From Wikipedia, the free encyclopedia
गिटार्-वाद्यम् (Guitar) एकं सुप्रसिद्धं तन्त्रीवाद्यम् । प्लक्ट्रम्(Pluctrum) नामकस्य साधनस्य साहाय्येन उत अङ्गुलीनां साहाय्येन वा स्वरोत्पत्तिः कर्तुं शक्नुमः । गिटार्वाद्यस्य त्रयः भेदाः - अकोस्टिक्, एलेक्ट्रिक् उत सेमि अकोस्टिक् इति । गिटार्वाद्यं १९ शतकतः प्रसिद्धम् अस्ति । सर्वेषु सङ्गीतप्रकारेषु अस्य वाद्यस्य उपयोगः कृतः दृश्यते । गिटार्वाद्यं पाश्चात्यसङ्गीतप्रकारयोः राक् तथा ब्लूस् - प्रकारयोः मुख्यं वाद्यं भवति । गिटार्वादकं “गिटारिस्ट्” इति सम्बोधयन्ति ।
गिटार्वाद्यसदृशानि वाद्यानि प्रायशः "५००० वर्षेभ्यः" पूर्वम् आसन् इति श्रूयते । एशियाभागे विद्यमानयोः तन्त्रिवाद्ययोः गिटारवाद्यस्यच सादृश्यं दृश्यते इत्यतः गिटार्वाद्यस्य मूलम् एशियाखण्डः इति वक्तुं शक्यते । गिटार् इति पदं “स्पानिष्”भाषातः उत्पन्नम् । अरब्ब्-पारसि-संस्कृत(गीत+ तार् (तन्त्री)भाषासु गिटार् इत्येतस्य पदस्य मूलं विद्यते इति अन्येषां मतम् । प्रायः इण्डो-युरोपियन् भाषातः उत्पन्नम् इत्यपि अभिप्रायोऽस्ति । ल्यूट्-वाद्यम् अस्य गिटार्वाद्यस्य पूर्वजरूपं भवेत् इत्यभिप्रायोऽप्यस्ति । अडाल्फ् रिकन्ब्याकर्, जार्ज ब्युक्याम्प् तथा पौल् बर्त् एतेषां साहाय्येन १९३१ तमे संवत्सरे विद्युत् गिटार्वाद्यस्य संशोधनं कृतम् ।
गिटार्वाद्यम् भिन्न भिन्न शृतिषु योजयितुं शक्यते । प्रायः अत्र पाश्चात्यसङ्गीतानुसारेण स्वरपद्धतेः (इ ए डि जि बि इ) वर्णनम् एवं भवति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.