान्ता नामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय रोमपादाय दत्तवान् आसीत्। दशरथस्य आस्थाने धृष्टिः ,जयन्तः ,विजयः ,सुराष्ट्रः ,राष्ट्रवर्धनः ,अशोकः ,मन्त्रपालः तथा सुमन्तः इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य वसिष्ठः , वामदेवः , जाबाली , कश्यपः , गौतमः , मार्कण्डेयः तथा कात्यायनः इति सप्त पुरोहिताः आसन् ।