From Wikipedia, the free encyclopedia
जबलपुरमण्डलम् ( ( शृणु) /ˈdʒəbələpʊrəməndələm/) (हिन्दी: जबलपुर जिला, आङ्ग्ल: Jabalpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जबलपुरम् इति नगरम् ।
जबलपुरमण्डलम् jabalpur District | |
---|---|
जबलपुर जिला | |
जबलपुरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम |
विस्तारः | ५,२११ च. कि. मी. |
जनसङ्ख्या (२०११) | २४,६३,२८९ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ८१.०७% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४६.५% |
Website | http://jabalpur.nic.in/ |
जबलपुरमण्डलस्य विस्तारः ५,२११ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे कटनीमण्डलं, दक्षिणे मण्डलामण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।
२०११ जनगणनानुगुणं जबलपुरमण्डलस्य जनसङ्ख्या २४,६३,२८९ अस्ति । अत्र १२,७७,२७८ पुरुषाः, ११,८६,०११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.५१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८१.०७% अस्ति ।
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम ।
बेडाघाट इत्यस्मिन् स्थले नर्मदानदी प्रवहति । नर्मदया पर्वतस्थाः शैलाः छिद्रिताः सन्ति । तत्र प्राकृतिकसौन्दर्यम् अस्ति । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र एकः जलप्रपातः वर्तते । तज्जलप्रपातः धूम्रवान् जलप्रपातः कथ्यते ।
मदनमहल-दुर्गः जबलपुरमण्डलस्य गौरवम् अस्ति । अस्य दुर्गस्य निर्माणं राज्ञा मदन शाह इत्यनेन एकादशशताब्द्यां कारितम् । अयम् एकः सुन्दरः दुर्गः अस्ति ।
रानी दुर्गावती-सङ्ग्रहालयस्य निर्माणं राज्ञिदुर्गावत्याः स्मृतौ कृतम् अस्ति । अस्मिन् सङ्ग्रहालये अनेकानां मूर्तीनां, शिलालेखानाम्, ऐतिहासिकावशेषाणां सङ्ग्रहः अस्ति ।
विकिमीडिया कॉमन्स् मध्ये जबलपुरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://jabalpur.nic.in/
http://www.census2011.co.in/census/district/318-jabalpur.html
http://www.bharatbrand.com/english/mp/districts/Jabalpur/Jabalpur.html Archived २०१४-०६-०९ at the Wayback Machine
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.