जोग जलपातः
From Wikipedia, the free encyclopedia
जोगजलपातः कर्णाटकराज्यस्य शिवमोग्गामण्डलस्य उत्तरकन्नडमण्डलस्य च सीमायाम् अस्ति।
त्वरिततथ्यानि जोग जलपातः, क्षेत्रम् ...
जोग जलपातः | |
---|---|
वृष्टिकाले जोगजलपातः | |
भौगोलिकावस्थनम् | |
क्षेत्रम् | सागर, कर्णाटकम्, भारतम् |
भौगोलिकस्थितिः | १४°१३′४४″ उत्तरदिक् ७४°४८′४३″ पूर्वदिक् |
प्रकारः | केटरेक्ट्, सेग्मेण्टेड् |
समुन्नतिः | 488 मीटर्स् (1600 ft MSL) |
औन्नत्यम् | 253 मीटर्स् (829 पादपरिमितम्) |
जलधाराः | 1 |
उच्चतमजलधारा | 253 मीटर्स् (829 पादपरिमितम्) |
उत्सप्रवाहः | शरावती |
सामान्यमानजलधारा | 153 m³/s or 5,387 cu ft/s |
पिदधातु
कर्णाटकराज्ये स्थितः विश्वप्रसिद्धः जलपातः शिवमोग्गामण्डलस्य सागरप्रदेशस्य समीपे जोग(०८१८६) इति स्थले अस्ति । नैसर्गिकः जलपातः अतीव सुन्दरः अस्ति । विशेषतः वर्षाकाले जुलैमासतः अक्टोबरमासपर्यन्तम् अतीव रमणीयम् भवति । वर्षणं सम्यक् न भवति चेत् केवलं रविवासरे जलाशयतः जलं त्यजन्ति तदा एव जलपातदर्शनं सुन्दरं भवति । शरावतीनदीजलम् अत्र निसर्गरमणीये प्रपाते ९५० पादपरिमितोन्नतात्प्रदेशात् पतति । जलस्य अधः पतनस्य दृश्यम् अतीव आकर्षकं मनोहरं च भवति ।