![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Butterschmalz-3.jpg/640px-Butterschmalz-3.jpg&w=640&q=50)
घृतम्
From Wikipedia, the free encyclopedia
घृतम् अपि सस्यजन्यः आहारः न, अपि तु प्राणिजन्यः आहारः । घृतम् आङ्ग्लभाषायां Ghee इति उच्यते । प्राचीनात् कालात् अपि घृतम् आहारत्वेन तथैव औषधत्वेन अपि अत्यन्तं महत्त्वयुक्तम् । भारतीये भोजने घृतस्य अभिगारं विना भोजनस्य आरम्भः एव न भवति स्म । इदानीम् अपि विशेषदिनेषु सः क्रमः अस्ति एव । सर्वविधानां भक्ष्याणां रुचिवर्धकम् अस्ति घृतम् । “ऋणं कृत्वा घृतं पिबेत्” इति उक्तिः एव घृतस्य महत्त्वं ज्ञापयति । आरोग्यशास्त्रे अपि घृतस्य विशिष्टं स्थानम् अस्ति ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Butterschmalz-3.jpg/640px-Butterschmalz-3.jpg)
भोजनारम्भे घृतान्नस्वीकरणाभ्यास: भारतीयानाम् । घृतनिर्मित-मधुरपदार्थ: कस्य वा जिह्वालौल्यं न जनयति । ओषधीयगुणेन घृतं वातपित्तशामकं, वीर्यकरं, स्वरदायकं च भवति । घृतेषु गोघृतस्य श्रेष्ठता वर्णिता -‘गव्य: सर्पि: सर्पिषाम्’ (हिततमम्) (च.सू.26) इति । घृतस्य ओषधीयगुणविषये चरक: एवं ब्रवीति - घृतं पित्तानिलहरं रसशुक्रौजसां हितम् ।
- निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् । (च. सू. 23)
- स्मृतिबुद्ध्यग्निशुक्रौज: कफमेदोविवर्धनम् ।
- सर्वस्नेहोत्तमं सर्पिर्मधुरं रसपाकयो: ॥ (च. सू. 27) इति ।
स्नेहनद्रव्येषु (तैलघृतादिषु) घृतम् उत्कृष्टं भवति । यत: क्षीरं घृतरूपेण यावत् परिणमते तन्मध्ये तस्य बहुसंस्कारा: भवन्ति । तैलानां न तथा । अत उक्तम् -
- नान्य: स्नेहस्तथा कञ्चित् संस्कारमनुवर्तते ।
- यथा सर्पिरत: सर्पि: सर्वस्नेहोत्तमं मतम् ॥ (च.नि.1) इति ।